Ṛgveda · Maṇḍala 10 · Sūkta 7

Ṛk 10.7.7

Agni · Trita Āptya

The whole sūkta Link

Saṃhitā

भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥

भवा नो अग्ने ऽवितोत गोपा भवा वयस्कृद् उत नो वयोधाः |
रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस् तन्वो अप्रयुच्छन् ||

bhávā no agne’vitótá gopā́ bhávā vayaskṛ́dutá no vayodhā́ḥ ǀ
rā́svā ca naḥ sumaho havyádātim trā́svotá nastanvó áprayucchan ǁ

bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ |
rāsvā ca naḥ sumaho havyadātiṃ trāsvota nas tanvo aprayucchan ||

Padapāṭha

भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः ।
रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः॒ । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥

भव । नः । अग्ने । अविता । उत । गोपाः । भव । वयःऽकृत् । उत । नः । वयःऽधाः ।
रास्व । च । नः । सुऽमहः । हव्यऽदातिम् । त्रास्व । उत । नः । तन्वः । अप्रऽयुच्छन् ॥

bháva ǀ naḥ ǀ agne ǀ avitā́ ǀ utá ǀ gopā́ḥ ǀ bháva ǀ vayaḥ-kṛ́t ǀ utá ǀ naḥ ǀ vayaḥ-dhā́ḥ ǀ
rā́sva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havyá-dātim ǀ trā́sva ǀ utá ǀ naḥ ǀ tanváḥ ǀ ápra-yucchan ǁ

bhava ǀ naḥ ǀ agne ǀ avitā ǀ uta ǀ gopāḥ ǀ bhava ǀ vayaḥ-kṛt ǀ uta ǀ naḥ ǀ vayaḥ-dhāḥ ǀ
rāsva ǀ ca ǀ naḥ ǀ su-mahaḥ ǀ havya-dātim ǀ trāsva ǀ uta ǀ naḥ ǀ tanvaḥ ǀ apra-yucchan ǁ

References

Maṇḍala · Sūkta · Ṛk
10.007.07
Aṣṭaka · Adhyāya · Varga · Ṛk
7.6.02.07
Maṇḍala · Anuvāka · Ṛk
10.01.049
Devatā देवता
Agni
Ṛṣi ऋषि
Trita Āptya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.7.7

Interpretations

Sāyaṇa

प्रकेतुनेतिनवर्चं अष्टमं सूक्तं त्रैष्टुभं त्वष्टृपुत्रस्त्रिशिरानामऋषिः आदितः षडाग्नेय्यः तत- स्तिस्रः ऎन्द्भ्यः । तथाचानुक्रान्तं—प्रकेतुनानवत्रिशिरास्त्वाष्ट्रस्तृचोन्त्यवोद्रइति । आदितः ष्णां प्रातरनुवाकाश्विनशस्त्रयोराग्नेयक्रतावुक्तोविनियोगः ।