Sūkta 85
- Devatā देवता
- 1-5: Soma; 6-16, 32-47: Sūryā; 17: Devās; 18: Soma, Arka; 19: Candramāḥ; 20-28: Wedding Mantras And Good Wishes Of Men; 29-31: A Censure Of Contact With A Bride’s Clothing
- Ṛṣi ऋषि
- Sūryā Sāvitrī
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Jagatī, Urobṛhatī
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 3, 8, 11, 25, 28, 32, 33, 38, 41, 45); anuṣṭup (2, 4, 5, 9, 30, 31, 35, 39, 46, 47); virāḍanuṣṭup (6, 10, 13, 16, 17, 29, 42); nicṛttriṣṭup (14, 20, 24, 26, 37); pādanicṛdanuṣṭup (7, 12, 15, 22); triṣṭup (23, 27, 36); virāṭtrisṭup (21, 44); pādanicṛjjgatī (18); pādanicṛttriṣṭup (19); urobṛhatī (34); bhuriganuṣṭup (40); nicṛjjagatī (43)
2nd set of styles anuṣṭubh (1-13, 15-17, 22, 25, 28-33, 35, 38-42, 45-47); triṣṭubh (14, 19-21, 23, 24, 26, 36, 37, 44); jagatī (18, 27, 43); urobṛhatī (34)
-
Ṛk 1
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठंति दि॒वि सोमो॒ अधि॑ श्रि॒तः ॥सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः |
ऋतेनादित्यास् तिष्ठन्ति दिवि सोमो अधि श्रितः ||satyénóttabhitā bhū́miḥ sū́ryeṇóttabhitā dyáuḥ ǀ
ṛténādityā́stiṣṭhanti diví sómo ádhi śritáḥ ǁsatyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ ||स॒त्येन॑ । उत्त॑भिता । भूमिः॑ । सूर्ये॑ण । उत्त॑भिता । द्यौः ।
ऋ॒तेन॑ । आ॒दि॒त्याः । ति॒ष्ठ॒न्ति॒ । दि॒वि । सोमः॑ । अधि॑ । श्रि॒तः ॥सत्येन । उत्तभिता । भूमिः । सूर्येण । उत्तभिता । द्यौः ।
ऋतेन । आदित्याः । तिष्ठन्ति । दिवि । सोमः । अधि । श्रितः ॥satyéna ǀ úttabhitā ǀ bhū́miḥ ǀ sū́ryeṇa ǀ úttabhitā ǀ dyáuḥ ǀ
ṛténa ǀ ādityā́ḥ ǀ tiṣṭhanti ǀ diví ǀ sómaḥ ǀ ádhi ǀ śritáḥ ǁsatyena ǀ uttabhitā ǀ bhūmiḥ ǀ sūryeṇa ǀ uttabhitā ǀ dyauḥ ǀ
ṛtena ǀ ādityāḥ ǀ tiṣṭhanti ǀ divi ǀ somaḥ ǀ adhi ǀ śritaḥ ǁ10.85.1 Aṣṭaka 8.3.20.1Anuvāka 10.7.1
-
Ṛk 2
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ॥सोमेनादित्या बलिनः सोमेन पृथिवी मही |
अथो नक्षत्राणाम् एषाम् उपस्थे सोम आहितः ||sómenādityā́ balínaḥ sómena pṛthivī́ mahī́ ǀ
átho nákṣatrāṇāmeṣā́mupásthe sóma ā́hitaḥ ǁsomenādityā balinaḥ somena pṛthivī mahī |
atho nakṣatrāṇām eṣām upasthe soma āhitaḥ ||सोमे॑न । आ॒दि॒त्याः । ब॒लिनः॑ । सोमे॑न । पृ॒थि॒वी । म॒ही ।
अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोमः॑ । आऽहि॑तः ॥सोमेन । आदित्याः । बलिनः । सोमेन । पृथिवी । मही ।
अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोमः । आऽहितः ॥sómena ǀ ādityā́ḥ ǀ balínaḥ ǀ sómena ǀ pṛthivī́ ǀ mahī́ ǀ
átho íti ǀ nákṣatrāṇām ǀ eṣā́m ǀ upá-sthe ǀ sómaḥ ǀ ā́-hitaḥ ǁsomena ǀ ādityāḥ ǀ balinaḥ ǀ somena ǀ pṛthivī ǀ mahī ǀ
atho iti ǀ nakṣatrāṇām ǀ eṣām ǀ upa-sthe ǀ somaḥ ǀ ā-hitaḥ ǁ10.85.2 Aṣṭaka 8.3.20.2Anuvāka 10.7.2
-
Ṛk 3
सोमं॑ मन्यते पपि॒वान्यत्सं॑पिं॒षंत्योष॑धिं ।
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥सोमम् मन्यते पपिवान् यत् सम्पिंषन्त्य् ओषधिम् |
सोमं यम् ब्रह्माणो विदुर् न तस्याश्नाति कश् चन ||sómam manyate papivā́nyátsampiṃṣántyóṣadhim ǀ
sómam yám brahmā́ṇo vidúrná tásyāśnāti káścaná ǁsomam manyate papivān yat sampiṃṣanty oṣadhim |
somaṃ yam brahmāṇo vidur na tasyāśnāti kaś cana ||सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपिं॒षन्ति॑ । ओष॑धिम् ।
सोम॑म् । यम् । ब्र॒ह्माणः॑ । वि॒दुः । न । तस्य॑ । अ॒श्ना॒ति॒ । कः । च॒न ॥सोमम् । मन्यते । पपिऽवान् । यत् । सम्ऽपिंषन्ति । ओषधिम् ।
सोमम् । यम् । ब्रह्माणः । विदुः । न । तस्य । अश्नाति । कः । चन ॥sómam ǀ manyate ǀ papi-vā́n ǀ yát ǀ sam-piṃṣánti ǀ óṣadhim ǀ
sómam ǀ yám ǀ brahmā́ṇaḥ ǀ vidúḥ ǀ ná ǀ tásya ǀ aśnāti ǀ káḥ ǀ caná ǁsomam ǀ manyate ǀ papi-vān ǀ yat ǀ sam-piṃṣanti ǀ oṣadhim ǀ
somam ǀ yam ǀ brahmāṇaḥ ǀ viduḥ ǀ na ǀ tasya ǀ aśnāti ǀ kaḥ ǀ cana ǁ10.85.3 Aṣṭaka 8.3.20.3Anuvāka 10.7.3
-
Ṛk 4
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
ग्राव्णा॒मिच्छृ॒ण्वंति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः ॥आच्छद्विधानैर् गुपितो बार्हतैः सोम रक्षितः |
ग्राव्णाम् इच् छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ||ācchádvidhānairgupitó bā́rhataiḥ soma rakṣitáḥ ǀ
grā́vṇāmícchṛṇvántiṣṭhasi ná te aśnāti pā́rthivaḥ ǁācchadvidhānair gupito bārhataiḥ soma rakṣitaḥ |
grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||आ॒च्छत्ऽवि॑धानैः । गु॒पि॒तः । बार्ह॑तैः । सो॒म॒ । र॒क्षि॒तः ।
ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑वः ॥आच्छत्ऽविधानैः । गुपितः । बार्हतैः । सोम । रक्षितः ।
ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिवः ॥ācchát-vidhānaiḥ ǀ gupitáḥ ǀ bā́rhataiḥ ǀ soma ǀ rakṣitáḥ ǀ
grā́vṇām ǀ ít ǀ śṛṇván ǀ tiṣṭhasi ǀ ná ǀ te ǀ aśnāti ǀ pā́rthivaḥ ǁācchat-vidhānaiḥ ǀ gupitaḥ ǀ bārhataiḥ ǀ soma ǀ rakṣitaḥ ǀ
grāvṇām ǀ it ǀ śṛṇvan ǀ tiṣṭhasi ǀ na ǀ te ǀ aśnāti ǀ pārthivaḥ ǁ10.85.4 Aṣṭaka 8.3.20.4Anuvāka 10.7.4
-
Ṛk 5
यत्त्वा॑ देव प्र॒पिबं॑ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥यत् त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः |
वायुः सोमस्य रक्षिता समानाम् मास आकृतिः ||yáttvā deva prapíbanti táta ā́ pyāyase púnaḥ ǀ
vāyúḥ sómasya rakṣitā́ sámānām mā́sa ā́kṛtiḥ ǁyat tvā deva prapibanti tata ā pyāyase punaḥ |
vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ||यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ ।
वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥यत् । त्वा । देव । प्रऽपिबन्ति । ततः । आ । प्यायसे । पुनरिति ।
वायुः । सोमस्य । रक्षिता । समानाम् । मासः । आऽकृतिः ॥yát ǀ tvā ǀ deva ǀ pra-píbanti ǀ tátaḥ ǀ ā́ ǀ pyāyase ǀ púnaríti ǀ
vāyúḥ ǀ sómasya ǀ rakṣitā́ ǀ sámānām ǀ mā́saḥ ǀ ā́-kṛtiḥ ǁyat ǀ tvā ǀ deva ǀ pra-pibanti ǀ tataḥ ǀ ā ǀ pyāyase ǀ punariti ǀ
vāyuḥ ǀ somasya ǀ rakṣitā ǀ samānām ǀ māsaḥ ǀ ā-kṛtiḥ ǁ10.85.5 Aṣṭaka 8.3.20.5Anuvāka 10.7.5
-
Ṛk 6
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतं ॥रैभ्य् आसीद् अनुदेयी नाराशंसी न्योचनी |
सूर्याया भद्रम् इद् वासो गाथयैति परिष्कृतम् ||ráibhyāsīdanudéyī nārāśaṃsī́ nyócanī ǀ
sūryā́yā bhadrámídvā́so gā́thayaiti páriṣkṛtam ǁraibhy āsīd anudeyī nārāśaṃsī nyocanī |
sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam ||रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी ।
सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥रैभी । आसीत् । अनुऽदेयी । नाराशंसी । निऽओचनी ।
सूर्यायाः । भद्रम् । इत् । वासः । गाथया । एति । परिऽकृतम् ॥ráibhī ǀ āsīt ǀ anu-déyī ǀ nārāśaṃsī́ ǀ ni-ócanī ǀ
sūryā́yāḥ ǀ bhadrám ǀ ít ǀ vā́saḥ ǀ gā́thayā ǀ eti ǀ pári-kṛtam ǁraibhī ǀ āsīt ǀ anu-deyī ǀ nārāśaṃsī ǀ ni-ocanī ǀ
sūryāyāḥ ǀ bhadram ǀ it ǀ vāsaḥ ǀ gāthayā ǀ eti ǀ pari-kṛtam ǁ10.85.6 Aṣṭaka 8.3.21.1Anuvāka 10.7.6
-
Ṛk 7
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यंज॑नं ।
द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पतिं॑ ॥चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् |
द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ||cíttirā upabárhaṇam cákṣurā abhyáñjanam ǀ
dyáurbhū́miḥ kóśa āsīdyádáyātsūryā́ pátim ǁcittir ā upabarhaṇaṃ cakṣur ā abhyañjanam |
dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् ।
द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।
द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥cíttiḥ ǀ āḥ ǀ upa-bárhaṇam ǀ cákṣuḥ ǀ āḥ ǀ abhi-áñjanam ǀ
dyáuḥ ǀ bhū́miḥ ǀ kóśaḥ ǀ āsīt ǀ yát ǀ áyāt ǀ sūryā́ ǀ pátim ǁcittiḥ ǀ āḥ ǀ upa-barhaṇam ǀ cakṣuḥ ǀ āḥ ǀ abhi-añjanam ǀ
dyauḥ ǀ bhūmiḥ ǀ kośaḥ ǀ āsīt ǀ yat ǀ ayāt ǀ sūryā ǀ patim ǁ10.85.7 Aṣṭaka 8.3.21.2Anuvāka 10.7.7
-
Ṛk 8
स्तोमा॑ आसन्प्रति॒धयः॑ कु॒रीरं॒ छंद॑ ओप॒शः ।
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः |
सूर्याया अश्विना वराग्निर् आसीत् पुरोगवः ||stómā āsanpratidháyaḥ kurī́ram chánda opaśáḥ ǀ
sūryā́yā aśvínā varā́gnírāsītpurogaváḥ ǁstomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ |
sūryāyā aśvinā varāgnir āsīt purogavaḥ ||स्तोमाः॑ । आ॒स॒न् । प्र॒ति॒ऽधयः॑ । कु॒रीर॑म् । छन्दः॑ । ओ॒प॒शः ।
सू॒र्यायाः॑ । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒ऽग॒वः ॥स्तोमाः । आसन् । प्रतिऽधयः । कुरीरम् । छन्दः । ओपशः ।
सूर्यायाः । अश्विना । वरा । अग्निः । आसीत् । पुरःऽगवः ॥stómāḥ ǀ āsan ǀ prati-dháyaḥ ǀ kurī́ram ǀ chándaḥ ǀ opaśáḥ ǀ
sūryā́yāḥ ǀ aśvínā ǀ varā́ ǀ agníḥ ǀ āsīt ǀ puraḥ-gaváḥ ǁstomāḥ ǀ āsan ǀ prati-dhayaḥ ǀ kurīram ǀ chandaḥ ǀ opaśaḥ ǀ
sūryāyāḥ ǀ aśvinā ǀ varā ǀ agniḥ ǀ āsīt ǀ puraḥ-gavaḥ ǁ10.85.8 Aṣṭaka 8.3.21.3Anuvāka 10.7.8
-
Ṛk 9
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
सू॒र्यां यत्पत्ये॒ शंसं॑तीं॒ मन॑सा सवि॒ताद॑दात् ॥सोमो वधूयुर् अभवद् अश्विनास्ताम् उभा वरा |
सूर्यां यत् पत्ये शंसन्तीम् मनसा सविताददात् ||sómo vadhūyúrabhavadaśvínāstāmubhā́ varā́ ǀ
sūryā́m yátpátye śáṃsantīm mánasā savitā́dadāt ǁsomo vadhūyur abhavad aśvināstām ubhā varā |
sūryāṃ yat patye śaṃsantīm manasā savitādadāt ||सोमः॑ । व॒धू॒ऽयुः । अ॒भ॒व॒त् । अ॒श्विना॑ । आ॒स्ता॒म् । उ॒भा । व॒रा ।
सू॒र्याम् । यत् । पत्ये॑ । शंस॑न्तीम् । मन॑सा । स॒वि॒ता । अद॑दात् ॥सोमः । वधूऽयुः । अभवत् । अश्विना । आस्ताम् । उभा । वरा ।
सूर्याम् । यत् । पत्ये । शंसन्तीम् । मनसा । सविता । अददात् ॥sómaḥ ǀ vadhū-yúḥ ǀ abhavat ǀ aśvínā ǀ āstām ǀ ubhā́ ǀ varā́ ǀ
sūryā́m ǀ yát ǀ pátye ǀ śáṃsantīm ǀ mánasā ǀ savitā́ ǀ ádadāt ǁsomaḥ ǀ vadhū-yuḥ ǀ abhavat ǀ aśvinā ǀ āstām ǀ ubhā ǀ varā ǀ
sūryām ǀ yat ǀ patye ǀ śaṃsantīm ǀ manasā ǀ savitā ǀ adadāt ǁ10.85.9 Aṣṭaka 8.3.21.4Anuvāka 10.7.9
-
Ṛk 10
मनो॑ अस्या॒ अन॑ आसी॒द्द्यौरा॑सीदु॒त च्छ॒दिः ।
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त्सू॒र्या गृ॒हं ॥मनो अस्या अन आसीद् द्यौर् आसीद् उत च्छदिः |
शुक्राव् अनड्वाहाव् आस्तां यद् अयात् सूर्या गृहम् ||máno asyā ána āsīddyáurāsīdutá cchadíḥ ǀ
śukrā́vanaḍvā́hāvāstām yádáyātsūryā́ gṛhám ǁmano asyā ana āsīd dyaur āsīd uta cchadiḥ |
śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham ||मनः॑ । अ॒स्याः॒ । अनः॑ । आ॒सी॒त् । द्यौः । आ॒सी॒त् । उ॒त । छ॒दिः ।
शु॒क्रौ । अ॒न॒ड्वाहौ॑ । आ॒स्ता॒म् । यत् । अया॑त् । सू॒र्या । गृ॒हम् ॥मनः । अस्याः । अनः । आसीत् । द्यौः । आसीत् । उत । छदिः ।
शुक्रौ । अनड्वाहौ । आस्ताम् । यत् । अयात् । सूर्या । गृहम् ॥mánaḥ ǀ asyāḥ ǀ ánaḥ ǀ āsīt ǀ dyáuḥ ǀ āsīt ǀ utá ǀ chadíḥ ǀ
śukráu ǀ anaḍvā́hau ǀ āstām ǀ yát ǀ áyāt ǀ sūryā́ ǀ gṛhám ǁmanaḥ ǀ asyāḥ ǀ anaḥ ǀ āsīt ǀ dyauḥ ǀ āsīt ǀ uta ǀ chadiḥ ǀ
śukrau ǀ anaḍvāhau ǀ āstām ǀ yat ǀ ayāt ǀ sūryā ǀ gṛham ǁ10.85.10 Aṣṭaka 8.3.21.5Anuvāka 10.7.10
-
Ṛk 11
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावि॑तः ।
श्रोत्रं॑ ते च॒क्रे आ॑स्तां दि॒वि पंथा॑श्चराचा॒रः ॥ऋक्सामाभ्याम् अभिहितौ गावौ ते सामनाव् इतः |
श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश् चराचारः ||ṛksāmā́bhyāmabhíhitau gā́vau te sāmanā́vitaḥ ǀ
śrótram te cakré āstām diví pánthāścarācāráḥ ǁṛksāmābhyām abhihitau gāvau te sāmanāv itaḥ |
śrotraṃ te cakre āstāṃ divi panthāś carācāraḥ ||ऋ॒क्ऽसा॒माभ्या॑म् । अ॒भिऽहि॑तौ । गावौ॑ । ते॒ । सा॒म॒नौ । इ॒तः॒ ।
श्रोत्र॑म् । ते॒ । च॒क्रे इति॑ । आ॒स्ता॒म् । दि॒वि । पन्थाः॑ । च॒रा॒च॒रः ॥ऋक्ऽसामाभ्याम् । अभिऽहितौ । गावौ । ते । सामनौ । इतः ।
श्रोत्रम् । ते । चक्रे इति । आस्ताम् । दिवि । पन्थाः । चराचरः ॥ṛk-sāmā́bhyām ǀ abhí-hitau ǀ gā́vau ǀ te ǀ sāmanáu ǀ itaḥ ǀ
śrótram ǀ te ǀ cakré íti ǀ āstām ǀ diví ǀ pánthāḥ ǀ carācaráḥ ǁṛk-sāmābhyām ǀ abhi-hitau ǀ gāvau ǀ te ǀ sāmanau ǀ itaḥ ǀ
śrotram ǀ te ǀ cakre iti ǀ āstām ǀ divi ǀ panthāḥ ǀ carācaraḥ ǁ10.85.11 Aṣṭaka 8.3.22.1Anuvāka 10.7.11
-
Ṛk 12
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पतिं॑ ॥शुची ते चक्रे यात्या व्यानो अक्ष आहतः |
अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ||śúcī te cakré yātyā́ vyānó ákṣa ā́hataḥ ǀ
áno manasmáyam sūryā́rohatprayatī́ pátim ǁśucī te cakre yātyā vyāno akṣa āhataḥ |
ano manasmayaṃ sūryārohat prayatī patim ||शुची॒ इति॑ । ते॒ । च॒क्रे इति॑ । या॒त्याः । वि॒ऽआ॒नः । अक्षः॑ । आऽह॑तः ।
अनः॑ । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥शुची इति । ते । चक्रे इति । यात्याः । विऽआनः । अक्षः । आऽहतः ।
अनः । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ॥śúcī íti ǀ te ǀ cakré íti ǀ yātyā́ḥ ǀ vi-ānáḥ ǀ ákṣaḥ ǀ ā́-hataḥ ǀ
ánaḥ ǀ manasmáyam ǀ sūryā́ ǀ ā́ ǀ arohat ǀ pra-yatī́ ǀ pátim ǁśucī iti ǀ te ǀ cakre iti ǀ yātyāḥ ǀ vi-ānaḥ ǀ akṣaḥ ǀ ā-hataḥ ǀ
anaḥ ǀ manasmayam ǀ sūryā ǀ ā ǀ arohat ǀ pra-yatī ǀ patim ǁ10.85.12 Aṣṭaka 8.3.22.2Anuvāka 10.7.12
-
Ṛk 13
सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् ।
अ॒घासु॑ हन्यंते॒ गावोऽर्जु॑न्योः॒ पर्यु॑ह्यते ॥सूर्याया वहतुः प्रागात् सविता यम् अवासृजत् |
अघासु हन्यन्ते गावो ऽर्जुन्योः पर्य् उह्यते ||sūryā́yā vahatúḥ prā́gātsavitā́ yámavā́sṛjat ǀ
aghā́su hanyante gā́vó’rjunyoḥ páryuhyate ǁsūryāyā vahatuḥ prāgāt savitā yam avāsṛjat |
aghāsu hanyante gāvo 'rjunyoḥ pary uhyate ||सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् ।
अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् ।
अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥sūryā́yāḥ ǀ vahatúḥ ǀ prá ǀ agāt ǀ savitā́ ǀ yám ǀ ava-ásṛjat ǀ
aghā́su ǀ hanyante ǀ gā́vaḥ ǀ árjunyoḥ ǀ pári ǀ uhyate ǁsūryāyāḥ ǀ vahatuḥ ǀ pra ǀ agāt ǀ savitā ǀ yam ǀ ava-asṛjat ǀ
aghāsu ǀ hanyante ǀ gāvaḥ ǀ arjunyoḥ ǀ pari ǀ uhyate ǁ10.85.13 Aṣṭaka 8.3.22.3Anuvāka 10.7.13
-
Ṛk 14
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
विश्वे॑ दे॒वा अनु॒ तद्वा॑मजानन्पु॒त्रः पि॒तरा॑ववृणीत पू॒षा ॥यद् अश्विना पृच्छमानाव् अयातं त्रिचक्रेण वहतुं सूर्यायाः |
विश्वे देवा अनु तद् वाम् अजानन् पुत्रः पितराव् अवृणीत पूषा ||yádaśvinā pṛcchámānāváyātam tricakréṇa vahatúm sūryā́yāḥ ǀ
víśve devā́ ánu tádvāmajānanputráḥ pitárāvavṛṇīta pūṣā́ ǁyad aśvinā pṛcchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ |
viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā ||यत् । अ॒श्वि॒ना॒ । पृ॒च्छमा॑नौ । अया॑तम् । त्रि॒ऽच॒क्रेण॑ । व॒ह॒तुम् । सू॒र्यायाः॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । वा॒म् । अ॒जा॒न॒न् । पु॒त्रः । पि॒तरौ॑ । अ॒वृ॒णी॒त॒ । पू॒षा ॥यत् । अश्विना । पृच्छमानौ । अयातम् । त्रिऽचक्रेण । वहतुम् । सूर्यायाः ।
विश्वे । देवाः । अनु । तत् । वाम् । अजानन् । पुत्रः । पितरौ । अवृणीत । पूषा ॥yát ǀ aśvinā ǀ pṛcchámānau ǀ áyātam ǀ tri-cakréṇa ǀ vahatúm ǀ sūryā́yāḥ ǀ
víśve ǀ devā́ḥ ǀ ánu ǀ tát ǀ vām ǀ ajānan ǀ putráḥ ǀ pitárau ǀ avṛṇīta ǀ pūṣā́ ǁyat ǀ aśvinā ǀ pṛcchamānau ǀ ayātam ǀ tri-cakreṇa ǀ vahatum ǀ sūryāyāḥ ǀ
viśve ǀ devāḥ ǀ anu ǀ tat ǀ vām ǀ ajānan ǀ putraḥ ǀ pitarau ǀ avṛṇīta ǀ pūṣā ǁ10.85.14 Aṣṭaka 8.3.22.4Anuvāka 10.7.14
-
Ṛk 15
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
क्वैकं॑ च॒क्रं वा॑मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ॥यद् अयातं शुभस् पती वरेयं सूर्याम् उप |
क्वैकं चक्रं वाम् आसीत् क्व देष्ट्राय तस्थथुः ||yádáyātam śubhaspatī vareyám sūryā́múpa ǀ
kváikam cakrám vāmāsītkvá deṣṭrā́ya tasthathuḥ ǁyad ayātaṃ śubhas patī vareyaṃ sūryām upa |
kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ ||यत् । अया॑तम् । शु॒भः॒ । प॒ती॒ इति॑ । व॒रे॒ऽयम् । सू॒र्याम् । उप॑ ।
क्व॑ । एक॑म् । च॒क्रम् । वा॒म् । आ॒सी॒त् । क्व॑ । दे॒ष्ट्राय॑ । त॒स्थ॒थुः॒ ॥यत् । अयातम् । शुभः । पती इति । वरेऽयम् । सूर्याम् । उप ।
क्व । एकम् । चक्रम् । वाम् । आसीत् । क्व । देष्ट्राय । तस्थथुः ॥yát ǀ áyātam ǀ śubhaḥ ǀ patī íti ǀ vare-yám ǀ sūryā́m ǀ úpa ǀ
kvá ǀ ékam ǀ cakrám ǀ vām ǀ āsīt ǀ kvá ǀ deṣṭrā́ya ǀ tasthathuḥ ǁyat ǀ ayātam ǀ śubhaḥ ǀ patī iti ǀ vare-yam ǀ sūryām ǀ upa ǀ
kva ǀ ekam ǀ cakram ǀ vām ǀ āsīt ǀ kva ǀ deṣṭrāya ǀ tasthathuḥ ǁ10.85.15 Aṣṭaka 8.3.22.5Anuvāka 10.7.15
-
Ṛk 16
द्वे ते॑ च॒क्रे सू॑र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
अथैकं॑ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ॥द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः |
अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ||dvé te cakré sūrye brahmā́ṇa ṛtuthā́ viduḥ ǀ
átháikam cakrám yádgúhā tádaddhātáya ídviduḥ ǁdve te cakre sūrye brahmāṇa ṛtuthā viduḥ |
athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ ||द्वे इति॑ । ते॒ । च॒क्रे इति॑ । सू॒र्ये॒ । ब्र॒ह्माणः॑ । ऋ॒तु॒ऽथा । वि॒दुः॒ ।
अथ॑ । एक॑म् । च॒क्रम् । यत् । गुहा॑ । तत् । अ॒द्धा॒तयः॑ । इत् । वि॒दुः॒ ॥द्वे इति । ते । चक्रे इति । सूर्ये । ब्रह्माणः । ऋतुऽथा । विदुः ।
अथ । एकम् । चक्रम् । यत् । गुहा । तत् । अद्धातयः । इत् । विदुः ॥dvé íti ǀ te ǀ cakré íti ǀ sūrye ǀ brahmā́ṇaḥ ǀ ṛtu-thā́ ǀ viduḥ ǀ
átha ǀ ékam ǀ cakrám ǀ yát ǀ gúhā ǀ tát ǀ addhātáyaḥ ǀ ít ǀ viduḥ ǁdve iti ǀ te ǀ cakre iti ǀ sūrye ǀ brahmāṇaḥ ǀ ṛtu-thā ǀ viduḥ ǀ
atha ǀ ekam ǀ cakram ǀ yat ǀ guhā ǀ tat ǀ addhātayaḥ ǀ it ǀ viduḥ ǁ10.85.16 Aṣṭaka 8.3.23.1Anuvāka 10.7.16
-
Ṛk 17
सू॒र्यायै॑ दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च ।
ये भू॒तस्य॒ प्रचे॑तस इ॒दं तेभ्यो॑ऽकरं॒ नमः॑ ॥सूर्यायै देवेभ्यो मित्राय वरुणाय च |
ये भूतस्य प्रचेतस इदं तेभ्यो ऽकरं नमः ||sūryā́yai devébhyo mitrā́ya váruṇāya ca ǀ
yé bhūtásya prácetasa idám tébhyo’karam námaḥ ǁsūryāyai devebhyo mitrāya varuṇāya ca |
ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ ||सू॒र्यायै॑ । दे॒वेभ्यः॑ । मि॒त्राय॑ । वरु॑णाय । च॒ ।
ये । भू॒तस्य॑ । प्रऽचे॑तसः । इ॒दम् । तेभ्यः॑ । अ॒क॒र॒म् । नमः॑ ॥सूर्यायै । देवेभ्यः । मित्राय । वरुणाय । च ।
ये । भूतस्य । प्रऽचेतसः । इदम् । तेभ्यः । अकरम् । नमः ॥sūryā́yai ǀ devébhyaḥ ǀ mitrā́ya ǀ váruṇāya ǀ ca ǀ
yé ǀ bhūtásya ǀ prá-cetasaḥ ǀ idám ǀ tébhyaḥ ǀ akaram ǀ námaḥ ǁsūryāyai ǀ devebhyaḥ ǀ mitrāya ǀ varuṇāya ǀ ca ǀ
ye ǀ bhūtasya ǀ pra-cetasaḥ ǀ idam ǀ tebhyaḥ ǀ akaram ǀ namaḥ ǁ10.85.17 Aṣṭaka 8.3.23.2Anuvāka 10.7.17
-
Ṛk 18
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळं॑तौ॒ परि॑ यातो अध्व॒रं ।
विश्वा॑न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥पूर्वापरं चरतो माययैतौ शिशू क्रीऌअन्तौ परि यातो अध्वरम् |
विश्वान्य् अन्यो भुवनाभिचष्ट ऋतूंर् अन्यो विदधज् जायते पुनः ||pūrvāparám carato māyáyaitáu śíśū krī́ḷantau pári yāto adhvarám ǀ
víśvānyanyó bhúvanābhicáṣṭa ṛtū́m̐ranyó vidádhajjāyate púnaḥ ǁpūrvāparaṃ carato māyayaitau śiśū krīḷantau pari yāto adhvaram |
viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ ||पू॒र्व॒ऽअ॒प॒रम् । च॒र॒तः॒ । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीळ॑न्तौ । परि॑ । या॒तः॒ । अ॒ध्व॒रम् ।
विश्वा॑नि । अ॒न्यः । भुव॑ना । अ॒भि॒ऽचष्टे॑ । ऋ॒तून् । अ॒न्यः । वि॒ऽदध॑त् । जा॒य॒ते॒ । पुन॒रिति॑ ॥पूर्वऽअपरम् । चरतः । मायया । एतौ । शिशू इति । क्रीळन्तौ । परि । यातः । अध्वरम् ।
विश्वानि । अन्यः । भुवना । अभिऽचष्टे । ऋतून् । अन्यः । विऽदधत् । जायते । पुनरिति ॥pūrva-aparám ǀ carataḥ ǀ māyáyā ǀ etáu ǀ śíśū íti ǀ krī́ḷantau ǀ pári ǀ yātaḥ ǀ adhvarám ǀ
víśvāni ǀ anyáḥ ǀ bhúvanā ǀ abhi-cáṣṭe ǀ ṛtū́n ǀ anyáḥ ǀ vi-dádhat ǀ jāyate ǀ púnaríti ǁpūrva-aparam ǀ carataḥ ǀ māyayā ǀ etau ǀ śiśū iti ǀ krīḷantau ǀ pari ǀ yātaḥ ǀ adhvaram ǀ
viśvāni ǀ anyaḥ ǀ bhuvanā ǀ abhi-caṣṭe ǀ ṛtūn ǀ anyaḥ ǀ vi-dadhat ǀ jāyate ǀ punariti ǁ10.85.18 Aṣṭaka 8.3.23.3Anuvāka 10.7.18
-
Ṛk 19
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्रं॑ ।
भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र चं॒द्रमा॑स्तिरते दी॒र्घमायुः॑ ॥नवो-नवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रम् |
भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरते दीर्घम् आयुः ||návonavo bhavati jā́yamānó’hnām ketúruṣásāmetyágram ǀ
bhāgám devébhyo ví dadhātyāyánprá candrámāstirate dīrghámā́yuḥ ǁnavo-navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram |
bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ ||नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥नवःऽनवः । भवति । जायमानः । अह्नाम् । केतुः । उषसाम् । एति । अग्रम् ।
भागम् । देवेभ्यः । वि । दधाति । आऽयन् । प्र । चन्द्रमाः । तिरते । दीर्घम् । आयुः ॥návaḥ-navaḥ ǀ bhavati ǀ jā́yamānaḥ ǀ áhnām ǀ ketúḥ ǀ uṣásām ǀ eti ǀ ágram ǀ
bhāgám ǀ devébhyaḥ ǀ ví ǀ dadhāti ǀ ā-yán ǀ prá ǀ candrámāḥ ǀ tirate ǀ dīrghám ǀ ā́yuḥ ǁnavaḥ-navaḥ ǀ bhavati ǀ jāyamānaḥ ǀ ahnām ǀ ketuḥ ǀ uṣasām ǀ eti ǀ agram ǀ
bhāgam ǀ devebhyaḥ ǀ vi ǀ dadhāti ǀ ā-yan ǀ pra ǀ candramāḥ ǀ tirate ǀ dīrgham ǀ āyuḥ ǁ10.85.19 Aṣṭaka 8.3.23.4Anuvāka 10.7.19
-
Ṛk 20
सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू॑पं॒ हिर॑ण्यवर्णं सु॒वृतं॑ सुच॒क्रं ।
आ रो॑ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व ॥सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् |
आ रोह सूर्ये अमृतस्य लोकं स्योनम् पत्ये वहतुं कृणुष्व ||sukiṃśukám śalmalím viśvárūpam híraṇyavarṇam suvṛ́tam sucakrám ǀ
ā́ roha sūrye amṛ́tasya lokám syonám pátye vahatúm kṛṇuṣva ǁsukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram |
ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva ||सु॒ऽकिं॒शु॒कम् । श॒ल्म॒लिम् । वि॒श्वऽरू॑पम् । हिर॑ण्यऽवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् ।
आ । रो॒ह॒ । सू॒र्ये॒ । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पत्ये॑ । व॒ह॒तुम् । कृ॒णु॒ष्व॒ ॥सुऽकिंशुकम् । शल्मलिम् । विश्वऽरूपम् । हिरण्यऽवर्णम् । सुऽवृतम् । सुऽचक्रम् ।
आ । रोह । सूर्ये । अमृतस्य । लोकम् । स्योनम् । पत्ये । वहतुम् । कृणुष्व ॥su-kiṃśukám ǀ śalmalím ǀ viśvá-rūpam ǀ híraṇya-varṇam ǀ su-vṛ́tam ǀ su-cakrám ǀ
ā́ ǀ roha ǀ sūrye ǀ amṛ́tasya ǀ lokám ǀ syonám ǀ pátye ǀ vahatúm ǀ kṛṇuṣva ǁsu-kiṃśukam ǀ śalmalim ǀ viśva-rūpam ǀ hiraṇya-varṇam ǀ su-vṛtam ǀ su-cakram ǀ
ā ǀ roha ǀ sūrye ǀ amṛtasya ǀ lokam ǀ syonam ǀ patye ǀ vahatum ǀ kṛṇuṣva ǁ10.85.20 Aṣṭaka 8.3.23.5Anuvāka 10.7.20
-
Ṛk 21
उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॒॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी॑ळे ।
अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ॥उद् ईर्ष्वातः पतिवती ह्य् एषा विश्वावसुं नमसा गीर्भिर् ईळे |
अन्याम् इच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ||údīrṣvā́taḥ pátivatī hyéṣā́ viśvā́vasum námasā gīrbhírīḷe ǀ
anyā́miccha pitṛṣádam vyáktām sá te bhāgó janúṣā tásya viddhi ǁud īrṣvātaḥ pativatī hy eṣā viśvāvasuṃ namasā gīrbhir īḷe |
anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi ||उत् । ई॒र्ष्व॒ । अतः॑ । पति॑ऽवती । हि । ए॒षा । वि॒श्वऽव॑सुम् । नम॑सा । गीः॒ऽभिः । ई॒ळे॒ ।
अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः । ज॒नुषा॑ । तस्य॑ । वि॒द्धि॒ ॥उत् । ईर्ष्व । अतः । पतिऽवती । हि । एषा । विश्वऽवसुम् । नमसा । गीःऽभिः । ईळे ।
अन्याम् । इच्छ । पितृऽसदम् । विऽअक्ताम् । सः । ते । भागः । जनुषा । तस्य । विद्धि ॥út ǀ īrṣva ǀ átaḥ ǀ páti-vatī ǀ hí ǀ eṣā́ ǀ viśvá-vasum ǀ námasā ǀ gīḥ-bhíḥ ǀ īḷe ǀ
anyā́m ǀ iccha ǀ pitṛ-sádam ǀ ví-aktām ǀ sáḥ ǀ te ǀ bhāgáḥ ǀ janúṣā ǀ tásya ǀ viddhi ǁut ǀ īrṣva ǀ ataḥ ǀ pati-vatī ǀ hi ǀ eṣā ǀ viśva-vasum ǀ namasā ǀ gīḥ-bhiḥ ǀ īḷe ǀ
anyām ǀ iccha ǀ pitṛ-sadam ǀ vi-aktām ǀ saḥ ǀ te ǀ bhāgaḥ ǀ januṣā ǀ tasya ǀ viddhi ǁ10.85.21 Aṣṭaka 8.3.24.1Anuvāka 10.7.21
-
Ṛk 22
उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।
अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥उद् ईर्ष्वातो विश्वावसो नमसेऌआ महे त्वा |
अन्याम् इच्छ प्रफर्व्यं सं जायाम् पत्या सृज ||údīrṣvā́to viśvāvaso námaseḷā mahe tvā ǀ
anyā́miccha prapharvyám sám jāyā́m pátyā sṛja ǁud īrṣvāto viśvāvaso namaseḷā mahe tvā |
anyām iccha prapharvyaṃ saṃ jāyām patyā sṛja ||उत् । ई॒र्ष्व॒ । अतः॑ । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒ळा॒म॒हे॒ । त्वा॒ ।
अ॒न्याम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य॑म् । सम् । जा॒याम् । पत्या॑ । सृ॒ज॒ ॥उत् । ईर्ष्व । अतः । विश्ववसो इति विश्वऽवसो । नमसा । ईळामहे । त्वा ।
अन्याम् । इच्छ । प्रऽफर्व्यम् । सम् । जायाम् । पत्या । सृज ॥út ǀ īrṣva ǀ átaḥ ǀ viśvavaso íti viśva-vaso ǀ námasā ǀ īḷāmahe ǀ tvā ǀ
anyā́m ǀ iccha ǀ pra-pharvyám ǀ sám ǀ jāyā́m ǀ pátyā ǀ sṛja ǁut ǀ īrṣva ǀ ataḥ ǀ viśvavaso iti viśva-vaso ǀ namasā ǀ īḷāmahe ǀ tvā ǀ
anyām ǀ iccha ǀ pra-pharvyam ǀ sam ǀ jāyām ǀ patyā ǀ sṛja ǁ10.85.22 Aṣṭaka 8.3.24.2Anuvāka 10.7.22
-
Ṛk 23
अ॒नृ॒क्ष॒रा ऋ॒जवः॑ संतु॒ पंथा॒ येभिः॒ सखा॑यो॒ यंति॑ नो वरे॒यं ।
सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् |
सम् अर्यमा सम् भगो नो निनीयात् सं जास्पत्यं सुयमम् अस्तु देवाः ||anṛkṣarā́ ṛjávaḥ santu pánthā yébhiḥ sákhāyo yánti no vareyám ǀ
sámaryamā́ sám bhágo no ninīyātsám jāspatyám suyámamastu devāḥ ǁanṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti no vareyam |
sam aryamā sam bhago no ninīyāt saṃ jāspatyaṃ suyamam astu devāḥ ||अ॒नृ॒क्ष॒राः । ऋ॒जवः॑ । स॒न्तु॒ । पन्थाः॑ । येभिः॑ । सखा॑यः । यन्ति॑ । नः॒ । व॒रे॒ऽयम् ।
सम् । अ॒र्य॒मा । सम् । भगः॑ । नः॒ । नि॒नी॒या॒त् । सम् । जाः॒ऽप॒त्यम् । सु॒ऽयम॑म् । अ॒स्तु॒ । दे॒वाः॒ ॥अनृक्षराः । ऋजवः । सन्तु । पन्थाः । येभिः । सखायः । यन्ति । नः । वरेऽयम् ।
सम् । अर्यमा । सम् । भगः । नः । निनीयात् । सम् । जाःऽपत्यम् । सुऽयमम् । अस्तु । देवाः ॥anṛkṣarā́ḥ ǀ ṛjávaḥ ǀ santu ǀ pánthāḥ ǀ yébhiḥ ǀ sákhāyaḥ ǀ yánti ǀ naḥ ǀ vare-yám ǀ
sám ǀ aryamā́ ǀ sám ǀ bhágaḥ ǀ naḥ ǀ ninīyāt ǀ sám ǀ jāḥ-patyám ǀ su-yámam ǀ astu ǀ devāḥ ǁanṛkṣarāḥ ǀ ṛjavaḥ ǀ santu ǀ panthāḥ ǀ yebhiḥ ǀ sakhāyaḥ ǀ yanti ǀ naḥ ǀ vare-yam ǀ
sam ǀ aryamā ǀ sam ǀ bhagaḥ ǀ naḥ ǀ ninīyāt ǀ sam ǀ jāḥ-patyam ǀ su-yamam ǀ astu ǀ devāḥ ǁ10.85.23 Aṣṭaka 8.3.24.3Anuvāka 10.7.23
-
Ṛk 24
प्र त्वा॑ मुंचामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवः |
ऋतस्य योनौ सुकृतस्य लोके ऽरिष्टां त्वा सह पत्या दधामि ||prá tvā muñcāmi váruṇasya pā́śādyéna tvā́badhnātsavitā́ suśévaḥ ǀ
ṛtásya yónau sukṛtásya loké’riṣṭām tvā sahá pátyā dadhāmi ǁpra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevaḥ |
ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi ||प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ ।
ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥प्र । त्वा । मुञ्चामि । वरुणस्य । पाशात् । येन । त्वा । अबध्नात् । सविता । सुऽशेवः ।
ऋतस्य । योनौ । सुऽकृतस्य । लोके । अरिष्टाम् । त्वा । सह । पत्या । दधामि ॥prá ǀ tvā ǀ muñcāmi ǀ váruṇasya ǀ pā́śāt ǀ yéna ǀ tvā ǀ ábadhnāt ǀ savitā́ ǀ su-śévaḥ ǀ
ṛtásya ǀ yónau ǀ su-kṛtásya ǀ loké ǀ áriṣṭām ǀ tvā ǀ sahá ǀ pátyā ǀ dadhāmi ǁpra ǀ tvā ǀ muñcāmi ǀ varuṇasya ǀ pāśāt ǀ yena ǀ tvā ǀ abadhnāt ǀ savitā ǀ su-śevaḥ ǀ
ṛtasya ǀ yonau ǀ su-kṛtasya ǀ loke ǀ ariṣṭām ǀ tvā ǀ saha ǀ patyā ǀ dadhāmi ǁ10.85.24 Aṣṭaka 8.3.24.4Anuvāka 10.7.24
-
Ṛk 25
प्रेतो मुं॒चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करं ।
यथे॒यमिं॑द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ॥प्रेतो मुञ्चामि नामुतः सुबद्धाम् अमुतस् करम् |
यथेयम् इन्द्र मीढ्वः सुपुत्रा सुभगासति ||prétó muñcā́mi nā́mútaḥ subaddhā́mamútaskaram ǀ
yátheyámindra mīḍhvaḥ suputrā́ subhágā́sati ǁpreto muñcāmi nāmutaḥ subaddhām amutas karam |
yatheyam indra mīḍhvaḥ suputrā subhagāsati ||प्र । इ॒तः । मु॒ञ्चामि॑ । न । अ॒मुतः॑ । सु॒ऽब॒द्धाम् । अ॒मुतः॑ । क॒र॒म् ।
यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्रा । सु॒ऽभगा॑ । अस॑ति ॥प्र । इतः । मुञ्चामि । न । अमुतः । सुऽबद्धाम् । अमुतः । करम् ।
यथा । इयम् । इन्द्र । मीढ्वः । सुऽपुत्रा । सुऽभगा । असति ॥prá ǀ itáḥ ǀ muñcā́mi ǀ ná ǀ amútaḥ ǀ su-baddhā́m ǀ amútaḥ ǀ karam ǀ
yáthā ǀ iyám ǀ indra ǀ mīḍhvaḥ ǀ su-putrā́ ǀ su-bhágā ǀ ásati ǁpra ǀ itaḥ ǀ muñcāmi ǀ na ǀ amutaḥ ǀ su-baddhām ǀ amutaḥ ǀ karam ǀ
yathā ǀ iyam ǀ indra ǀ mīḍhvaḥ ǀ su-putrā ǀ su-bhagā ǀ asati ǁ10.85.25 Aṣṭaka 8.3.24.5Anuvāka 10.7.25
-
Ṛk 26
पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ॥पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन |
गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथम् आ वदासि ||pūṣā́ tvetó nayatu hastagṛ́hyāśvínā tvā prá vahatām ráthena ǀ
gṛhā́ngaccha gṛhápatnī yáthā́so vaśínī tvám vidáthamā́ vadāsi ǁpūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena |
gṛhān gaccha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi ||पू॒षा । त्वा॒ । इ॒तः । न॒य॒तु॒ । ह॒स्त॒ऽगृह्य॑ । अ॒श्विना॑ । त्वा॒ । प्र । व॒ह॒ता॒म् । रथे॑न ।
गृ॒हान् । ग॒च्छ॒ । गृ॒हऽप॑त्नी । यथा॑ । असः॑ । व॒शिनी॑ । त्वम् । वि॒दथ॑म् । आ । व॒दा॒सि॒ ॥पूषा । त्वा । इतः । नयतु । हस्तऽगृह्य । अश्विना । त्वा । प्र । वहताम् । रथेन ।
गृहान् । गच्छ । गृहऽपत्नी । यथा । असः । वशिनी । त्वम् । विदथम् । आ । वदासि ॥pūṣā́ ǀ tvā ǀ itáḥ ǀ nayatu ǀ hasta-gṛ́hya ǀ aśvínā ǀ tvā ǀ prá ǀ vahatām ǀ ráthena ǀ
gṛhā́n ǀ gaccha ǀ gṛhá-patnī ǀ yáthā ǀ ásaḥ ǀ vaśínī ǀ tvám ǀ vidátham ǀ ā́ ǀ vadāsi ǁpūṣā ǀ tvā ǀ itaḥ ǀ nayatu ǀ hasta-gṛhya ǀ aśvinā ǀ tvā ǀ pra ǀ vahatām ǀ rathena ǀ
gṛhān ǀ gaccha ǀ gṛha-patnī ǀ yathā ǀ asaḥ ǀ vaśinī ǀ tvam ǀ vidatham ǀ ā ǀ vadāsi ǁ10.85.26 Aṣṭaka 8.3.25.1Anuvāka 10.7.26
-
Ṛk 27
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥इह प्रियम् प्रजया ते सम् ऋध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि |
एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथम् आ वदाथः ||ihá priyám prajáyā te sámṛdhyatāmasmíngṛhé gā́rhapatyāya jāgṛhi ǀ
enā́ pátyā tanvám sám sṛjasvā́dhā jívrī vidáthamā́ vadāthaḥ ǁiha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi |
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidatham ā vadāthaḥ ||इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ ।
ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥इह । प्रियम् । प्रऽजया । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि ।
एना । पत्या । तन्वम् । सम् । सृजस्व । अध । जिव्री इति । विदथम् । आ । वदाथः ॥ihá ǀ priyám ǀ pra-jáyā ǀ te ǀ sám ǀ ṛdhyatām ǀ asmín ǀ gṛhé ǀ gā́rha-patyāya ǀ jāgṛhi ǀ
enā́ ǀ pátyā ǀ tanvám ǀ sám ǀ sṛjasva ǀ ádha ǀ jívrī íti ǀ vidátham ǀ ā́ ǀ vadāthaḥ ǁiha ǀ priyam ǀ pra-jayā ǀ te ǀ sam ǀ ṛdhyatām ǀ asmin ǀ gṛhe ǀ gārha-patyāya ǀ jāgṛhi ǀ
enā ǀ patyā ǀ tanvam ǀ sam ǀ sṛjasva ǀ adha ǀ jivrī iti ǀ vidatham ǀ ā ǀ vadāthaḥ ǁ10.85.27 Aṣṭaka 8.3.25.2Anuvāka 10.7.27
-
Ṛk 28
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते ।
एधं॑ते अस्या ज्ञा॒तयः॒ पति॑र्बं॒धेषु॑ बध्यते ॥नीललोहितम् भवति कृत्यासक्तिर् व्य् अज्यते |
एधन्ते अस्या ज्ञातयः पतिर् बन्धेषु बध्यते ||nīlalohitám bhavati kṛtyā́saktírvyájyate ǀ
édhante asyā jñātáyaḥ pátirbandhéṣu badhyate ǁnīlalohitam bhavati kṛtyāsaktir vy ajyate |
edhante asyā jñātayaḥ patir bandheṣu badhyate ||नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ ।
एध॑न्ते । अ॒स्याः॒ । ज्ञा॒तयः॑ । पतिः॑ । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥नीलऽलोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते ।
एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥nīla-lohitám ǀ bhavati ǀ kṛtyā́ ǀ āsaktíḥ ǀ ví ǀ ajyate ǀ
édhante ǀ asyāḥ ǀ jñātáyaḥ ǀ pátiḥ ǀ bandhéṣu ǀ badhyate ǁnīla-lohitam ǀ bhavati ǀ kṛtyā ǀ āsaktiḥ ǀ vi ǀ ajyate ǀ
edhante ǀ asyāḥ ǀ jñātayaḥ ǀ patiḥ ǀ bandheṣu ǀ badhyate ǁ10.85.28 Aṣṭaka 8.3.25.3Anuvāka 10.7.28
-
Ṛk 29
परा॑ देहि शामु॒ल्यं॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्व्या जा॒या वि॑शते॒ पतिं॑ ॥परा देहि शामुल्यम् ब्रह्मभ्यो वि भजा वसु |
कृत्यैषा पद्वती भूत्व्य् आ जाया विशते पतिम् ||párā dehi śāmulyám brahmábhyo ví bhajā vásu ǀ
kṛtyáiṣā́ padvátī bhūtvyā́ jāyā́ viśate pátim ǁparā dehi śāmulyam brahmabhyo vi bhajā vasu |
kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim ||परा॑ । दे॒हि॒ । शा॒मु॒ल्य॑म् । ब्र॒ह्मऽभ्यः॑ । वि । भ॒ज॒ । वसु॑ ।
कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वी । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥परा । देहि । शामुल्यम् । ब्रह्मऽभ्यः । वि । भज । वसु ।
कृत्या । एषा । पत्ऽवती । भूत्वी । आ । जाया । विशते । पतिम् ॥párā ǀ dehi ǀ śāmulyám ǀ brahmá-bhyaḥ ǀ ví ǀ bhaja ǀ vásu ǀ
kṛtyā́ ǀ eṣā́ ǀ pat-vátī ǀ bhūtvī́ ǀ ā́ ǀ jāyā́ ǀ viśate ǀ pátim ǁparā ǀ dehi ǀ śāmulyam ǀ brahma-bhyaḥ ǀ vi ǀ bhaja ǀ vasu ǀ
kṛtyā ǀ eṣā ǀ pat-vatī ǀ bhūtvī ǀ ā ǀ jāyā ǀ viśate ǀ patim ǁ10.85.29 Aṣṭaka 8.3.25.4Anuvāka 10.7.29
-
Ṛk 30
अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
पति॒र्यद्व॒ध्वो॒३॒॑ वास॑सा॒ स्वमंग॑मभि॒धित्स॑ते ॥अश्रीरा तनूर् भवति रुशती पापयामुया |
पतिर् यद् वध्वो वाससा स्वम् अङ्गम् अभिधित्सते ||aśrīrā́ tanū́rbhavati rúśatī pāpáyāmuyā́ ǀ
pátiryádvadhvó vā́sasā svámáṅgamabhidhítsate ǁaśrīrā tanūr bhavati ruśatī pāpayāmuyā |
patir yad vadhvo vāsasā svam aṅgam abhidhitsate ||अ॒श्री॒रा । त॒नूः । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या ।
पतिः॑ । यत् । व॒ध्वः॑ । वास॑सा । स्वम् । अङ्ग॑म् । अ॒भि॒ऽधित्स॑ते ॥अश्रीरा । तनूः । भवति । रुशती । पापया । अमुया ।
पतिः । यत् । वध्वः । वाससा । स्वम् । अङ्गम् । अभिऽधित्सते ॥aśrīrā́ ǀ tanū́ḥ ǀ bhavati ǀ rúśatī ǀ pāpáyā ǀ amuyā́ ǀ
pátiḥ ǀ yát ǀ vadhváḥ ǀ vā́sasā ǀ svám ǀ áṅgam ǀ abhi-dhítsate ǁaśrīrā ǀ tanūḥ ǀ bhavati ǀ ruśatī ǀ pāpayā ǀ amuyā ǀ
patiḥ ǀ yat ǀ vadhvaḥ ǀ vāsasā ǀ svam ǀ aṅgam ǀ abhi-dhitsate ǁ10.85.30 Aṣṭaka 8.3.25.5Anuvāka 10.7.30
-
Ṛk 31
ये व॒ध्व॑श्चं॒द्रं व॑ह॒तुं यक्ष्मा॒ यंति॒ जना॒दनु॑ ।
पुन॒स्तान्य॒ज्ञिया॑ दे॒वा नयं॑तु॒ यत॒ आग॑ताः ॥ये वध्वश् चन्द्रं वहतुं यक्ष्मा यन्ति जनाद् अनु |
पुनस् तान् यज्ञिया देवा नयन्तु यत आगताः ||yé vadhváścandrám vahatúm yákṣmā yánti jánādánu ǀ
púnastā́nyajñíyā devā́ náyantu yáta ā́gatāḥ ǁye vadhvaś candraṃ vahatuṃ yakṣmā yanti janād anu |
punas tān yajñiyā devā nayantu yata āgatāḥ ||ये । व॒ध्वः॑ । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्माः॑ । यन्ति॑ । जना॑त् । अनु॑ ।
पुन॒रिति॑ । तान् । य॒ज्ञियाः॑ । दे॒वाः । नय॑न्तु । यतः॑ । आऽग॑ताः ॥ये । वध्वः । चन्द्रम् । वहतुम् । यक्ष्माः । यन्ति । जनात् । अनु ।
पुनरिति । तान् । यज्ञियाः । देवाः । नयन्तु । यतः । आऽगताः ॥yé ǀ vadhváḥ ǀ candrám ǀ vahatúm ǀ yákṣmāḥ ǀ yánti ǀ jánāt ǀ ánu ǀ
púnaríti ǀ tā́n ǀ yajñíyāḥ ǀ devā́ḥ ǀ náyantu ǀ yátaḥ ǀ ā́-gatāḥ ǁye ǀ vadhvaḥ ǀ candram ǀ vahatum ǀ yakṣmāḥ ǀ yanti ǀ janāt ǀ anu ǀ
punariti ǀ tān ǀ yajñiyāḥ ǀ devāḥ ǀ nayantu ǀ yataḥ ǀ ā-gatāḥ ǁ10.85.31 Aṣṭaka 8.3.26.1Anuvāka 10.7.31
-
Ṛk 32
मा वि॑दन्परिपं॒थिनो॒ य आ॒सीदं॑ति॒ दंप॑ती ।
सु॒गेभि॑र्दु॒र्गमती॑ता॒मप॑ द्रां॒त्वरा॑तयः ॥मा विदन् परिपन्थिनो य आसीदन्ति दम्पती |
सुगेभिर् दुर्गम् अतीताम् अप द्रान्त्व् अरातयः ||mā́ vidanparipanthíno yá āsī́danti dámpatī ǀ
sugébhirdurgámátītāmápa drāntvárātayaḥ ǁmā vidan paripanthino ya āsīdanti dampatī |
sugebhir durgam atītām apa drāntv arātayaḥ ||मा । वि॒द॒न् । प॒रि॒ऽप॒न्थिनः॑ । ये । आ॒ऽसीद॑न्ति॒ । दम्प॑ती॒ इति॒ दम्ऽप॑ती ।
सु॒ऽगेभिः॑ । दुः॒ऽगम् । अति॑ । इ॒ता॒म् । अप॑ । द्रा॒न्तु॒ । अरा॑तयः ॥मा । विदन् । परिऽपन्थिनः । ये । आऽसीदन्ति । दम्पती इति दम्ऽपती ।
सुऽगेभिः । दुःऽगम् । अति । इताम् । अप । द्रान्तु । अरातयः ॥mā́ ǀ vidan ǀ pari-panthínaḥ ǀ yé ǀ ā-sī́danti ǀ dámpatī íti dám-patī ǀ
su-gébhiḥ ǀ duḥ-gám ǀ áti ǀ itām ǀ ápa ǀ drāntu ǀ árātayaḥ ǁmā ǀ vidan ǀ pari-panthinaḥ ǀ ye ǀ ā-sīdanti ǀ dampatī iti dam-patī ǀ
su-gebhiḥ ǀ duḥ-gam ǀ ati ǀ itām ǀ apa ǀ drāntu ǀ arātayaḥ ǁ10.85.32 Aṣṭaka 8.3.26.2Anuvāka 10.7.32
-
Ṛk 33
सु॒मं॒ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥सुमङ्गलीर् इयं वधूर् इमां समेत पश्यत |
सौभाग्यम् अस्यै दत्त्वायाथास्तं वि परेतन ||sumaṅgalī́riyám vadhū́rimā́m saméta páśyata ǀ
sáubhāgyamasyai dattvā́yā́thā́stam ví páretana ǁsumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata |
saubhāgyam asyai dattvāyāthāstaṃ vi paretana ||सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त ।
सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥सुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत ।
सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥su-maṅgalī́ḥ ǀ iyám ǀ vadhū́ḥ ǀ imā́m ǀ sam-éta ǀ páśyata ǀ
sáubhāgyam ǀ asyai ǀ dattvā́ya ǀ átha ǀ ástam ǀ ví ǀ párā ǀ itana ǁsu-maṅgalīḥ ǀ iyam ǀ vadhūḥ ǀ imām ǀ sam-eta ǀ paśyata ǀ
saubhāgyam ǀ asyai ǀ dattvāya ǀ atha ǀ astam ǀ vi ǀ parā ǀ itana ǁ10.85.33 Aṣṭaka 8.3.26.3Anuvāka 10.7.33
-
Ṛk 34
तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू॑यमर्हति ॥तृष्टम् एतत् कटुकम् एतद् अपाष्ठवद् विषवन् नैतद् अत्तवे |
सूर्यां यो ब्रह्मा विद्यात् स इद् वाधूयम् अर्हति ||tṛṣṭámetátkáṭukametádapāṣṭhávadviṣávannáitádáttave ǀ
sūryā́m yó brahmā́ vidyā́tsá ídvā́dhūyamarhati ǁtṛṣṭam etat kaṭukam etad apāṣṭhavad viṣavan naitad attave |
sūryāṃ yo brahmā vidyāt sa id vādhūyam arhati ||तृ॒ष्टम् । ए॒तत् । कटु॑कम् । ए॒तत् । अ॒पा॒ष्ठऽव॑त् । वि॒षऽव॑त् । न । ए॒तत् । अत्त॑वे ।
सू॒र्याम् । यः । ब्र॒ह्मा । वि॒द्यात् । सः । इत् । वाधू॑ऽयम् । अ॒र्ह॒ति॒ ॥तृष्टम् । एतत् । कटुकम् । एतत् । अपाष्ठऽवत् । विषऽवत् । न । एतत् । अत्तवे ।
सूर्याम् । यः । ब्रह्मा । विद्यात् । सः । इत् । वाधूऽयम् । अर्हति ॥tṛṣṭám ǀ etát ǀ káṭukam ǀ etát ǀ apāṣṭhá-vat ǀ viṣá-vat ǀ ná ǀ etát ǀ áttave ǀ
sūryā́m ǀ yáḥ ǀ brahmā́ ǀ vidyā́t ǀ sáḥ ǀ ít ǀ vā́dhū-yam ǀ arhati ǁtṛṣṭam ǀ etat ǀ kaṭukam ǀ etat ǀ apāṣṭha-vat ǀ viṣa-vat ǀ na ǀ etat ǀ attave ǀ
sūryām ǀ yaḥ ǀ brahmā ǀ vidyāt ǀ saḥ ǀ it ǀ vādhū-yam ǀ arhati ǁ10.85.34 Aṣṭaka 8.3.26.4Anuvāka 10.7.34
-
Ṛk 35
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नं ।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शुं॑धति ॥आशसनं विशसनम् अथो अधिविकर्तनम् |
सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ||āśásanam viśásanamátho adhivikártanam ǀ
sūryā́yāḥ paśya rūpā́ṇi tā́ni brahmā́ tú śundhati ǁāśasanaṃ viśasanam atho adhivikartanam |
sūryāyāḥ paśya rūpāṇi tāni brahmā tu śundhati ||आ॒ऽशस॑नम् । वि॒ऽशस॑नम् । अथो॒ इति॑ । अ॒धि॒ऽवि॒कर्त॑नम् ।
सू॒र्यायाः॑ । प॒श्य॒ । रू॒पाणि॑ । तानि॑ । ब्र॒ह्मा । तु । शु॒न्ध॒ति॒ ॥आऽशसनम् । विऽशसनम् । अथो इति । अधिऽविकर्तनम् ।
सूर्यायाः । पश्य । रूपाणि । तानि । ब्रह्मा । तु । शुन्धति ॥ā-śásanam ǀ vi-śásanam ǀ átho íti ǀ adhi-vikártanam ǀ
sūryā́yāḥ ǀ paśya ǀ rūpā́ṇi ǀ tā́ni ǀ brahmā́ ǀ tú ǀ śundhati ǁā-śasanam ǀ vi-śasanam ǀ atho iti ǀ adhi-vikartanam ǀ
sūryāyāḥ ǀ paśya ǀ rūpāṇi ǀ tāni ǀ brahmā ǀ tu ǀ śundhati ǁ10.85.35 Aṣṭaka 8.3.26.5Anuvāka 10.7.35
-
Ṛk 36
गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र्यथासः॑ ।
भगो॑ अर्य॒मा स॑वि॒ता पुरं॑धि॒र्मह्यं॑ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ॥गृभ्णामि ते सौभगत्वाय हस्तम् मया पत्या जरदष्टिर् यथासः |
भगो अर्यमा सविता पुरन्धिर् मह्यं त्वादुर् गार्हपत्याय देवाः ||gṛbhṇā́mi te saubhagatvā́ya hástam máyā pátyā jarádaṣṭiryáthā́saḥ ǀ
bhágo aryamā́ savitā́ púraṃdhirmáhyam tvādurgā́rhapatyāya devā́ḥ ǁgṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ |
bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ ||गृ॒भ्णामि॑ । ते॒ । सौ॒भ॒ग॒ऽत्वाय॑ । हस्त॑म् । मया॑ । पत्या॑ । ज॒रत्ऽअ॑ष्टिः । यथा॑ । असः॑ ।
भगः॑ । अ॒र्य॒मा । स॒वि॒ता । पुर॑म्ऽधिः । मह्य॑म् । त्वा॒ । अ॒दुः॒ । गार्ह॑ऽपत्याय । दे॒वाः ॥गृभ्णामि । ते । सौभगऽत्वाय । हस्तम् । मया । पत्या । जरत्ऽअष्टिः । यथा । असः ।
भगः । अर्यमा । सविता । पुरम्ऽधिः । मह्यम् । त्वा । अदुः । गार्हऽपत्याय । देवाः ॥gṛbhṇā́mi ǀ te ǀ saubhaga-tvā́ya ǀ hástam ǀ máyā ǀ pátyā ǀ jarát-aṣṭiḥ ǀ yáthā ǀ ásaḥ ǀ
bhágaḥ ǀ aryamā́ ǀ savitā́ ǀ púram-dhiḥ ǀ máhyam ǀ tvā ǀ aduḥ ǀ gā́rha-patyāya ǀ devā́ḥ ǁgṛbhṇāmi ǀ te ǀ saubhaga-tvāya ǀ hastam ǀ mayā ǀ patyā ǀ jarat-aṣṭiḥ ǀ yathā ǀ asaḥ ǀ
bhagaḥ ǀ aryamā ǀ savitā ǀ puram-dhiḥ ǀ mahyam ǀ tvā ǀ aduḥ ǀ gārha-patyāya ǀ devāḥ ǁ10.85.36 Aṣṭaka 8.3.27.1Anuvāka 10.7.36
-
Ṛk 37
तां पू॑षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒३॒॑ वपं॑ति ।
या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया॑ते॒ यस्या॑मु॒शंतः॑ प्र॒हरा॑म॒ शेपं॑ ॥ताम् पूषञ् छिवतमाम् एरयस्व यस्याम् बीजम् मनुष्या वपन्ति |
या न ऊरू उशती विश्रयाते यस्याम् उशन्तः प्रहराम शेपम् ||tā́m pūṣañchivátamāmérayasva yásyām bī́jam manuṣyā́ vápanti ǀ
yā́ na ūrū́ uśatī́ viśráyāte yásyāmuśántaḥ prahárāma śépam ǁtām pūṣañ chivatamām erayasva yasyām bījam manuṣyā vapanti |
yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam ||ताम् । पू॒ष॒न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्याः॑ । वप॑न्ति ।
या । नः॒ । ऊ॒रू इति॑ । उ॒श॒ती । वि॒ऽश्रया॑ते । यस्या॑म् । उ॒शन्तः॑ । प्र॒ऽहरा॑म । शेप॑म् ॥ताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्याः । वपन्ति ।
या । नः । ऊरू इति । उशती । विऽश्रयाते । यस्याम् । उशन्तः । प्रऽहराम । शेपम् ॥tā́m ǀ pūṣan ǀ śivá-tamām ǀ ā́ ǀ īrayasva ǀ yásyām ǀ bī́jam ǀ manuṣyā́ḥ ǀ vápanti ǀ
yā́ ǀ naḥ ǀ ūrū́ íti ǀ uśatī́ ǀ vi-śráyāte ǀ yásyām ǀ uśántaḥ ǀ pra-hárāma ǀ śépam ǁtām ǀ pūṣan ǀ śiva-tamām ǀ ā ǀ īrayasva ǀ yasyām ǀ bījam ǀ manuṣyāḥ ǀ vapanti ǀ
yā ǀ naḥ ǀ ūrū iti ǀ uśatī ǀ vi-śrayāte ǀ yasyām ǀ uśantaḥ ǀ pra-harāma ǀ śepam ǁ10.85.37 Aṣṭaka 8.3.27.2Anuvāka 10.7.37
-
Ṛk 38
तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह ॥तुभ्यम् अग्रे पर्य् अवहन् सूर्यां वहतुना सह |
पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ||túbhyamágre páryavahantsūryā́m vahatúnā sahá ǀ
púnaḥ pátibhyo jāyā́m dā́ agne prajáyā sahá ǁtubhyam agre pary avahan sūryāṃ vahatunā saha |
punaḥ patibhyo jāyāṃ dā agne prajayā saha ||तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह ।
पुन॒रिति॑ । पति॑ऽभ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒ऽजया॑ । स॒ह ॥तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह ।
पुनरिति । पतिऽभ्यः । जायाम् । दाः । अग्ने । प्रऽजया । सह ॥túbhyam ǀ ágre ǀ pári ǀ avahan ǀ sūryā́m ǀ vahatúnā ǀ sahá ǀ
púnaríti ǀ páti-bhyaḥ ǀ jāyā́m ǀ dā́ḥ ǀ agne ǀ pra-jáyā ǀ sahá ǁtubhyam ǀ agre ǀ pari ǀ avahan ǀ sūryām ǀ vahatunā ǀ saha ǀ
punariti ǀ pati-bhyaḥ ǀ jāyām ǀ dāḥ ǀ agne ǀ pra-jayā ǀ saha ǁ10.85.38 Aṣṭaka 8.3.27.3Anuvāka 10.7.38
-
Ṛk 39
पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तं ॥पुनः पत्नीम् अग्निर् अदाद् आयुषा सह वर्चसा |
दीर्घायुर् अस्या यः पतिर् जीवाति शरदः शतम् ||púnaḥ pátnīmagníradādā́yuṣā sahá várcasā ǀ
dīrghā́yurasyā yáḥ pátirjī́vāti śarádaḥ śatám ǁpunaḥ patnīm agnir adād āyuṣā saha varcasā |
dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam ||पुन॒रिति॑ । पत्नी॑म् । अ॒ग्निः । अ॒दा॒त् । आयु॑षा । स॒ह । वर्च॑सा ।
दी॒र्घऽआ॑युः । अ॒स्याः॒ । यः । पतिः॑ । जीवा॑ति । श॒रदः॑ । श॒तम् ॥पुनरिति । पत्नीम् । अग्निः । अदात् । आयुषा । सह । वर्चसा ।
दीर्घऽआयुः । अस्याः । यः । पतिः । जीवाति । शरदः । शतम् ॥púnaríti ǀ pátnīm ǀ agníḥ ǀ adāt ǀ ā́yuṣā ǀ sahá ǀ várcasā ǀ
dīrghá-āyuḥ ǀ asyāḥ ǀ yáḥ ǀ pátiḥ ǀ jī́vāti ǀ śarádaḥ ǀ śatám ǁpunariti ǀ patnīm ǀ agniḥ ǀ adāt ǀ āyuṣā ǀ saha ǀ varcasā ǀ
dīrgha-āyuḥ ǀ asyāḥ ǀ yaḥ ǀ patiḥ ǀ jīvāti ǀ śaradaḥ ǀ śatam ǁ10.85.39 Aṣṭaka 8.3.27.4Anuvāka 10.7.39
-
Ṛk 40
सोमः॑ प्रथ॒मो वि॑विदे गंध॒र्वो वि॑विद॒ उत्त॑रः ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ॥सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः |
तृतीयो अग्निष् टे पतिस् तुरीयस् ते मनुष्यजाः ||sómaḥ prathamó vivide gandharvó vivida úttaraḥ ǀ
tṛtī́yo agníṣṭe pátisturī́yaste manuṣyajā́ḥ ǁsomaḥ prathamo vivide gandharvo vivida uttaraḥ |
tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ ||सोमः॑ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्ऽत॑रः ।
तृ॒तीयः॑ । अ॒ग्निः । ते॒ । पतिः॑ । तु॒रीयः॑ । ते॒ । म॒नु॒ष्य॒ऽजाः ॥सोमः । प्रथमः । विविदे । गन्धर्वः । विविदे । उत्ऽतरः ।
तृतीयः । अग्निः । ते । पतिः । तुरीयः । ते । मनुष्यऽजाः ॥sómaḥ ǀ prathamáḥ ǀ vivide ǀ gandharváḥ ǀ vivide ǀ út-taraḥ ǀ
tṛtī́yaḥ ǀ agníḥ ǀ te ǀ pátiḥ ǀ turī́yaḥ ǀ te ǀ manuṣya-jā́ḥ ǁsomaḥ ǀ prathamaḥ ǀ vivide ǀ gandharvaḥ ǀ vivide ǀ ut-taraḥ ǀ
tṛtīyaḥ ǀ agniḥ ǀ te ǀ patiḥ ǀ turīyaḥ ǀ te ǀ manuṣya-jāḥ ǁ10.85.40 Aṣṭaka 8.3.27.5Anuvāka 10.7.40
-
Ṛk 41
सोमो॑ ददद्गंध॒र्वाय॑ गंध॒र्वो द॑दद॒ग्नये॑ ।
र॒यिं च॑ पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒मां ॥सोमो ददद् गन्धर्वाय गन्धर्वो ददद् अग्नये |
रयिं च पुत्रांश् चादाद् अग्निर् मह्यम् अथो इमाम् ||sómo dadadgandharvā́ya gandharvó dadadagnáye ǀ
rayím ca putrā́ṃścādādagnírmáhyamátho imā́m ǁsomo dadad gandharvāya gandharvo dadad agnaye |
rayiṃ ca putrāṃś cādād agnir mahyam atho imām ||सोमः॑ । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये॑ ।
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥सोमः । ददत् । गन्धर्वाय । गन्धर्वः । ददत् । अग्नये ।
रयिम् । च । पुत्रान् । च । अदात् । अग्निः । मह्यम् । अथो इति । इमाम् ॥sómaḥ ǀ dadat ǀ gandharvā́ya ǀ gandharváḥ ǀ dadat ǀ agnáye ǀ
rayím ǀ ca ǀ putrā́n ǀ ca ǀ adāt ǀ agníḥ ǀ máhyam ǀ átho íti ǀ imā́m ǁsomaḥ ǀ dadat ǀ gandharvāya ǀ gandharvaḥ ǀ dadat ǀ agnaye ǀ
rayim ǀ ca ǀ putrān ǀ ca ǀ adāt ǀ agniḥ ǀ mahyam ǀ atho iti ǀ imām ǁ10.85.41 Aṣṭaka 8.3.28.1Anuvāka 10.7.41
-
Ṛk 42
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतं ।
क्रीळं॑तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ॥इहैव स्तम् मा वि यौष्टं विश्वम् आयुर् व्य् अश्नुतम् |
क्रीऌअन्तौ पुत्रैर् नप्तृभिर् मोदमानौ स्वे गृहे ||iháivá stam mā́ ví yauṣṭam víśvamā́yurvyáśnutam ǀ
krī́ḷantau putráirnáptṛbhirmódamānau své gṛhé ǁihaiva stam mā vi yauṣṭaṃ viśvam āyur vy aśnutam |
krīḷantau putrair naptṛbhir modamānau sve gṛhe ||इ॒ह । ए॒व । स्त॒म् । मा । वि । यौ॒ष्ट॒म् । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒त॒म् ।
क्रीळ॑न्तौ । पु॒त्रैः । नप्तृ॑ऽभिः । मोद॑मानौ । स्वे । गृ॒हे ॥इह । एव । स्तम् । मा । वि । यौष्टम् । विश्वम् । आयुः । वि । अश्नुतम् ।
क्रीळन्तौ । पुत्रैः । नप्तृऽभिः । मोदमानौ । स्वे । गृहे ॥ihá ǀ evá ǀ stam ǀ mā́ ǀ ví ǀ yauṣṭam ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnutam ǀ
krī́ḷantau ǀ putráiḥ ǀ náptṛ-bhiḥ ǀ módamānau ǀ své ǀ gṛhé ǁiha ǀ eva ǀ stam ǀ mā ǀ vi ǀ yauṣṭam ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnutam ǀ
krīḷantau ǀ putraiḥ ǀ naptṛ-bhiḥ ǀ modamānau ǀ sve ǀ gṛhe ǁ10.85.42 Aṣṭaka 8.3.28.2Anuvāka 10.7.42
-
Ṛk 43
आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा ।
अदु॑र्मंगलीः पतिलो॒कमा वि॑श॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥आ नः प्रजां जनयतु प्रजापतिर् आजरसाय सम् अनक्त्व् अर्यमा |
अदुर्मङ्गलीः पतिलोकम् आ विश शं नो भव द्विपदे शं चतुष्पदे ||ā́ naḥ prajā́m janayatu prajā́patirājarasā́ya sámanaktvaryamā́ ǀ
ádurmaṅgalīḥ patilokámā́ viśa śám no bhava dvipáde śám cátuṣpade ǁā naḥ prajāṃ janayatu prajāpatir ājarasāya sam anaktv aryamā |
adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade ||आ । नः॒ । प्र॒ऽजाम् । ज॒न॒य॒तु॒ । प्र॒जाऽप॑तिः । आ॒ऽज॒र॒साय॑ । सम् । अ॒न॒क्तु॒ । अ॒र्य॒मा ।
अदुः॑ऽमङ्गलीः । प॒ति॒ऽलो॒कम् । आ । वि॒श॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥आ । नः । प्रऽजाम् । जनयतु । प्रजाऽपतिः । आऽजरसाय । सम् । अनक्तु । अर्यमा ।
अदुःऽमङ्गलीः । पतिऽलोकम् । आ । विश । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥ā́ ǀ naḥ ǀ pra-jā́m ǀ janayatu ǀ prajā́-patiḥ ǀ ā-jarasā́ya ǀ sám ǀ anaktu ǀ aryamā́ ǀ
áduḥ-maṅgalīḥ ǀ pati-lokám ǀ ā́ ǀ viśa ǀ śám ǀ naḥ ǀ bhava ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁā ǀ naḥ ǀ pra-jām ǀ janayatu ǀ prajā-patiḥ ǀ ā-jarasāya ǀ sam ǀ anaktu ǀ aryamā ǀ
aduḥ-maṅgalīḥ ǀ pati-lokam ǀ ā ǀ viśa ǀ śam ǀ naḥ ǀ bhava ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ10.85.43 Aṣṭaka 8.3.28.3Anuvāka 10.7.43
-
Ṛk 44
अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑ ।
वी॒र॒सूर्दे॒वका॑मा स्यो॒ना शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥अघोरचक्षुर् अपतिघ्न्य् एधि शिवा पशुभ्यः सुमनाः सुवर्चाः |
वीरसूर् देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ||ághoracakṣurápatighnyedhi śivā́ paśúbhyaḥ sumánāḥ suvárcāḥ ǀ
vīrasū́rdevákāmā syonā́ śám no bhava dvipáde śám cátuṣpade ǁaghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ |
vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade ||अघो॑रऽचक्षुः । अप॑तिऽघ्नी । ए॒धि॒ । शि॒वा । प॒शुऽभ्यः॑ । सु॒ऽमनाः॑ । सु॒ऽवर्चाः॑ ।
वी॒र॒ऽसूः । दे॒वऽका॑मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥अघोरऽचक्षुः । अपतिऽघ्नी । एधि । शिवा । पशुऽभ्यः । सुऽमनाः । सुऽवर्चाः ।
वीरऽसूः । देवऽकामा । स्योना । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥ághora-cakṣuḥ ǀ ápati-ghnī ǀ edhi ǀ śivā́ ǀ paśú-bhyaḥ ǀ su-mánāḥ ǀ su-várcāḥ ǀ
vīra-sū́ḥ ǀ devá-kāmā ǀ syonā́ ǀ śám ǀ naḥ ǀ bhava ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁaghora-cakṣuḥ ǀ apati-ghnī ǀ edhi ǀ śivā ǀ paśu-bhyaḥ ǀ su-manāḥ ǀ su-varcāḥ ǀ
vīra-sūḥ ǀ deva-kāmā ǀ syonā ǀ śam ǀ naḥ ǀ bhava ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ10.85.44 Aṣṭaka 8.3.28.4Anuvāka 10.7.44
-
Ṛk 45
इ॒मां त्वमिं॑द्र मीढ्वः सुपु॒त्रां सु॒भगां॑ कृणु ।
दशा॑स्यां पु॒त्राना धे॑हि॒ पति॑मेकाद॒शं कृ॑धि ॥इमां त्वम् इन्द्र मीढ्वः सुपुत्रां सुभगां कृणु |
दशास्याम् पुत्रान् आ धेहि पतिम् एकादशं कृधि ||imā́m tvámindra mīḍhvaḥ suputrā́m subhágām kṛṇu ǀ
dáśāsyām putrā́nā́ dhehi pátimekādaśám kṛdhi ǁimāṃ tvam indra mīḍhvaḥ suputrāṃ subhagāṃ kṛṇu |
daśāsyām putrān ā dhehi patim ekādaśaṃ kṛdhi ||इ॒माम् । त्वम् । इ॒न्द्र॒ । मी॒ढ्वः॒ । सु॒ऽपु॒त्राम् । सु॒ऽभगा॑म् । कृ॒णु॒ ।
दश॑ । अ॒स्या॒म् । पु॒त्रान् । आ । धे॒हि॒ । पति॑म् । ए॒का॒द॒शम् । कृ॒धि॒ ॥इमाम् । त्वम् । इन्द्र । मीढ्वः । सुऽपुत्राम् । सुऽभगाम् । कृणु ।
दश । अस्याम् । पुत्रान् । आ । धेहि । पतिम् । एकादशम् । कृधि ॥imā́m ǀ tvám ǀ indra ǀ mīḍhvaḥ ǀ su-putrā́m ǀ su-bhágām ǀ kṛṇu ǀ
dáśa ǀ asyām ǀ putrā́n ǀ ā́ ǀ dhehi ǀ pátim ǀ ekādaśám ǀ kṛdhi ǁimām ǀ tvam ǀ indra ǀ mīḍhvaḥ ǀ su-putrām ǀ su-bhagām ǀ kṛṇu ǀ
daśa ǀ asyām ǀ putrān ǀ ā ǀ dhehi ǀ patim ǀ ekādaśam ǀ kṛdhi ǁ10.85.45 Aṣṭaka 8.3.28.5Anuvāka 10.7.45
-
Ṛk 46
स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।
ननां॑दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वाम् भव |
ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ||samrā́jñī śváśure bhava samrā́jñī śvaśrvā́m bhava ǀ
nánāndari samrā́jñī bhava samrā́jñī ádhi devṛ́ṣu ǁsamrājñī śvaśure bhava samrājñī śvaśrvām bhava |
nanāndari samrājñī bhava samrājñī adhi devṛṣu ||स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ ।
नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥सम्ऽराज्ञी । श्वशुरे । भव । सम्ऽराज्ञी । श्वश्र्वाम् । भव ।
ननान्दरि । सम्ऽराज्ञी । भव । सम्ऽराज्ञी । अधि । देवृषु ॥sam-rā́jñī ǀ śváśure ǀ bhava ǀ sam-rā́jñī ǀ śvaśrvā́m ǀ bhava ǀ
nánāndari ǀ sam-rā́jñī ǀ bhava ǀ sam-rā́jñī ǀ ádhi ǀ devṛ́ṣu ǁsam-rājñī ǀ śvaśure ǀ bhava ǀ sam-rājñī ǀ śvaśrvām ǀ bhava ǀ
nanāndari ǀ sam-rājñī ǀ bhava ǀ sam-rājñī ǀ adhi ǀ devṛṣu ǁ10.85.46 Aṣṭaka 8.3.28.6Anuvāka 10.7.46
-
Ṛk 47
समं॑जंतु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥सम् अञ्जन्तु विश्वे देवाः सम् आपो हृदयानि नौ |
सम् मातरिश्वा सं धाता सम् उ देष्ट्री दधातु नौ ||sámañjantu víśve devā́ḥ sámā́po hṛ́dayāni nau ǀ
sám mātaríśvā sám dhātā́ sámu déṣṭrī dadhātu nau ǁsam añjantu viśve devāḥ sam āpo hṛdayāni nau |
sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau ||सम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ ।
सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊं॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥सम् । अञ्जन्तु । विश्वे । देवाः । सम् । आपः । हृदयानि । नौ ।
सम् । मातरिश्वा । सम् । धाता । सम् । ऊं इति । देष्ट्री । दधातु । नौ ॥sám ǀ añjantu ǀ víśve ǀ devā́ḥ ǀ sám ǀ ā́paḥ ǀ hṛ́dayāni ǀ nau ǀ
sám ǀ mātaríśvā ǀ sám ǀ dhātā́ ǀ sám ǀ ūṃ íti ǀ déṣṭrī ǀ dadhātu ǀ nau ǁsam ǀ añjantu ǀ viśve ǀ devāḥ ǀ sam ǀ āpaḥ ǀ hṛdayāni ǀ nau ǀ
sam ǀ mātariśvā ǀ sam ǀ dhātā ǀ sam ǀ ūṃ iti ǀ deṣṭrī ǀ dadhātu ǀ nau ǁ10.85.47 Aṣṭaka 8.3.28.7Anuvāka 10.7.47
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.