Ṛgveda · Maṇḍala 10 · Sūkta 110
Ṛk 10.110.4
Saṃhitā
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नां॑ ।
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नं ॥
प्राचीनम् बर्हिः प्रदिशा पृथिव्या वस्तोर् अस्या वृज्यते अग्रे अह्नाम् |
व्य् उ प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ||
prācī́nam barhíḥ pradíśā pṛthivyā́ vástorasyā́ vṛjyate ágre áhnām ǀ
vyú prathate vitarám várīyo devébhyo áditaye syonám ǁ
prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām |
vy u prathate vitaraṃ varīyo devebhyo aditaye syonam ||
Padapāṭha
प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् ।
वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥
प्राचीनम् । बर्हिः । प्रऽदिशा । पृथिव्याः । वस्तोः । अस्याः । वृज्यते । अग्रे । अह्नाम् ।
वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । देवेभ्यः । अदितये । स्योनम् ॥
prācī́nam ǀ barhíḥ ǀ pra-díśā ǀ pṛthivyā́ḥ ǀ vástoḥ ǀ asyā́ḥ ǀ vṛjyate ǀ ágre ǀ áhnām ǀ
ví ǀ ūṃ íti ǀ prathate ǀ vi-tarám ǀ várīyaḥ ǀ devébhyaḥ ǀ áditaye ǀ syonám ǁ
prācīnam ǀ barhiḥ ǀ pra-diśā ǀ pṛthivyāḥ ǀ vastoḥ ǀ asyāḥ ǀ vṛjyate ǀ agre ǀ ahnām ǀ
vi ǀ ūṃ iti ǀ prathate ǀ vi-taram ǀ varīyaḥ ǀ devebhyaḥ ǀ aditaye ǀ syonam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.110.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.08.04
- Maṇḍala · Anuvāka · Ṛk
- 10.09.115
- Devatā देवता
- 1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
- Ṛṣi ऋषि
- Jamadagni Bhārgava Or Rāma Jāmadagnya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.