Sūkta 7
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 5, 6); triṣṭup (2, 4); virāṭtrisṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः॑ ॥स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव |
सचेमहि तव दस्म प्रकेतैर् उरुष्या ण उरुभिर् देव शंसैः ||svastí no divó agne pṛthivyā́ viśvā́yurdhehi yajáthāya deva ǀ
sácemahi táva dasma praketáiruruṣyā́ ṇa urúbhirdeva śáṃsaiḥ ǁsvasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva |
sacemahi tava dasma praketair uruṣyā ṇa urubhir deva śaṃsaiḥ ||स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वऽआ॑युः । धे॒हि॒ । य॒जथा॑य । दे॒व॒ ।
सचे॑महि । तव॑ । द॒स्म॒ । प्र॒ऽके॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रुऽभिः॑ । दे॒व॒ । शंसैः॑ ॥स्वस्ति । नः । दिवः । अग्ने । पृथिव्याः । विश्वऽआयुः । धेहि । यजथाय । देव ।
सचेमहि । तव । दस्म । प्रऽकेतैः । उरुष्य । नः । उरुऽभिः । देव । शंसैः ॥svastí ǀ naḥ ǀ diváḥ ǀ agne ǀ pṛthivyā́ḥ ǀ viśvá-āyuḥ ǀ dhehi ǀ yajáthāya ǀ deva ǀ
sácemahi ǀ táva ǀ dasma ǀ pra-ketáiḥ ǀ uruṣyá ǀ naḥ ǀ urú-bhiḥ ǀ deva ǀ śáṃsaiḥ ǁsvasti ǀ naḥ ǀ divaḥ ǀ agne ǀ pṛthivyāḥ ǀ viśva-āyuḥ ǀ dhehi ǀ yajathāya ǀ deva ǀ
sacemahi ǀ tava ǀ dasma ǀ pra-ketaiḥ ǀ uruṣya ǀ naḥ ǀ uru-bhiḥ ǀ deva ǀ śaṃsaiḥ ǁ10.7.1 Aṣṭaka 7.6.2.1Anuvāka 10.1.43
-
Ṛk 2
इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णंति॒ राधः॑ ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभिः॑ सुजात ॥इमा अग्ने मतयस् तुभ्यं जाता गोभिर् अश्वैर् अभि गृणन्ति राधः |
यदा ते मर्तो अनु भोगम् आनड् वसो दधानो मतिभिः सुजात ||imā́ agne matáyastúbhyam jātā́ góbhiráśvairabhí gṛṇanti rā́dhaḥ ǀ
yadā́ te márto ánu bhógamā́naḍváso dádhāno matíbhiḥ sujāta ǁimā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ |
yadā te marto anu bhogam ānaḍ vaso dadhāno matibhiḥ sujāta ||इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः ।
यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिऽभिः । सुऽजात ॥imā́ḥ ǀ agne ǀ matáyaḥ ǀ túbhyam ǀ jātā́ḥ ǀ góbhiḥ ǀ áśvaiḥ ǀ abhí ǀ gṛṇanti ǀ rā́dhaḥ ǀ
yadā́ ǀ te ǀ mártaḥ ǀ ánu ǀ bhógam ǀ ā́naṭ ǀ váso íti ǀ dádhānaḥ ǀ matí-bhiḥ ǀ su-jāta ǁimāḥ ǀ agne ǀ matayaḥ ǀ tubhyam ǀ jātāḥ ǀ gobhiḥ ǀ aśvaiḥ ǀ abhi ǀ gṛṇanti ǀ rādhaḥ ǀ
yadā ǀ te ǀ martaḥ ǀ anu ǀ bhogam ǀ ānaṭ ǀ vaso iti ǀ dadhānaḥ ǀ mati-bhiḥ ǀ su-jāta ǁ10.7.2 Aṣṭaka 7.6.2.2Anuvāka 10.1.44
-
Ṛk 3
अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यं ।
अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥अग्निम् मन्ये पितरम् अग्निम् आपिम् अग्निम् भ्रातरं सदम् इत् सखायम् |
अग्नेर् अनीकम् बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ||agním manye pitáramagnímāpímagním bhrā́taram sádamítsákhāyam ǀ
agnéránīkam bṛhatáḥ saparyam diví śukrám yajatám sū́ryasya ǁagnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam |
agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya ||अ॒ग्निम् । म॒न्ये॒ । पि॒तर॑म् । अ॒ग्निम् । आ॒पिम् । अ॒ग्निम् । भ्रात॑रम् । सद॑म् । इत् । सखा॑यम् ।
अ॒ग्नेः । अनी॑कम् । बृ॒ह॒तः । स॒प॒र्य॒म् । दि॒वि । शु॒क्रम् । य॒ज॒तम् । सूर्य॑स्य ॥अग्निम् । मन्ये । पितरम् । अग्निम् । आपिम् । अग्निम् । भ्रातरम् । सदम् । इत् । सखायम् ।
अग्नेः । अनीकम् । बृहतः । सपर्यम् । दिवि । शुक्रम् । यजतम् । सूर्यस्य ॥agním ǀ manye ǀ pitáram ǀ agním ǀ āpím ǀ agním ǀ bhrā́taram ǀ sádam ǀ ít ǀ sákhāyam ǀ
agnéḥ ǀ ánīkam ǀ bṛhatáḥ ǀ saparyam ǀ diví ǀ śukrám ǀ yajatám ǀ sū́ryasya ǁagnim ǀ manye ǀ pitaram ǀ agnim ǀ āpim ǀ agnim ǀ bhrātaram ǀ sadam ǀ it ǀ sakhāyam ǀ
agneḥ ǀ anīkam ǀ bṛhataḥ ǀ saparyam ǀ divi ǀ śukram ǀ yajatam ǀ sūryasya ǁ10.7.3 Aṣṭaka 7.6.2.3Anuvāka 10.1.45
-
Ṛk 4
सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता |
ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ||sidhrā́ agne dhíyo asmé sánutrīryám trā́yase dáma ā́ nítyahotā ǀ
ṛtā́vā sá rohídaśvaḥ purukṣúrdyúbhirasmā áhabhirvāmámastu ǁsidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā |
ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu ||सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता ।
ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥सिध्राः । अग्ने । धियः । अस्मे इति । सनुत्रीः । यम् । त्रायसे । दमे । आ । नित्यऽहोता ।
ऋतऽवा । सः । रोहित्ऽअश्वः । पुरुऽक्षुः । द्युऽभिः । अस्मै । अहऽभिः । वामम् । अस्तु ॥sidhrā́ḥ ǀ agne ǀ dhíyaḥ ǀ asmé íti ǀ sánutrīḥ ǀ yám ǀ trā́yase ǀ dáme ǀ ā́ ǀ nítya-hotā ǀ
ṛtá-vā ǀ sáḥ ǀ rohít-aśvaḥ ǀ puru-kṣúḥ ǀ dyú-bhiḥ ǀ asmai ǀ áha-bhiḥ ǀ vāmám ǀ astu ǁsidhrāḥ ǀ agne ǀ dhiyaḥ ǀ asme iti ǀ sanutrīḥ ǀ yam ǀ trāyase ǀ dame ǀ ā ǀ nitya-hotā ǀ
ṛta-vā ǀ saḥ ǀ rohit-aśvaḥ ǀ puru-kṣuḥ ǀ dyu-bhiḥ ǀ asmai ǀ aha-bhiḥ ǀ vāmam ǀ astu ǁ10.7.4 Aṣṭaka 7.6.2.4Anuvāka 10.1.46
-
Ṛk 5
द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रं ।
बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनंत वि॒क्षु होता॑रं॒ न्य॑सादयंत ॥द्युभिर् हितम् मित्रम् इव प्रयोगम् प्रत्नम् ऋत्विजम् अध्वरस्य जारम् |
बाहुभ्याम् अग्निम् आयवो ऽजनन्त विक्षु होतारं न्य् असादयन्त ||dyúbhirhitám mitrámiva prayógam pratnámṛtvíjamadhvarásya jārám ǀ
bāhúbhyāmagnímāyávo’jananta vikṣú hótāram nyásādayanta ǁdyubhir hitam mitram iva prayogam pratnam ṛtvijam adhvarasya jāram |
bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta ||द्युऽभिः॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोग॑म् । प्र॒त्नम् । ऋ॒त्विज॑म् । अ॒ध्व॒रस्य॑ । जा॒रम् ।
बा॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒यवः॑ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥द्युऽभिः । हितम् । मित्रम्ऽइव । प्रऽयोगम् । प्रत्नम् । ऋत्विजम् । अध्वरस्य । जारम् ।
बाहुऽभ्याम् । अग्निम् । आयवः । अजनन्त । विक्षु । होतारम् । नि । असादयन्त ॥dyú-bhiḥ ǀ hitám ǀ mitrám-iva ǀ pra-yógam ǀ pratnám ǀ ṛtvíjam ǀ adhvarásya ǀ jārám ǀ
bāhú-bhyām ǀ agním ǀ āyávaḥ ǀ ajananta ǀ vikṣú ǀ hótāram ǀ ní ǀ asādayanta ǁdyu-bhiḥ ǀ hitam ǀ mitram-iva ǀ pra-yogam ǀ pratnam ǀ ṛtvijam ǀ adhvarasya ǀ jāram ǀ
bāhu-bhyām ǀ agnim ǀ āyavaḥ ǀ ajananta ǀ vikṣu ǀ hotāram ǀ ni ǀ asādayanta ǁ10.7.5 Aṣṭaka 7.6.2.5Anuvāka 10.1.47
-
Ṛk 6
स्व॒यं य॑जस्व दि॒वि दे॑व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः ।
यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं॑ सुजात ॥स्वयं यजस्व दिवि देव देवान् किं ते पाकः कृणवद् अप्रचेताः |
यथायज ऋतुभिर् देव देवान् एवा यजस्व तन्वं सुजात ||svayám yajasva diví deva devā́nkím te pā́kaḥ kṛṇavadápracetāḥ ǀ
yáthā́yaja ṛtúbhirdeva devā́nevā́ yajasva tanvám sujāta ǁsvayaṃ yajasva divi deva devān kiṃ te pākaḥ kṛṇavad apracetāḥ |
yathāyaja ṛtubhir deva devān evā yajasva tanvaṃ sujāta ||स्व॒यम् । य॒ज॒स्व॒ । दि॒वि । दे॒व॒ । दे॒वान् । किम् । ते॒ । पाकः॑ । कृ॒ण॒व॒त् । अप्र॑ऽचेताः ।
यथा॑ । अय॑जः । ऋ॒तुऽभिः॑ । दे॒व॒ । दे॒वान् । ए॒व । य॒ज॒स्व॒ । त॒न्व॑म् । सु॒ऽजा॒त॒ ॥स्वयम् । यजस्व । दिवि । देव । देवान् । किम् । ते । पाकः । कृणवत् । अप्रऽचेताः ।
यथा । अयजः । ऋतुऽभिः । देव । देवान् । एव । यजस्व । तन्वम् । सुऽजात ॥svayám ǀ yajasva ǀ diví ǀ deva ǀ devā́n ǀ kím ǀ te ǀ pā́kaḥ ǀ kṛṇavat ǀ ápra-cetāḥ ǀ
yáthā ǀ áyajaḥ ǀ ṛtú-bhiḥ ǀ deva ǀ devā́n ǀ evá ǀ yajasva ǀ tanvám ǀ su-jāta ǁsvayam ǀ yajasva ǀ divi ǀ deva ǀ devān ǀ kim ǀ te ǀ pākaḥ ǀ kṛṇavat ǀ apra-cetāḥ ǀ
yathā ǀ ayajaḥ ǀ ṛtu-bhiḥ ǀ deva ǀ devān ǀ eva ǀ yajasva ǀ tanvam ǀ su-jāta ǁ10.7.6 Aṣṭaka 7.6.2.6Anuvāka 10.1.48
-
Ṛk 7
भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः |
रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ||bhávā no agne’vitótá gopā́ bhávā vayaskṛ́dutá no vayodhā́ḥ ǀ
rā́svā ca naḥ sumaho havyádātim trā́svotá nastanvó áprayucchan ǁbhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ |
rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan ||भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः ।
रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः॒ । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥भव । नः । अग्ने । अविता । उत । गोपाः । भव । वयःऽकृत् । उत । नः । वयःऽधाः ।
रास्व । च । नः । सुऽमहः । हव्यऽदातिम् । त्रास्व । उत । नः । तन्वः । अप्रऽयुच्छन् ॥bháva ǀ naḥ ǀ agne ǀ avitā́ ǀ utá ǀ gopā́ḥ ǀ bháva ǀ vayaḥ-kṛ́t ǀ utá ǀ naḥ ǀ vayaḥ-dhā́ḥ ǀ
rā́sva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havyá-dātim ǀ trā́sva ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁbhava ǀ naḥ ǀ agne ǀ avitā ǀ uta ǀ gopāḥ ǀ bhava ǀ vayaḥ-kṛt ǀ uta ǀ naḥ ǀ vayaḥ-dhāḥ ǀ
rāsva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havya-dātim ǀ trāsva ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ10.7.7 Aṣṭaka 7.6.2.7Anuvāka 10.1.49
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.