Ṛgveda · Maṇḍala 10 · Sūkta 110

Ṛk 10.110.11

Agni · Hymn Āprī · Uṣás, Nakta · Iḷā, Bhāratī, Sarasvatī · Jamadagni Bhārgava Or Rāma Jāmadagnya

The whole sūkta Link

Saṃhitā

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दंतु दे॒वाः ॥

सद्यो जातो व्य् अमिमीत यज्ञम् अग्निर् देवानाम् अभवत् पुरोगाः |
अस्य होतुः प्रदिश्य् ऋतस्य वाचि स्वाहाकृतं हविर् अदन्तु देवाः ||

sadyó jātó vyámimīta yajñámagnírdevā́nāmabhavatpurogā́ḥ ǀ
asyá hótuḥ pradíśyṛtásya vācí svā́hākṛtam havíradantu devā́ḥ ǁ

sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ |
asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ ||

Padapāṭha

स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः ।
अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥

सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःऽगाः ।
अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥

sadyáḥ ǀ jātáḥ ǀ ví ǀ amimīta ǀ yajñám ǀ agníḥ ǀ devā́nām ǀ abhavat ǀ puraḥ-gā́ḥ ǀ
asyá ǀ hótuḥ ǀ pra-díśi ǀ ṛtásya ǀ vācí ǀ svā́hā-kṛtam ǀ havíḥ ǀ adantu ǀ devā́ḥ ǁ

sadyaḥ ǀ jātaḥ ǀ vi ǀ amimīta ǀ yajñam ǀ agniḥ ǀ devānām ǀ abhavat ǀ puraḥ-gāḥ ǀ
asya ǀ hotuḥ ǀ pra-diśi ǀ ṛtasya ǀ vāci ǀ svāhā-kṛtam ǀ haviḥ ǀ adantu ǀ devāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.110.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.6.09.06
Maṇḍala · Anuvāka · Ṛk
10.09.122
Devatā देवता
1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
Ṛṣi ऋषि
Jamadagni Bhārgava Or Rāma Jāmadagnya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.110.11

Interpretations

Sāyaṇa

अयमग्निः सद्यस्तदानीमेव जातो जायमान एव यज्ञं व्यमिमित। विशेषेण निर्मिमीते। उत्पादयति। माङ् माने शब्दे च चौहोत्यादिकः। अत एवायमग्निर्देवानां पुरोगाः प्रथमगामी मुख्योऽभवत्। गमेर्विट् प्रत्यय आत्वे च कृते रूपम्। ततः प्रदिशि प्रकृष्टायां दिशि प्राच्यामृतस्याहवनीयात्मनागतस्यास्य होतुर्होमनिश्पादकस्याग्नेर्वाचि। अत्र वागाश्रय अस्यं लक्श्यते। वाच्यास्ये स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं हविः सर्वे देवा अदन्तु। भक्षयन्तु। इदं सूक्तं यास्केन सम्यगभ्यधायि। नि. ८.५-२१। तदत्रानुसन्धीयताम्॥११॥