Ṛgveda · Maṇḍala 10 · Sūkta 94
Ṛk 10.94.6
Saṃhitā
उ॒ग्रा इ॑व प्र॒वहं॑तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
यच्छ्व॒संतो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥
उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः |
यच् छ्वसन्तो जग्रसाना अराविषुः शृण्व एषाम् प्रोथथो अर्वताम् इव ||
ugrā́ iva praváhantaḥ samā́yamuḥ sākám yuktā́ vṛ́ṣaṇo bíbhrato dhúraḥ ǀ
yácchvasánto jagrasānā́ árāviṣuḥ śṛṇvá eṣām prothátho árvatāmiva ǁ
ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ |
yac chvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva ||
Padapāṭha
उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ ।
यत् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥
उग्राःऽइव । प्रऽवहन्तः । सम्ऽआयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः ।
यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ॥
ugrā́ḥ-iva ǀ pra-váhantaḥ ǀ sam-ā́yamuḥ ǀ sākám ǀ yuktā́ḥ ǀ vṛ́ṣaṇaḥ ǀ bíbhrataḥ ǀ dhúraḥ ǀ
yát ǀ śvasántaḥ ǀ jagrasānā́ḥ ǀ árāviṣuḥ ǀ śṛṇvé ǀ eṣām ǀ protháthaḥ ǀ árvatām-iva ǁ
ugrāḥ-iva ǀ pra-vahantaḥ ǀ sam-āyamuḥ ǀ sākam ǀ yuktāḥ ǀ vṛṣaṇaḥ ǀ bibhrataḥ ǀ dhuraḥ ǀ
yat ǀ śvasantaḥ ǀ jagrasānāḥ ǀ arāviṣuḥ ǀ śṛṇve ǀ eṣām ǀ prothathaḥ ǀ arvatām-iva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.094.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.30.01
- Maṇḍala · Anuvāka · Ṛk
- 10.08.051
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Arbuda Kādraveya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.