Ṛgveda · Maṇḍala 10 · Sūkta 94
Ṛk 10.94.5
Saṃhitā
सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
न्य१॒॑ङ्नि यं॒त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥
सुपर्णा वाचम् अक्रतोप द्यव्य् आखरे कृष्णा इषिरा अनर्तिषुः |
न्यङ् नि यन्त्य् उपरस्य निष्कृतम् पुरू रेतो दधिरे सूर्यश्वितः ||
suparṇā́ vā́camakratópa dyávyākharé kṛ́ṣṇā iṣirā́ anartiṣuḥ ǀ
nyáṅní yantyúparasya niṣkṛtám purū́ réto dadhire sūryaśvítaḥ ǁ
suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ |
nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ ||
Padapāṭha
सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णाः॑ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ ।
न्य॑क् । नि । य॒न्ति॒ । उप॑रस्य । निः॒ऽकृ॒तम् । पु॒रु । रेतः॑ । द॒धि॒रे॒ । सू॒र्य॒ऽश्वितः॑ ॥
सुऽपर्णाः । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णाः । इषिराः । अनर्तिषुः ।
न्यक् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वितः ॥
su-parṇā́ḥ ǀ vā́cam ǀ akrata ǀ úpa ǀ dyávi ǀ ā-kharé ǀ kṛ́ṣṇāḥ ǀ iṣirā́ḥ ǀ anartiṣuḥ ǀ
nyák ǀ ní ǀ yanti ǀ úparasya ǀ niḥ-kṛtám ǀ purú ǀ rétaḥ ǀ dadhire ǀ sūrya-śvítaḥ ǁ
su-parṇāḥ ǀ vācam ǀ akrata ǀ upa ǀ dyavi ǀ ā-khare ǀ kṛṣṇāḥ ǀ iṣirāḥ ǀ anartiṣuḥ ǀ
nyak ǀ ni ǀ yanti ǀ uparasya ǀ niḥ-kṛtam ǀ puru ǀ retaḥ ǀ dadhire ǀ sūrya-śvitaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.094.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.4.29.05
- Maṇḍala · Anuvāka · Ṛk
- 10.08.050
- Devatā देवता
- Grāvāṇaḥ
- Ṛṣi ऋषि
- Arbuda Kādraveya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.