Sūkta 73
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gaurivīti Śāktya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛttriṣṭup (3, 4, 8, 10); triṣṭup (1, 2, 5); virāṭtrisṭup (6); svarāḍārcītriṣṭup (7); bhurigārcītriṣṭup (9); nicṛttriṣṭup (11)
2nd set of styles triṣṭubh
-
Ṛk 1
जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ मं॒द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निंद्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः |
अवर्धन्न् इन्द्रम् मरुतश् चिद् अत्र माता यद् वीरं दधनद् धनिष्ठा ||jániṣṭhā ugráḥ sáhase turā́ya mandrá ójiṣṭho bahulā́bhimānaḥ ǀ
ávardhanníndram marútaścidátra mātā́ yádvīrám dadhánaddhániṣṭhā ǁjaniṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ |
avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā ||जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भिमानः ।
अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः ।
अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥jániṣṭhāḥ ǀ ugráḥ ǀ sáhase ǀ turā́ya ǀ mandráḥ ǀ ójiṣṭhaḥ ǀ bahulá-abhimānaḥ ǀ
ávardhan ǀ índram ǀ marútaḥ ǀ cit ǀ átra ǀ mātā́ ǀ yát ǀ vīrám ǀ dadhánat ǀ dhániṣṭhā ǁjaniṣṭhāḥ ǀ ugraḥ ǀ sahase ǀ turāya ǀ mandraḥ ǀ ojiṣṭhaḥ ǀ bahula-abhimānaḥ ǀ
avardhan ǀ indram ǀ marutaḥ ǀ cit ǀ atra ǀ mātā ǀ yat ǀ vīram ǀ dadhanat ǀ dhaniṣṭhā ǁ10.73.1 Aṣṭaka 8.3.3.1Anuvāka 10.6.44
-
Ṛk 2
द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इंद्रं॑ ।
अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वां॒तात्प्र॑पि॒त्वादुद॑रंत॒ गर्भाः॑ ॥द्रुहो निषत्ता पृशनी चिद् एवैः पुरू शंसेन वावृधुष् ट इन्द्रम् |
अभीवृतेव ता महापदेन ध्वान्तात् प्रपित्वाद् उद् अरन्त गर्भाः ||druhó níṣattā pṛśanī́ cidévaiḥ purū́ śáṃsena vāvṛdhuṣṭá índram ǀ
abhī́vṛteva tā́ mahāpadéna dhvāntā́tprapitvā́dúdaranta gárbhāḥ ǁdruho niṣattā pṛśanī cid evaiḥ purū śaṃsena vāvṛdhuṣ ṭa indram |
abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ ||द्रु॒हः । निऽस॑त्ता । पृ॒श॒नी । चि॒त् । एवैः॑ । पु॒रु । शंसे॑न । व॒वृ॒धुः॒ । ते । इन्द्र॑म् ।
अ॒भिवृ॑ताऽइव । ता । म॒हा॒ऽप॒देन॑ । ध्वा॒न्तात् । प्र॒ऽपि॒त्वात् । उत् । अ॒र॒न्त॒ । गर्भाः॑ ॥द्रुहः । निऽसत्ता । पृशनी । चित् । एवैः । पुरु । शंसेन । ववृधुः । ते । इन्द्रम् ।
अभिवृताऽइव । ता । महाऽपदेन । ध्वान्तात् । प्रऽपित्वात् । उत् । अरन्त । गर्भाः ॥druháḥ ǀ ní-sattā ǀ pṛśanī́ ǀ cit ǀ évaiḥ ǀ purú ǀ śáṃsena ǀ vavṛdhuḥ ǀ té ǀ índram ǀ
abhívṛtā-iva ǀ tā́ ǀ mahā-padéna ǀ dhvāntā́t ǀ pra-pitvā́t ǀ út ǀ aranta ǀ gárbhāḥ ǁdruhaḥ ǀ ni-sattā ǀ pṛśanī ǀ cit ǀ evaiḥ ǀ puru ǀ śaṃsena ǀ vavṛdhuḥ ǀ te ǀ indram ǀ
abhivṛtā-iva ǀ tā ǀ mahā-padena ǀ dhvāntāt ǀ pra-pitvāt ǀ ut ǀ aranta ǀ garbhāḥ ǁ10.73.2 Aṣṭaka 8.3.3.2Anuvāka 10.6.45
-
Ṛk 3
ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।
त्वमिं॑द्र सालावृ॒कान्त्स॒हस्र॑मा॒संद॑धिषे अ॒श्विना व॑वृत्याः ॥ऋष्वा ते पादा प्र यज् जिगास्य् अवर्धन् वाजा उत ये चिद् अत्र |
त्वम् इन्द्र सालावृकान् सहस्रम् आसन् दधिषे अश्विना ववृत्याः ||ṛṣvā́ te pā́dā prá yájjígāsyávardhanvā́jā utá yé cidátra ǀ
tvámindra sālāvṛkā́ntsahásramāsándadhiṣe aśvínā́ vavṛtyāḥ ǁṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra |
tvam indra sālāvṛkān sahasram āsan dadhiṣe aśvinā vavṛtyāḥ ||ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ ।
त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र ।
त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥ṛṣvā́ ǀ te ǀ pā́dā ǀ prá ǀ yát ǀ jígāsi ǀ ávardhan ǀ vā́jāḥ ǀ utá ǀ yé ǀ cit ǀ átra ǀ
tvám ǀ indra ǀ sālāvṛkā́n ǀ sahásram ǀ āsán ǀ dadhiṣe ǀ aśvínā ǀ ā́ ǀ vavṛtyāḥ ǁṛṣvā ǀ te ǀ pādā ǀ pra ǀ yat ǀ jigāsi ǀ avardhan ǀ vājāḥ ǀ uta ǀ ye ǀ cit ǀ atra ǀ
tvam ǀ indra ǀ sālāvṛkān ǀ sahasram ǀ āsan ǀ dadhiṣe ǀ aśvinā ǀ ā ǀ vavṛtyāḥ ǁ10.73.3 Aṣṭaka 8.3.3.3Anuvāka 10.6.46
-
Ṛk 4
स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।
व॒साव्या॑मिंद्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥समना तूर्णिर् उप यासि यज्ञम् आ नासत्या सख्याय वक्षि |
वसाव्याम् इन्द्र धारयः सहस्राश्विना शूर ददतुर् मघानि ||samanā́ tū́rṇirúpa yāsi yajñámā́ nā́satyā sakhyā́ya vakṣi ǀ
vasā́vyāmindra dhārayaḥ sahásrāśvínā śūra dadaturmaghā́ni ǁsamanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi |
vasāvyām indra dhārayaḥ sahasrāśvinā śūra dadatur maghāni ||स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ ।
व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥समना । तूर्णिः । उप । यासि । यज्ञम् । आ । नासत्या । सख्याय । वक्षि ।
वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि ॥samanā́ ǀ tū́rṇiḥ ǀ úpa ǀ yāsi ǀ yajñám ǀ ā́ ǀ nā́satyā ǀ sakhyā́ya ǀ vakṣi ǀ
vasā́vyām ǀ indra ǀ dhārayaḥ ǀ sahásrā ǀ aśvínā ǀ śūra ǀ dadatuḥ ǀ maghā́ni ǁsamanā ǀ tūrṇiḥ ǀ upa ǀ yāsi ǀ yajñam ǀ ā ǀ nāsatyā ǀ sakhyāya ǀ vakṣi ǀ
vasāvyām ǀ indra ǀ dhārayaḥ ǀ sahasrā ǀ aśvinā ǀ śūra ǀ dadatuḥ ǀ maghāni ǁ10.73.4 Aṣṭaka 8.3.3.4Anuvāka 10.6.47
-
Ṛk 5
मंद॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिंद्र॑ इषि॒रेभि॒रर्थं॑ ।
आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥मन्दमान ऋताद् अधि प्रजायै सखिभिर् इन्द्र इषिरेभिर् अर्थम् |
आभिर् हि माया उप दस्युम् आगान् मिहः प्र तम्रा अवपत् तमांसि ||mándamāna ṛtā́dádhi prajā́yai sákhibhiríndra iṣirébhirártham ǀ
ā́bhirhí māyā́ úpa dásyumā́gānmíhaḥ prá tamrā́ avapattámāṃsi ǁmandamāna ṛtād adhi prajāyai sakhibhir indra iṣirebhir artham |
ābhir hi māyā upa dasyum āgān mihaḥ pra tamrā avapat tamāṃsi ||मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् ।
आ । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥मन्दमानः । ऋतात् । अधि । प्रऽजायै । सखिऽभिः । इन्द्रः । इषिरेभिः । अर्थम् ।
आ । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥mándamānaḥ ǀ ṛtā́t ǀ ádhi ǀ pra-jā́yai ǀ sákhi-bhiḥ ǀ índraḥ ǀ iṣirébhiḥ ǀ ártham ǀ
ā́ ǀ ābhiḥ ǀ hí ǀ māyā́ḥ ǀ úpa ǀ dásyum ǀ ā́ ǀ ágāt ǀ míhaḥ ǀ prá ǀ tamrā́ḥ ǀ avapat ǀ támāṃsi ǁmandamānaḥ ǀ ṛtāt ǀ adhi ǀ pra-jāyai ǀ sakhi-bhiḥ ǀ indraḥ ǀ iṣirebhiḥ ǀ artham ǀ
ā ǀ ābhiḥ ǀ hi ǀ māyāḥ ǀ upa ǀ dasyum ǀ ā ǀ agāt ǀ mihaḥ ǀ pra ǀ tamrāḥ ǀ avapat ǀ tamāṃsi ǁ10.73.5 Aṣṭaka 8.3.3.5Anuvāka 10.6.48
-
Ṛk 6
सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निंद्र॑ उ॒षसो॒ यथानः॑ ।
ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघंथ ॥सनामाना चिद् ध्वसयो न्य् अस्मा अवाहन्न् इन्द्र उषसो यथानः |
ऋष्वैर् अगच्छः सखिभिर् निकामैः साकम् प्रतिष्ठा हृद्या जघन्थ ||sánāmānā ciddhvasayo nyásmā ávāhanníndra uṣáso yáthā́naḥ ǀ
ṛṣváiragacchaḥ sákhibhirníkāmaiḥ sākám pratiṣṭhā́ hṛ́dyā jaghantha ǁsanāmānā cid dhvasayo ny asmā avāhann indra uṣaso yathānaḥ |
ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha ||सऽना॑माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव॑ । अ॒ह॒न् । इन्द्रः॑ । उ॒षसः॑ । यथा॑ । अनः॑ ।
ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि॑ऽभिः । निऽका॑मैः । सा॒कम् । प्र॒ति॒ऽस्था । हृद्या॑ । ज॒घ॒न्थ॒ ॥सऽनामाना । चित् । ध्वसयः । नि । अस्मै । अव । अहन् । इन्द्रः । उषसः । यथा । अनः ।
ऋष्वैः । अगच्छः । सखिऽभिः । निऽकामैः । साकम् । प्रतिऽस्था । हृद्या । जघन्थ ॥sá-nāmānā ǀ cit ǀ dhvasayaḥ ǀ ní ǀ asmai ǀ áva ǀ ahan ǀ índraḥ ǀ uṣásaḥ ǀ yáthā ǀ ánaḥ ǀ
ṛṣváiḥ ǀ agacchaḥ ǀ sákhi-bhiḥ ǀ ní-kāmaiḥ ǀ sākám ǀ prati-sthā́ ǀ hṛ́dyā ǀ jaghantha ǁsa-nāmānā ǀ cit ǀ dhvasayaḥ ǀ ni ǀ asmai ǀ ava ǀ ahan ǀ indraḥ ǀ uṣasaḥ ǀ yathā ǀ anaḥ ǀ
ṛṣvaiḥ ǀ agacchaḥ ǀ sakhi-bhiḥ ǀ ni-kāmaiḥ ǀ sākam ǀ prati-sthā ǀ hṛdyā ǀ jaghantha ǁ10.73.6 Aṣṭaka 8.3.4.1Anuvāka 10.6.49
-
Ṛk 7
त्वं ज॑घंथ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यं ।
त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्रांज॑सेव॒ याना॑न् ॥त्वं जघन्थ नमुचिम् मखस्युं दासं कृण्वान ऋषये विमायम् |
त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान् ||tvám jaghantha námucim makhasyúm dā́sam kṛṇvāná ṛ́ṣaye vímāyam ǀ
tvám cakartha mánave syonā́npathó devatrā́ñjaseva yā́nān ǁtvaṃ jaghantha namucim makhasyuṃ dāsaṃ kṛṇvāna ṛṣaye vimāyam |
tvaṃ cakartha manave syonān patho devatrāñjaseva yānān ||त्वम् । ज॒घ॒न्थ॒ । नमु॑चिम् । म॒ख॒स्युम् । दास॑म् । कृ॒ण्वा॒नः । ऋष॑ये । विऽमा॑यम् ।
त्वम् । च॒क॒र्थ॒ । मन॑वे । स्यो॒नान् । प॒थः । दे॒व॒ऽत्रा । अञ्ज॑साऽइव । याना॑न् ॥त्वम् । जघन्थ । नमुचिम् । मखस्युम् । दासम् । कृण्वानः । ऋषये । विऽमायम् ।
त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देवऽत्रा । अञ्जसाऽइव । यानान् ॥tvám ǀ jaghantha ǀ námucim ǀ makhasyúm ǀ dā́sam ǀ kṛṇvānáḥ ǀ ṛ́ṣaye ǀ ví-māyam ǀ
tvám ǀ cakartha ǀ mánave ǀ syonā́n ǀ patháḥ ǀ deva-trā́ ǀ áñjasā-iva ǀ yā́nān ǁtvam ǀ jaghantha ǀ namucim ǀ makhasyum ǀ dāsam ǀ kṛṇvānaḥ ǀ ṛṣaye ǀ vi-māyam ǀ
tvam ǀ cakartha ǀ manave ǀ syonān ǀ pathaḥ ǀ deva-trā ǀ añjasā-iva ǀ yānān ǁ10.73.7 Aṣṭaka 8.3.4.2Anuvāka 10.6.50
-
Ṛk 8
त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इंद्र दधिषे॒ गभ॑स्तौ ।
अनु॑ त्वा दे॒वाः शव॑सा मदंत्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥त्वम् एतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ |
अनु त्वा देवाः शवसा मदन्त्य् उपरिबुध्नान् वनिनश् चकर्थ ||tvámetā́ni papriṣe ví nā́méśāna indra dadhiṣe gábhastau ǀ
ánu tvā devā́ḥ śávasā madantyupáribudhnānvanínaścakartha ǁtvam etāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau |
anu tvā devāḥ śavasā madanty uparibudhnān vaninaś cakartha ||त्वम् । ए॒तानि॑ । प॒प्रि॒षे॒ । वि । नाम॑ । ईशा॑नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ॑स्तौ ।
अनु॑ । त्वा॒ । दे॒वाः । शव॑सा । म॒द॒न्ति॒ । उ॒परि॑ऽबुध्नान् । व॒निनः॑ । च॒क॒र्थ॒ ॥त्वम् । एतानि । पप्रिषे । वि । नाम । ईशानः । इन्द्र । दधिषे । गभस्तौ ।
अनु । त्वा । देवाः । शवसा । मदन्ति । उपरिऽबुध्नान् । वनिनः । चकर्थ ॥tvám ǀ etā́ni ǀ papriṣe ǀ ví ǀ nā́ma ǀ ī́śānaḥ ǀ indra ǀ dadhiṣe ǀ gábhastau ǀ
ánu ǀ tvā ǀ devā́ḥ ǀ śávasā ǀ madanti ǀ upári-budhnān ǀ vanínaḥ ǀ cakartha ǁtvam ǀ etāni ǀ papriṣe ǀ vi ǀ nāma ǀ īśānaḥ ǀ indra ǀ dadhiṣe ǀ gabhastau ǀ
anu ǀ tvā ǀ devāḥ ǀ śavasā ǀ madanti ǀ upari-budhnān ǀ vaninaḥ ǀ cakartha ǁ10.73.8 Aṣṭaka 8.3.4.3Anuvāka 10.6.51
-
Ṛk 9
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।
पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥चक्रं यद् अस्याप्स्व् आ निषत्तम् उतो तद् अस्मै मध्व् इच् चच्छद्यात् |
पृथिव्याम् अतिषितं यद् ऊधः पयो गोष्व् अदधा ओषधीषु ||cakrám yádasyāpsvā́ níṣattamutó tádasmai mádhvíccacchadyāt ǀ
pṛthivyā́mátiṣitam yádū́dhaḥ páyo góṣvádadhā óṣadhīṣu ǁcakraṃ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt |
pṛthivyām atiṣitaṃ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu ||च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् ।
पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥चक्रम् । यत् । अस्य । अप्ऽसु । आ । निऽसत्तम् । उतो इति । तत् । अस्मै । मधु । इत् । चच्छद्यात् ।
पृथिव्याम् । अतिऽसितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु ॥cakrám ǀ yát ǀ asya ǀ ap-sú ǀ ā́ ǀ ní-sattam ǀ utó íti ǀ tát ǀ asmai ǀ mádhu ǀ ít ǀ cacchadyāt ǀ
pṛthivyā́m ǀ áti-sitam ǀ yát ǀ ū́dhaḥ ǀ páyaḥ ǀ góṣu ǀ ádadhāḥ ǀ óṣadhīṣu ǁcakram ǀ yat ǀ asya ǀ ap-su ǀ ā ǀ ni-sattam ǀ uto iti ǀ tat ǀ asmai ǀ madhu ǀ it ǀ cacchadyāt ǀ
pṛthivyām ǀ ati-sitam ǀ yat ǀ ūdhaḥ ǀ payaḥ ǀ goṣu ǀ adadhāḥ ǀ oṣadhīṣu ǁ10.73.9 Aṣṭaka 8.3.4.4Anuvāka 10.6.52
-
Ṛk 10
अश्वा॑दिया॒येति॒ यद्वदं॒त्योज॑सो जा॒तमु॒त म॑न्य एनं ।
म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इंद्रो॑ अस्य वेद ॥अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम् |
मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ||áśvādiyāyéti yádvádantyójaso jātámutá manya enam ǀ
manyóriyāya harmyéṣu tasthau yátaḥ prajajñá índro asya veda ǁaśvād iyāyeti yad vadanty ojaso jātam uta manya enam |
manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ||अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् ।
म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥अश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् ।
मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥áśvāt ǀ iyāya ǀ íti ǀ yát ǀ vádanti ǀ ójasaḥ ǀ jātám ǀ utá ǀ manye ǀ enam ǀ
manyóḥ ǀ iyāya ǀ harmyéṣu ǀ tasthau ǀ yátaḥ ǀ pra-jajñé ǀ índraḥ ǀ asya ǀ veda ǁaśvāt ǀ iyāya ǀ iti ǀ yat ǀ vadanti ǀ ojasaḥ ǀ jātam ǀ uta ǀ manye ǀ enam ǀ
manyoḥ ǀ iyāya ǀ harmyeṣu ǀ tasthau ǀ yataḥ ǀ pra-jajñe ǀ indraḥ ǀ asya ǀ veda ǁ10.73.10 Aṣṭaka 8.3.4.5Anuvāka 10.6.53
-
Ṛk 11
वयः॑ सुप॒र्णा उप॑ सेदु॒रिंद्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वां॒तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः |
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ||váyaḥ suparṇā́ úpa seduríndram priyámedhā ṛ́ṣayo nā́dhamānāḥ ǀ
ápa dhvāntámūrṇuhí pūrdhí cákṣurmumugdhyásmā́nnidháyeva baddhā́n ǁvayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ |
apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān ||वयः॑ । सु॒ऽप॒र्णाः । उप॑ । से॒दुः॒ । इन्द्र॑म् । प्रि॒यऽमे॑धाः । ऋष॑यः । नाध॑मानाः ।
अप॑ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः॑ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया॑ऽइव । ब॒द्धान् ॥वयः । सुऽपर्णाः । उप । सेदुः । इन्द्रम् । प्रियऽमेधाः । ऋषयः । नाधमानाः ।
अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाऽइव । बद्धान् ॥váyaḥ ǀ su-parṇā́ḥ ǀ úpa ǀ seduḥ ǀ índram ǀ priyá-medhāḥ ǀ ṛ́ṣayaḥ ǀ nā́dhamānāḥ ǀ
ápa ǀ dhvāntám ǀ ūrṇuhí ǀ pūrdhí ǀ cákṣuḥ ǀ mumugdhí ǀ asmā́n ǀ nidháyā-iva ǀ baddhā́n ǁvayaḥ ǀ su-parṇāḥ ǀ upa ǀ seduḥ ǀ indram ǀ priya-medhāḥ ǀ ṛṣayaḥ ǀ nādhamānāḥ ǀ
apa ǀ dhvāntam ǀ ūrṇuhi ǀ pūrdhi ǀ cakṣuḥ ǀ mumugdhi ǀ asmān ǀ nidhayā-iva ǀ baddhān ǁ10.73.11 Aṣṭaka 8.3.4.6Anuvāka 10.6.54
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.