Ṛgveda · Maṇḍala 10 · Sūkta 110
Ṛk 10.110.1
Saṃhitā
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
आ च॒ वह॑ मित्रमहश्चिकि॒त्वांत्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः |
आ च वह मित्रमहश् चिकित्वान् त्वं दूतः कविर् असि प्रचेताः ||
sámiddho adyá mánuṣo duroṇé devó devā́nyajasi jātavedaḥ ǀ
ā́ ca váha mitramahaścikitvā́ntvám dūtáḥ kavírasi prácetāḥ ǁ
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ ||
Padapāṭha
सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ ।
आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥
सम्ऽइद्धः । अद्य । मनुषः । दुरोणे । देवः । देवान् । यजसि । जातऽवेदः ।
आ । च । वह । मित्रऽमहः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्रऽचेताः ॥
sám-iddhaḥ ǀ adyá ǀ mánuṣaḥ ǀ duroṇé ǀ deváḥ ǀ devā́n ǀ yajasi ǀ jāta-vedaḥ ǀ
ā́ ǀ ca ǀ váha ǀ mitra-mahaḥ ǀ cikitvā́n ǀ tvám ǀ dūtáḥ ǀ kavíḥ ǀ asi ǀ prá-cetāḥ ǁ
sam-iddhaḥ ǀ adya ǀ manuṣaḥ ǀ duroṇe ǀ devaḥ ǀ devān ǀ yajasi ǀ jāta-vedaḥ ǀ
ā ǀ ca ǀ vaha ǀ mitra-mahaḥ ǀ cikitvān ǀ tvam ǀ dūtaḥ ǀ kaviḥ ǀ asi ǀ pra-cetāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.110.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.08.01
- Maṇḍala · Anuvāka · Ṛk
- 10.09.112
- Devatā देवता
- 1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
- Ṛṣi ऋषि
- Jamadagni Bhārgava Or Rāma Jāmadagnya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.