Ṛgveda · Maṇḍala 10 · Sūkta 94
Ṛk 10.94.9
Saṃhitā
ते सो॒मादो॒ हरी॒ इंद्र॑स्य निंसते॒ऽंशुं दु॒हंतो॒ अध्या॑सते॒ गवि॑ ।
तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विंद्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥
ते सोमादो हरी इन्द्रस्य निंसते ऽंशुं दुहन्तो अध्य् आसते गवि |
तेभिर् दुग्धम् पपिवान् सोम्यम् मध्व् इन्द्रो वर्धते प्रथते वृषायते ||
té somā́do hárī índrasya niṃsate’ṃśúm duhánto ádhyāsate gávi ǀ
tébhirdugdhám papivā́ntsomyám mádhvíndro vardhate práthate vṛṣāyáte ǁ
te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi |
tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate ||
Padapāṭha
ते । सो॒म॒ऽअदः॑ । हरी॒ इति॑ । इन्द्र॑स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः॑ । अधि॑ । आ॒स॒ते॒ । गवि॑ ।
तेभिः॑ । दु॒ग्धम् । प॒पि॒ऽवान् । सो॒म्यम् । मधु॑ । इन्द्रः॑ । व॒र्ध॒ते॒ । प्रथ॑ते । वृ॒ष॒ऽयते॑ ॥
ते । सोमऽअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि ।
तेभिः । दुग्धम् । पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥
té ǀ soma-ádaḥ ǀ hárī íti ǀ índrasya ǀ niṃsate ǀ aṃśúm ǀ duhántaḥ ǀ ádhi ǀ āsate ǀ gávi ǀ
tébhiḥ ǀ dugdhám ǀ papi-vā́n ǀ somyám ǀ mádhu ǀ índraḥ ǀ vardhate ǀ práthate ǀ vṛṣa-yáte ǁ
te ǀ soma-adaḥ ǀ harī iti ǀ indrasya ǀ niṃsate ǀ aṃśum ǀ duhantaḥ ǀ adhi ǀ āsate ǀ gavi ǀ
tebhiḥ ǀ dugdham ǀ papi-vān ǀ somyam ǀ madhu ǀ indraḥ ǀ vardhate ǀ prathate ǀ vṛṣa-yate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.094.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.30.04
- Maṇḍala · Anuvāka · Ṛk
- 10.08.054
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Arbuda Kādraveya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.