Ṛgveda · Maṇḍala 10 · Sūkta 94

Ṛk 10.94.13

Grāvāṇaḥ · Arbuda Kādraveya

The whole sūkta Link

Saṃhitā

तदिद्व॑दं॒त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नंज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
वपं॑तो॒ बीज॑मिव धान्या॒कृतः॑ पृं॒चंति॒ सोमं॒ न मि॑नंति॒ बप्स॑तः ॥

तद् इद् वदन्त्य् अद्रयो विमोचने यामन्न् अञ्जस्पा इव घेद् उपब्दिभिः |
वपन्तो बीजम् इव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ||

tádídvadantyádrayo vimócane yā́mannañjaspā́ iva ghédupabdíbhiḥ ǀ
vápanto bī́jamiva dhānyākṛ́taḥ pṛñcánti sómam ná minanti bápsataḥ ǁ

tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ |
vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ ||

Padapāṭha

तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ ।
वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥

तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ । इत् । उपब्दिऽभिः ।
वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥

tát ǀ ít ǀ vadanti ǀ ádrayaḥ ǀ vi-mócane ǀ yā́man ǀ añjaḥpā́ḥ-iva ǀ gha ǀ ít ǀ upabdí-bhiḥ ǀ
vápantaḥ ǀ bī́jam-iva ǀ dhānya-kṛ́taḥ ǀ pṛñcánti ǀ sómam ǀ ná ǀ minanti ǀ bápsataḥ ǁ

tat ǀ it ǀ vadanti ǀ adrayaḥ ǀ vi-mocane ǀ yāman ǀ añjaḥpāḥ-iva ǀ gha ǀ it ǀ upabdi-bhiḥ ǀ
vapantaḥ ǀ bījam-iva ǀ dhānya-kṛtaḥ ǀ pṛñcanti ǀ somam ǀ na ǀ minanti ǀ bapsataḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.094.13
Aṣṭaka · Adhyāya · Varga · Ṛk
8.4.31.03
Maṇḍala · Anuvāka · Ṛk
10.08.058
Devatā देवता
Grāvāṇaḥ
Ṛṣi ऋषि
Arbuda Kādraveya
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.94.13

Interpretations

Sāyaṇa

आद्रय आदरणीया ग्रावणॊ यामन् यामनि गमनेऽञ्जस्पाः। अञ्जसा पान्ति रक्षन्तीत्यञ्जस्पाः। तेषां रथानामिवोपब्द्दिभिस्तदित्तदेवाभिषवकर्म विमोचने घेत् तत्सोमरसविमोचनवेलायामपि वदन्ति। प्रकाशयन्ति। किञ्च बप्सतः सोमं भक्षयन्तो ग्रावाणो वपन्तो धान्याक्रुतः कृषीवला बीजमिव यथा पृञ्चन्ति तद्वत्सोमं पृञ्चन्ति। सम्पर्चयन्तीत्यर्थः। नैनं मिनन्ति। न हिंसन्तीत्यर्थः॥१४॥