Ṛgveda · Maṇḍala 10 · Sūkta 85
Ṛk 10.85.7
Saṃhitā
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यंज॑नं ।
द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया॑त्सू॒र्या पतिं॑ ॥
चित्तिर् आ उपबर्हणं चक्षुर् आ अभ्यञ्जनम् |
द्यौर् भूमिः कोश आसीद् यद् अयात् सूर्या पतिम् ||
cíttirā upabárhaṇam cákṣurā abhyáñjanam ǀ
dyáurbhū́miḥ kóśa āsīdyádáyātsūryā́ pátim ǁ
cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam |
dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||
Padapāṭha
चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् ।
द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥
चित्तिः । आः । उपऽबर्हणम् । चक्षुः । आः । अभिऽअञ्जनम् ।
द्यौः । भूमिः । कोशः । आसीत् । यत् । अयात् । सूर्या । पतिम् ॥
cíttiḥ ǀ āḥ ǀ upa-bárhaṇam ǀ cákṣuḥ ǀ āḥ ǀ abhi-áñjanam ǀ
dyáuḥ ǀ bhū́miḥ ǀ kóśaḥ ǀ āsīt ǀ yát ǀ áyāt ǀ sūryā́ ǀ pátim ǁ
cittiḥ ǀ āḥ ǀ upa-barhaṇam ǀ cakṣuḥ ǀ āḥ ǀ abhi-añjanam ǀ
dyauḥ ǀ bhūmiḥ ǀ kośaḥ ǀ āsīt ǀ yat ǀ ayāt ǀ sūryā ǀ patim ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.085.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.3.21.02
- Maṇḍala · Anuvāka · Ṛk
- 10.07.007
- Devatā देवता
- 1-5: Soma; 6-16, 32-47: Sūryā; 17: Devās; 18: Soma, Arka; 19: Candramāḥ; 20-28: Wedding Mantras And Good Wishes Of Men; 29-31: A Censure Of Contact With A Bride’s Clothing
- Ṛṣi ऋषि
- Sūryā Sāvitrī
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Jagatī, Urobṛhatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.