Ṛgveda · Maṇḍala 10 · Sūkta 110
Ṛk 10.110.9
Saṃhitā
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।
तम॒द्य हो॑तरिषि॒तो यजी॑यांदे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥
य इमे द्यावापृथिवी जनित्री रूपैर् अपिंशद् भुवनानि विश्वा |
तम् अद्य होतर् इषितो यजीयान् देवं त्वष्टारम् इह यक्षि विद्वान् ||
yá imé dyā́vāpṛthivī́ jánitrī rūpáirápiṃśadbhúvanāni víśvā ǀ
támadyá hotariṣitó yájīyāndevám tváṣṭāramihá yakṣi vidvā́n ǁ
ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā |
tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān ||
Padapāṭha
यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ ।
तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥
यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा ।
तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥
yáḥ ǀ imé íti ǀ dyā́vāpṛthivī́ íti ǀ jánitrī íti ǀ rūpáiḥ ǀ ápiṃśat ǀ bhúvanāni ǀ víśvā ǀ
tám ǀ adyá ǀ hotaḥ ǀ iṣitáḥ ǀ yájīyān ǀ devám ǀ tváṣṭāram ǀ ihá ǀ yakṣi ǀ vidvā́n ǁ
yaḥ ǀ ime iti ǀ dyāvāpṛthivī iti ǀ janitrī iti ǀ rūpaiḥ ǀ apiṃśat ǀ bhuvanāni ǀ viśvā ǀ
tam ǀ adya ǀ hotaḥ ǀ iṣitaḥ ǀ yajīyān ǀ devam ǀ tvaṣṭāram ǀ iha ǀ yakṣi ǀ vidvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.110.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.09.04
- Maṇḍala · Anuvāka · Ṛk
- 10.09.120
- Devatā देवता
- 1, 3, 10, 11: Agni; 2, 4, 5, 7, 9: Hymn Āprī; 6: Uṣás, Nakta; 8: Iḷā, Bhāratī, Sarasvatī
- Ṛṣi ऋषि
- Jamadagni Bhārgava Or Rāma Jāmadagnya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.