Ṛgveda · Maṇḍala 10 · Sūkta 7
Ṛk 10.7.4
Saṃhitā
सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥
सिध्रा अग्ने धियो अस्मे सनुत्रीर् यं त्रायसे दम आ नित्यहोता |
ऋतावा स रोहिदश्वः पुरुक्षुर् द्युभिर् अस्मा अहभिर् वामम् अस्तु ||
sidhrā́ agne dhíyo asmé sánutrīryám trā́yase dáma ā́ nítyahotā ǀ
ṛtā́vā sá rohídaśvaḥ purukṣúrdyúbhirasmā áhabhirvāmámastu ǁ
sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā |
ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu ||
Padapāṭha
सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता ।
ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥
सिध्राः । अग्ने । धियः । अस्मे इति । सनुत्रीः । यम् । त्रायसे । दमे । आ । नित्यऽहोता ।
ऋतऽवा । सः । रोहित्ऽअश्वः । पुरुऽक्षुः । द्युऽभिः । अस्मै । अहऽभिः । वामम् । अस्तु ॥
sidhrā́ḥ ǀ agne ǀ dhíyaḥ ǀ asmé íti ǀ sánutrīḥ ǀ yám ǀ trā́yase ǀ dáme ǀ ā́ ǀ nítya-hotā ǀ
ṛtá-vā ǀ sáḥ ǀ rohít-aśvaḥ ǀ puru-kṣúḥ ǀ dyú-bhiḥ ǀ asmai ǀ áha-bhiḥ ǀ vāmám ǀ astu ǁ
sidhrāḥ ǀ agne ǀ dhiyaḥ ǀ asme iti ǀ sanutrīḥ ǀ yam ǀ trāyase ǀ dame ǀ ā ǀ nitya-hotā ǀ
ṛta-vā ǀ saḥ ǀ rohit-aśvaḥ ǀ puru-kṣuḥ ǀ dyu-bhiḥ ǀ asmai ǀ aha-bhiḥ ǀ vāmam ǀ astu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.007.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.02.04
- Maṇḍala · Anuvāka · Ṛk
- 10.01.046
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Trita Āptya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.