Sūkta 94
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Arbuda Kādraveya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles virāḍjagatī (1, 3, 4, 10, 11, 13); jagatī (2, 6, 12); nicṛttriṣṭup (5, 7); svarāḍārcījagatī (8, 9); triṣṭup (14)
2nd set of styles jagatī (1-4, 6, 8-13); triṣṭubh (5, 7, 14)
-
Ṛk 1
प्रैते व॑दंतु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेंद्रा॑य सो॒मिनः॑ ॥प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः |
यद् अद्रयः पर्वताः साकम् आशवः श्लोकं घोषम् भरथेन्द्राय सोमिनः ||práité vadantu prá vayám vadāma grā́vabhyo vā́cam vadatā vádadbhyaḥ ǀ
yádadrayaḥ parvatāḥ sākámāśávaḥ ślókam ghóṣam bhárathéndrāya somínaḥ ǁpraite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ |
yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ ||प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः ।
यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॑ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥प्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत । वदत्ऽभ्यः ।
यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥prá ǀ eté ǀ vadantu ǀ prá ǀ vayám ǀ vadāma ǀ grā́va-bhyaḥ ǀ vā́cam ǀ vadata ǀ vádat-bhyaḥ ǀ
yát ǀ adrayaḥ ǀ parvatāḥ ǀ sākám ǀ āśávaḥ ǀ ślókam ǀ ghóṣam ǀ bháratha ǀ índrāya ǀ somínaḥ ǁpra ǀ ete ǀ vadantu ǀ pra ǀ vayam ǀ vadāma ǀ grāva-bhyaḥ ǀ vācam ǀ vadata ǀ vadat-bhyaḥ ǀ
yat ǀ adrayaḥ ǀ parvatāḥ ǀ sākam ǀ āśavaḥ ǀ ślokam ǀ ghoṣam ǀ bharatha ǀ indrāya ǀ sominaḥ ǁ10.94.1 Aṣṭaka 8.4.29.1Anuvāka 10.8.46
-
Ṛk 2
ए॒ते व॑दंति श॒तव॑त्स॒हस्र॑वद॒भि क्रं॑दंति॒ हरि॑तेभिरा॒सभिः॑ ।
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥एते वदन्ति शतवत् सहस्रवद् अभि क्रन्दन्ति हरितेभिर् आसभिः |
विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश् चित् पूर्वे हविरद्यम् आशत ||eté vadanti śatávatsahásravadabhí krandanti háritebhirāsábhiḥ ǀ
viṣṭvī́ grā́vāṇaḥ sukṛ́taḥ sukṛtyáyā hótuścitpū́rve havirádyamāśata ǁete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ |
viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata ||ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ ।
वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥एते । वदन्ति । शतऽवत् । सहस्रऽवत् । अभि । क्रन्दन्ति । हरितेभिः । आसऽभिः ।
विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम् । आशत ॥eté ǀ vadanti ǀ śatá-vat ǀ sahásra-vat ǀ abhí ǀ krandanti ǀ háritebhiḥ ǀ āsá-bhiḥ ǀ
viṣṭvī́ ǀ grā́vāṇaḥ ǀ su-kṛ́taḥ ǀ su-kṛtyáyā ǀ hótuḥ ǀ cit ǀ pū́rve ǀ haviḥ-ádyam ǀ āśata ǁete ǀ vadanti ǀ śata-vat ǀ sahasra-vat ǀ abhi ǀ krandanti ǀ haritebhiḥ ǀ āsa-bhiḥ ǀ
viṣṭvī ǀ grāvāṇaḥ ǀ su-kṛtaḥ ǀ su-kṛtyayā ǀ hotuḥ ǀ cit ǀ pūrve ǀ haviḥ-adyam ǀ āśata ǁ10.94.2 Aṣṭaka 8.4.29.2Anuvāka 10.8.47
-
Ṛk 3
ए॒ते व॑दं॒त्यवि॑दन्न॒ना मधु॒ न्यूं॑खयंते॒ अधि॑ प॒क्व आमि॑षि ।
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥एते वदन्त्य् अविदन्न् अना मधु न्य् ऊङ्खयन्ते अधि पक्व आमिषि |
वृक्षस्य शाखाम् अरुणस्य बप्सतस् ते सूभर्वा वृषभाः प्रेम् अराविषुः ||eté vadantyávidannanā́ mádhu nyū́ṅkhayante ádhi pakvá ā́miṣi ǀ
vṛkṣásya śā́khāmaruṇásya bápsatasté sū́bharvā vṛṣabhā́ḥ prémarāviṣuḥ ǁete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi |
vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ ||ए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि ।
वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥एते । वदन्ति । अविदन् । अना । मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि ।
वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते । सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥eté ǀ vadanti ǀ ávidan ǀ anā́ ǀ mádhu ǀ ní ǀ ūṅkhayante ǀ ádhi ǀ pakvé ǀ ā́miṣi ǀ
vṛkṣásya ǀ śā́khām ǀ aruṇásya ǀ bápsataḥ ǀ té ǀ sū́bharvāḥ ǀ vṛṣabhā́ḥ ǀ prá ǀ īm ǀ arāviṣuḥ ǁete ǀ vadanti ǀ avidan ǀ anā ǀ madhu ǀ ni ǀ ūṅkhayante ǀ adhi ǀ pakve ǀ āmiṣi ǀ
vṛkṣasya ǀ śākhām ǀ aruṇasya ǀ bapsataḥ ǀ te ǀ sūbharvāḥ ǀ vṛṣabhāḥ ǀ pra ǀ īm ǀ arāviṣuḥ ǁ10.94.3 Aṣṭaka 8.4.29.3Anuvāka 10.8.48
-
Ṛk 4
बृ॒हद्व॑दंति मदि॒रेण॑ मं॒दिनेंद्रं॒ क्रोशं॑तोऽविदन्न॒ना मधु॑ ।
सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षयं॑तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥बृहद् वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तो ऽविदन्न् अना मधु |
संरभ्या धीराः स्वसृभिर् अनर्तिषुर् आघोषयन्तः पृथिवीम् उपब्दिभिः ||bṛhádvadanti madiréṇa mandínéndram króśanto’vidannanā́ mádhu ǀ
saṃrábhyā dhī́rāḥ svásṛbhiranartiṣurāghoṣáyantaḥ pṛthivī́mupabdíbhiḥ ǁbṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu |
saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ ||बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ ।
स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना । मधु ।
सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः ॥bṛhát ǀ vadanti ǀ madiréṇa ǀ mandínā ǀ índram ǀ króśantaḥ ǀ avidan ǀ anā́ ǀ mádhu ǀ
sam-rábhya ǀ dhī́rāḥ ǀ svásṛ-bhiḥ ǀ anartiṣuḥ ǀ ā-ghoṣáyantaḥ ǀ pṛthivī́m ǀ upabdí-bhiḥ ǁbṛhat ǀ vadanti ǀ madireṇa ǀ mandinā ǀ indram ǀ krośantaḥ ǀ avidan ǀ anā ǀ madhu ǀ
sam-rabhya ǀ dhīrāḥ ǀ svasṛ-bhiḥ ǀ anartiṣuḥ ǀ ā-ghoṣayantaḥ ǀ pṛthivīm ǀ upabdi-bhiḥ ǁ10.94.4 Aṣṭaka 8.4.29.4Anuvāka 10.8.49
-
Ṛk 5
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
न्य१॒॑ङ्नि यं॒त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः |
न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ||suparṇā́ vā́camakratópa dyávyākharé kṛ́ṣṇā iṣirā́ anartiṣuḥ ǀ
nyáṅní yantyúparasya niṣkṛtám purū́ réto dadhire sūryaśvítaḥ ǁsuparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ |
nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ ||सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णाः॑ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ ।
न्य॑क् । नि । य॒न्ति॒ । उप॑रस्य । निः॒ऽकृ॒तम् । पु॒रु । रेतः॑ । द॒धि॒रे॒ । सू॒र्य॒ऽश्वितः॑ ॥सुऽपर्णाः । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णाः । इषिराः । अनर्तिषुः ।
न्यक् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वितः ॥su-parṇā́ḥ ǀ vā́cam ǀ akrata ǀ úpa ǀ dyávi ǀ ā-kharé ǀ kṛ́ṣṇāḥ ǀ iṣirā́ḥ ǀ anartiṣuḥ ǀ
nyák ǀ ní ǀ yanti ǀ úparasya ǀ niḥ-kṛtám ǀ purú ǀ rétaḥ ǀ dadhire ǀ sūrya-śvítaḥ ǁsu-parṇāḥ ǀ vācam ǀ akrata ǀ upa ǀ dyavi ǀ ā-khare ǀ kṛṣṇāḥ ǀ iṣirāḥ ǀ anartiṣuḥ ǀ
nyak ǀ ni ǀ yanti ǀ uparasya ǀ niḥ-kṛtam ǀ puru ǀ retaḥ ǀ dadhire ǀ sūrya-śvitaḥ ǁ10.94.5 Aṣṭaka 8.4.29.5Anuvāka 10.8.50
-
Ṛk 6
उ॒ग्रा इ॑व प्र॒वहं॑तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
यच्छ्व॒संतो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः |
यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ||ugrā́ iva praváhantaḥ samā́yamuḥ sākám yuktā́ vṛ́ṣaṇo bíbhrato dhúraḥ ǀ
yácchvasánto jagrasānā́ árāviṣuḥ śṛṇvá eṣām prothátho árvatāmiva ǁugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ |
yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva ||उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ ।
यत् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥उग्राःऽइव । प्रऽवहन्तः । सम्ऽआयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः ।
यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ॥ugrā́ḥ-iva ǀ pra-váhantaḥ ǀ sam-ā́yamuḥ ǀ sākám ǀ yuktā́ḥ ǀ vṛ́ṣaṇaḥ ǀ bíbhrataḥ ǀ dhúraḥ ǀ
yát ǀ śvasántaḥ ǀ jagrasānā́ḥ ǀ árāviṣuḥ ǀ śṛṇvé ǀ eṣām ǀ protháthaḥ ǀ árvatām-iva ǁugrāḥ-iva ǀ pra-vahantaḥ ǀ sam-āyamuḥ ǀ sākam ǀ yuktāḥ ǀ vṛṣaṇaḥ ǀ bibhrataḥ ǀ dhuraḥ ǀ
yat ǀ śvasantaḥ ǀ jagrasānāḥ ǀ arāviṣuḥ ǀ śṛṇve ǀ eṣām ǀ prothathaḥ ǀ arvatām-iva ǁ10.94.6 Aṣṭaka 8.4.30.1Anuvāka 10.8.51
-
Ṛk 7
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः |
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ||dáśāvanibhyo dáśakakṣyebhyo dáśayoktrebhyo dáśayojanebhyaḥ ǀ
dáśābhīśubhyo arcatājárebhyo dáśa dhúro dáśa yuktā́ váhadbhyaḥ ǁdaśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ |
daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ||दशा॑वनिऽभ्यः । दश॑ऽकक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः ।
दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥दशावनिऽभ्यः । दशऽकक्ष्येभ्यः । दशऽयोक्त्रेभ्यः । दशऽयोजनेभ्यः ।
दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ॥dáśāvani-bhyaḥ ǀ dáśa-kakṣyebhyaḥ ǀ dáśa-yoktrebhyaḥ ǀ dáśa-yojanebhyaḥ ǀ
dáśābhīśu-bhyaḥ ǀ arcata ǀ ajárebhyaḥ ǀ dáśa ǀ dhúraḥ ǀ dáśa ǀ yuktā́ḥ ǀ váhat-bhyaḥ ǁdaśāvani-bhyaḥ ǀ daśa-kakṣyebhyaḥ ǀ daśa-yoktrebhyaḥ ǀ daśa-yojanebhyaḥ ǀ
daśābhīśu-bhyaḥ ǀ arcata ǀ ajarebhyaḥ ǀ daśa ǀ dhuraḥ ǀ daśa ǀ yuktāḥ ǀ vahat-bhyaḥ ǁ10.94.7 Aṣṭaka 8.4.30.2Anuvāka 10.8.52
-
Ṛk 8
ते अद्र॑यो॒ दश॑यंत्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तं ।
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यांध॑सो॒ऽंशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥ते अद्रयो दशयन्त्रास आशवस् तेषाम् आधानम् पर्य् एति हर्यतम् |
त ऊ सुतस्य सोम्यस्यान्धसो ऽंशोः पीयूषम् प्रथमस्य भेजिरे ||té ádrayo dáśayantrāsa āśávastéṣāmādhā́nam páryeti haryatám ǀ
tá ū sutásya somyásyā́ndhaso’ṃśóḥ pīyū́ṣam prathamásya bhejire ǁte adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam |
ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire ||ते । अद्र॑यः । दश॑ऽयन्त्रासः । आ॒शवः॑ । तेषा॑म् । आ॒ऽधान॑म् । परि॑ । ए॒ति॒ । ह॒र्य॒तम् ।
ते । ऊं॒ इति॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मस्य॑ । भे॒जि॒रे॒ ॥ते । अद्रयः । दशऽयन्त्रासः । आशवः । तेषाम् । आऽधानम् । परि । एति । हर्यतम् ।
ते । ऊं इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥té ǀ ádrayaḥ ǀ dáśa-yantrāsaḥ ǀ āśávaḥ ǀ téṣām ǀ ā-dhā́nam ǀ pári ǀ eti ǀ haryatám ǀ
té ǀ ūṃ íti ǀ sutásya ǀ somyásya ǀ ándhasaḥ ǀ aṃśóḥ ǀ pīyū́ṣam ǀ prathamásya ǀ bhejire ǁte ǀ adrayaḥ ǀ daśa-yantrāsaḥ ǀ āśavaḥ ǀ teṣām ǀ ā-dhānam ǀ pari ǀ eti ǀ haryatam ǀ
te ǀ ūṃ iti ǀ sutasya ǀ somyasya ǀ andhasaḥ ǀ aṃśoḥ ǀ pīyūṣam ǀ prathamasya ǀ bhejire ǁ10.94.8 Aṣṭaka 8.4.30.3Anuvāka 10.8.53
-
Ṛk 9
ते सो॒मादो॒ हरी॒ इंद्र॑स्य निंसते॒ऽंशुं दु॒हंतो॒ अध्या॑सते॒ गवि॑ ।
तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विंद्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि |
तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ||té somā́do hárī índrasya niṃsate’ṃśúm duhánto ádhyāsate gávi ǀ
tébhirdugdhám papivā́ntsomyám mádhvíndro vardhate práthate vṛṣāyáte ǁte somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi |
tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate ||ते । सो॒म॒ऽअदः॑ । हरी॒ इति॑ । इन्द्र॑स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः॑ । अधि॑ । आ॒स॒ते॒ । गवि॑ ।
तेभिः॑ । दु॒ग्धम् । प॒पि॒ऽवान् । सो॒म्यम् । मधु॑ । इन्द्रः॑ । व॒र्ध॒ते॒ । प्रथ॑ते । वृ॒ष॒ऽयते॑ ॥ते । सोमऽअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि ।
तेभिः । दुग्धम् । पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥té ǀ soma-ádaḥ ǀ hárī íti ǀ índrasya ǀ niṃsate ǀ aṃśúm ǀ duhántaḥ ǀ ádhi ǀ āsate ǀ gávi ǀ
tébhiḥ ǀ dugdhám ǀ papi-vā́n ǀ somyám ǀ mádhu ǀ índraḥ ǀ vardhate ǀ práthate ǀ vṛṣa-yáte ǁte ǀ soma-adaḥ ǀ harī iti ǀ indrasya ǀ niṃsate ǀ aṃśum ǀ duhantaḥ ǀ adhi ǀ āsate ǀ gavi ǀ
tebhiḥ ǀ dugdham ǀ papi-vān ǀ somyam ǀ madhu ǀ indraḥ ǀ vardhate ǀ prathate ǀ vṛṣa-yate ǁ10.94.9 Aṣṭaka 8.4.30.4Anuvāka 10.8.54
-
Ṛk 10
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वंतः॒ सद॒मित्स्थ॒नाशि॑ताः ।
रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रं ॥वृषा वो अंशुर् न किला रिषाथनेऌआवन्तः सदम् इत् स्थनाशिताः |
रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वम् अध्वरम् ||vṛ́ṣā vo aṃśúrná kílā riṣāthanéḷāvantaḥ sádamítsthanā́śitāḥ ǀ
raivatyéva máhasā cā́ravaḥ sthana yásya grāvāṇo ájuṣadhvamadhvarám ǁvṛṣā vo aṃśur na kilā riṣāthaneḷāvantaḥ sadam it sthanāśitāḥ |
raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram ||वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः ।
रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥वृषा । वः । अंशुः । न । किल । रिषाथन । इळाऽवन्तः । सदम् । इत् । स्थन । आशिताः ।
रैवत्याऽइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥vṛ́ṣā ǀ vaḥ ǀ aṃśúḥ ǀ ná ǀ kíla ǀ riṣāthana ǀ íḷā-vantaḥ ǀ sádam ǀ ít ǀ sthana ǀ ā́śitāḥ ǀ
raivatyā́-iva ǀ máhasā ǀ cā́ravaḥ ǀ sthana ǀ yásya ǀ grāvāṇaḥ ǀ ájuṣadhvam ǀ adhvarám ǁvṛṣā ǀ vaḥ ǀ aṃśuḥ ǀ na ǀ kila ǀ riṣāthana ǀ iḷā-vantaḥ ǀ sadam ǀ it ǀ sthana ǀ āśitāḥ ǀ
raivatyā-iva ǀ mahasā ǀ cāravaḥ ǀ sthana ǀ yasya ǀ grāvāṇaḥ ǀ ajuṣadhvam ǀ adhvaram ǁ10.94.10 Aṣṭaka 8.4.30.5Anuvāka 10.8.55
-
Ṛk 11
तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥तृदिला अतृदिलासो अद्रयो ऽश्रमणा अशृथिता अमृत्यवः |
अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ||tṛdilā́ átṛdilāso ádrayo’śramaṇā́ áśṛthitā ámṛtyavaḥ ǀ
anāturā́ ajárāḥ sthā́maviṣṇavaḥ supīváso átṛṣitā átṛṣṇajaḥ ǁtṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ |
anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ||तृ॒दि॒लाः । अतृ॑दिलासः । अद्र॑यः । अ॒श्र॒म॒णाः । अशृ॑थिताः । अमृ॑त्यवः ।
अ॒ना॒तु॒राः । अ॒जराः॑ । स्थ॒ । अम॑विष्णवः । सु॒ऽपी॒वसः॑ । अतृ॑षिताः । अतृ॑ष्णऽजः ॥तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः ।
अनातुराः । अजराः । स्थ । अमविष्णवः । सुऽपीवसः । अतृषिताः । अतृष्णऽजः ॥tṛdilā́ḥ ǀ átṛdilāsaḥ ǀ ádrayaḥ ǀ aśramaṇā́ḥ ǀ áśṛthitāḥ ǀ ámṛtyavaḥ ǀ
anāturā́ḥ ǀ ajárāḥ ǀ stha ǀ ámaviṣṇavaḥ ǀ su-pīvásaḥ ǀ átṛṣitāḥ ǀ átṛṣṇa-jaḥ ǁtṛdilāḥ ǀ atṛdilāsaḥ ǀ adrayaḥ ǀ aśramaṇāḥ ǀ aśṛthitāḥ ǀ amṛtyavaḥ ǀ
anāturāḥ ǀ ajarāḥ ǀ stha ǀ amaviṣṇavaḥ ǀ su-pīvasaḥ ǀ atṛṣitāḥ ǀ atṛṣṇa-jaḥ ǁ10.94.11 Aṣṭaka 8.4.31.1Anuvāka 10.8.56
-
Ṛk 12
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न युं॑जते ।
अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥ध्रुवा एव वः पितरो युगे-युगे क्षेमकामासः सदसो न युञ्जते |
अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीम् अशुश्रवुः ||dhruvā́ evá vaḥ pitáro yugéyuge kṣémakāmāsaḥ sádaso ná yuñjate ǀ
ajuryā́so hariṣā́co harídrava ā́ dyā́m ráveṇa pṛthivī́maśuśravuḥ ǁdhruvā eva vaḥ pitaro yuge-yuge kṣemakāmāsaḥ sadaso na yuñjate |
ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ ||ध्रु॒वाः । ए॒व । वः॒ । पि॒तरः॑ । यु॒गेऽयु॑गे । क्षेम॑ऽकामासः । सद॑सः । न । यु॒ञ्ज॒ते॒ ।
अ॒जु॒र्यासः॑ । ह॒रि॒ऽसाचः॑ । ह॒रिद्र॑वः । आ । द्याम् । रवे॑ण । पृ॒थि॒वीम् । अ॒शु॒श्र॒वुः॒ ॥ध्रुवाः । एव । वः । पितरः । युगेऽयुगे । क्षेमऽकामासः । सदसः । न । युञ्जते ।
अजुर्यासः । हरिऽसाचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः ॥dhruvā́ḥ ǀ evá ǀ vaḥ ǀ pitáraḥ ǀ yugé-yuge ǀ kṣéma-kāmāsaḥ ǀ sádasaḥ ǀ ná ǀ yuñjate ǀ
ajuryā́saḥ ǀ hari-sā́caḥ ǀ harídravaḥ ǀ ā́ ǀ dyā́m ǀ ráveṇa ǀ pṛthivī́m ǀ aśuśravuḥ ǁdhruvāḥ ǀ eva ǀ vaḥ ǀ pitaraḥ ǀ yuge-yuge ǀ kṣema-kāmāsaḥ ǀ sadasaḥ ǀ na ǀ yuñjate ǀ
ajuryāsaḥ ǀ hari-sācaḥ ǀ haridravaḥ ǀ ā ǀ dyām ǀ raveṇa ǀ pṛthivīm ǀ aśuśravuḥ ǁ10.94.12 Aṣṭaka 8.4.31.2Anuvāka 10.8.57
-
Ṛk 13
तदिद्व॑दं॒त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नंज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
वपं॑तो॒ बीज॑मिव धान्या॒कृतः॑ पृं॒चंति॒ सोमं॒ न मि॑नंति॒ बप्स॑तः ॥तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः |
वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ||tádídvadantyádrayo vimócane yā́mannañjaspā́ iva ghédupabdíbhiḥ ǀ
vápanto bī́jamiva dhānyākṛ́taḥ pṛñcánti sómam ná minanti bápsataḥ ǁtad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ |
vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ ||तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ ।
वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ । इत् । उपब्दिऽभिः ।
वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥tát ǀ ít ǀ vadanti ǀ ádrayaḥ ǀ vi-mócane ǀ yā́man ǀ añjaḥpā́ḥ-iva ǀ gha ǀ ít ǀ upabdí-bhiḥ ǀ
vápantaḥ ǀ bī́jam-iva ǀ dhānya-kṛ́taḥ ǀ pṛñcánti ǀ sómam ǀ ná ǀ minanti ǀ bápsataḥ ǁtat ǀ it ǀ vadanti ǀ adrayaḥ ǀ vi-mocane ǀ yāman ǀ añjaḥpāḥ-iva ǀ gha ǀ it ǀ upabdi-bhiḥ ǀ
vapantaḥ ǀ bījam-iva ǀ dhānya-kṛtaḥ ǀ pṛñcanti ǀ somam ǀ na ǀ minanti ǀ bapsataḥ ǁ10.94.13 Aṣṭaka 8.4.31.3Anuvāka 10.8.58
-
Ṛk 14
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दंतः॑ ।
वि षू मुं॑चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तंता॒मद्र॑य॒श्चाय॑मानाः ॥सुते अध्वरे अधि वाचम् अक्रता क्रीऌअयो न मातरं तुदन्तः |
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्ताम् अद्रयश् चायमानाः ||suté adhvaré ádhi vā́camakratā́ krīḷáyo ná mātáram tudántaḥ ǀ
ví ṣū́ muñcā suṣuvúṣo manīṣā́m ví vartantāmádrayaścā́yamānāḥ ǁsute adhvare adhi vācam akratā krīḷayo na mātaraṃ tudantaḥ |
vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ ||सु॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म् । अ॒क्र॒त॒ । आ । क्री॒ळयः॑ । न । मा॒तर॑म् । तु॒दन्तः॑ ।
वि । सु । मु॒ञ्च॒ । सु॒सु॒ऽवुषः॑ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र॑यः । चाय॑मानाः ॥सुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम् । तुदन्तः ।
वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ॥suté ǀ adhvaré ǀ ádhi ǀ vā́cam ǀ akrata ǀ ā́ ǀ krīḷáyaḥ ǀ ná ǀ mātáram ǀ tudántaḥ ǀ
ví ǀ sú ǀ muñca ǀ susu-vúṣaḥ ǀ manīṣā́m ǀ ví ǀ vartantām ǀ ádrayaḥ ǀ cā́yamānāḥ ǁsute ǀ adhvare ǀ adhi ǀ vācam ǀ akrata ǀ ā ǀ krīḷayaḥ ǀ na ǀ mātaram ǀ tudantaḥ ǀ
vi ǀ su ǀ muñca ǀ susu-vuṣaḥ ǀ manīṣām ǀ vi ǀ vartantām ǀ adrayaḥ ǀ cāyamānāḥ ǁ10.94.14 Aṣṭaka 8.4.31.4Anuvāka 10.8.59
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.