Ṛgveda · Maṇḍala 10 · Sūkta 73

Ṛk 10.73.11

Indra · Gaurivīti Śāktya

The whole sūkta Link

Saṃhitā

वयः॑ सुप॒र्णा उप॑ सेदु॒रिंद्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वां॒तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥

वयः सुपर्णा उप सेदुर् इन्द्रम् प्रियमेधा ऋषयो नाधमानाः |
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुर् मुमुग्ध्य् अस्मान् निधयेव बद्धान् ||

váyaḥ suparṇā́ úpa seduríndram priyámedhā ṛ́ṣayo nā́dhamānāḥ ǀ
ápa dhvāntámūrṇuhí pūrdhí cákṣurmumugdhyásmā́nnidháyeva baddhā́n ǁ

vayaḥ suparṇā upa sedur indram priyamedhā ṛṣayo nādhamānāḥ |
apa dhvāntam ūrṇuhi pūrdhi cakṣur mumugdhy asmān nidhayeva baddhān ||

Padapāṭha

वयः॑ । सु॒ऽप॒र्णाः । उप॑ । से॒दुः॒ । इन्द्र॑म् । प्रि॒यऽमे॑धाः । ऋष॑यः । नाध॑मानाः ।
अप॑ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः॑ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया॑ऽइव । ब॒द्धान् ॥

वयः । सुऽपर्णाः । उप । सेदुः । इन्द्रम् । प्रियऽमेधाः । ऋषयः । नाधमानाः ।
अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाऽइव । बद्धान् ॥

váyaḥ ǀ su-parṇā́ḥ ǀ úpa ǀ seduḥ ǀ índram ǀ priyá-medhāḥ ǀ ṛ́ṣayaḥ ǀ nā́dhamānāḥ ǀ
ápa ǀ dhvāntám ǀ ūrṇuhí ǀ pūrdhí ǀ cákṣuḥ ǀ mumugdhí ǀ asmā́n ǀ nidháyā-iva ǀ baddhā́n ǁ

vayaḥ ǀ su-parṇāḥ ǀ upa ǀ seduḥ ǀ indram ǀ priya-medhāḥ ǀ ṛṣayaḥ ǀ nādhamānāḥ ǀ
apa ǀ dhvāntam ǀ ūrṇuhi ǀ pūrdhi ǀ cakṣuḥ ǀ mumugdhi ǀ asmān ǀ nidhayā-iva ǀ baddhān ǁ

References

Maṇḍala · Sūkta · Ṛk
10.073.11
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.04.06
Maṇḍala · Anuvāka · Ṛk
10.06.054
Devatā देवता
Indra
Ṛṣi ऋषि
Gaurivīti Śāktya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.73.11

Interpretations

Sāyaṇa

वयो गन्तारः सुपर्णाः सुपतना आदित्यरश्मय इन्द्रमुपसेदुः। उपसन्ना अभवन्। कीदृशाः। प्रियमेधाः प्रिययज्ञा ऋषयो द्रष्टारो नाधमानाः प्रज्ञां याचमानाः। याचनप्रकार उच्यते। हे इन्द्र ध्वान्तमन्धकारमपोर्णुहि। परिहत। पूर्धि पूरय च चक्षुस्तेजः। मुमुग्धि मोचय चास्मान् निधयेव बद्धान्। निधा पाश्या भवति। पाश्या पाशसमूहः। पाशसमूहेन बद्धान्यथा मुञ्चन्ति तद्वत्। अत्र वयो वेर्बहुवचनमित्यादि निरुक्तं द्रष्टव्यम्। नि. ४-३॥११॥