Sūkta 122
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Citramahas Vāsiṣṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛjjgatī (3, 8); nicṛjjagatī (4, 6); triṣṭup (1); jagatī (2); nicṛttriṣṭup (5); svarāḍārcījagatī (7)
2nd set of styles jagatī (2-4, 6-8); triṣṭubh (1, 5)
-
Ṛk 1
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यं ।
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्यं॑ ॥वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् |
स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ||vásum ná citrámahasam gṛṇīṣe vāmám śévamátithimadviṣeṇyám ǀ
sá rāsate śurúdho viśvádhāyaso’gnírhótā gṛhápatiḥ suvī́ryam ǁvasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam |
sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam ||वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।
सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् ।
सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥vásum ǀ ná ǀ citrá-mahasam ǀ gṛṇīṣe ǀ vāmám ǀ śévam ǀ átithim ǀ adviṣeṇyám ǀ
sáḥ ǀ rāsate ǀ śurúdhaḥ ǀ viśvá-dhāyasaḥ ǀ agníḥ ǀ hótā ǀ gṛhá-patiḥ ǀ su-vī́ryam ǁvasum ǀ na ǀ citra-mahasam ǀ gṛṇīṣe ǀ vāmam ǀ śevam ǀ atithim ǀ adviṣeṇyam ǀ
saḥ ǀ rāsate ǀ śurudhaḥ ǀ viśva-dhāyasaḥ ǀ agniḥ ǀ hotā ǀ gṛha-patiḥ ǀ su-vīryam ǁ10.122.1 Aṣṭaka 8.7.5.1Anuvāka 10.10.89
-
Ṛk 2
जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।
घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तं ॥जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान् वयुनानि सुक्रतो |
घृतनिर्णिग् ब्रह्मणे गातुम् एरय तव देवा अजनयन्न् अनु व्रतम् ||juṣāṇó agne práti harya me váco víśvāni vidvā́nvayúnāni sukrato ǀ
ghṛ́tanirṇigbráhmaṇe gātúméraya táva devā́ ajanayannánu vratám ǁjuṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato |
ghṛtanirṇig brahmaṇe gātum eraya tava devā ajanayann anu vratam ||जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो ।
घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥juṣāṇáḥ ǀ agne ǀ práti ǀ harya ǀ me ǀ vácaḥ ǀ víśvāni ǀ vidvā́n ǀ vayúnāni ǀ sukrato íti su-krato ǀ
ghṛ́ta-nirnik ǀ bráhmaṇe ǀ gātúm ǀ ā́ ǀ īraya ǀ táva ǀ devā́ḥ ǀ ajanayan ǀ ánu ǀ vratám ǁjuṣāṇaḥ ǀ agne ǀ prati ǀ harya ǀ me ǀ vacaḥ ǀ viśvāni ǀ vidvān ǀ vayunāni ǀ sukrato iti su-krato ǀ
ghṛta-nirnik ǀ brahmaṇe ǀ gātum ǀ ā ǀ īraya ǀ tava ǀ devāḥ ǀ ajanayan ǀ anu ǀ vratam ǁ10.122.2 Aṣṭaka 8.7.5.2Anuvāka 10.10.90
-
Ṛk 3
स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।
सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥सप्त धामानि परियन्न् अमर्त्यो दाशद् दाशुषे सुकृते मामहस्व |
सुवीरेण रयिणाग्ने स्वाभुवा यस् त आनट् समिधा तं जुषस्व ||saptá dhā́māni pariyánnámartyo dā́śaddāśúṣe sukṛ́te māmahasva ǀ
suvī́reṇa rayíṇāgne svābhúvā yásta ā́naṭ samídhā tám juṣasva ǁsapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva |
suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva ||स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ ।
सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥सप्त । धामानि । परिऽयन् । अमर्त्यः । दाशत् । दाशुषे । सुऽकृते । ममहस्व ।
सुऽवीरेण । रयिणा । अग्ने । सुऽआभुवा । यः । ते । आनट् । सम्ऽइधा । तम् । जुषस्व ॥saptá ǀ dhā́māni ǀ pari-yán ǀ ámartyaḥ ǀ dā́śat ǀ dāśúṣe ǀ su-kṛ́te ǀ mamahasva ǀ
su-vī́reṇa ǀ rayíṇā ǀ agne ǀ su-ābhúvā ǀ yáḥ ǀ te ǀ ā́naṭ ǀ sam-ídhā ǀ tám ǀ juṣasva ǁsapta ǀ dhāmāni ǀ pari-yan ǀ amartyaḥ ǀ dāśat ǀ dāśuṣe ǀ su-kṛte ǀ mamahasva ǀ
su-vīreṇa ǀ rayiṇā ǀ agne ǀ su-ābhuvā ǀ yaḥ ǀ te ǀ ānaṭ ǀ sam-idhā ǀ tam ǀ juṣasva ǁ10.122.3 Aṣṭaka 8.7.5.3Anuvāka 10.10.91
-
Ṛk 4
य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्मं॑त ईळते स॒प्त वा॒जिनं॑ ।
शृ॒ण्वंत॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णंतं॑ दे॒वं पृ॑ण॒ते सु॒वीर्यं॑ ॥यज्ञस्य केतुम् प्रथमम् पुरोहितं हविष्मन्त ईऌअते सप्त वाजिनम् |
शृण्वन्तम् अग्निं घृतपृष्ठम् उक्षणम् पृणन्तं देवम् पृणते सुवीर्यम् ||yajñásya ketúm prathamám puróhitam havíṣmanta īḷate saptá vājínam ǀ
śṛṇvántamagním ghṛtápṛṣṭhamukṣáṇam pṛṇántam devám pṛṇaté suvī́ryam ǁyajñasya ketum prathamam purohitaṃ haviṣmanta īḷate sapta vājinam |
śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam ||य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् ।
शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् ।
शृण्वन्तम् । अग्निम् । घृतऽपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुऽवीर्यम् ॥yajñásya ǀ ketúm ǀ prathamám ǀ puráḥ-hitam ǀ havíṣmantaḥ ǀ īḷate ǀ saptá ǀ vājínam ǀ
śṛṇvántam ǀ agním ǀ ghṛtá-pṛṣṭham ǀ ukṣáṇam ǀ pṛṇántam ǀ devám ǀ pṛṇaté ǀ su-vī́ryam ǁyajñasya ǀ ketum ǀ prathamam ǀ puraḥ-hitam ǀ haviṣmantaḥ ǀ īḷate ǀ sapta ǀ vājinam ǀ
śṛṇvantam ǀ agnim ǀ ghṛta-pṛṣṭham ǀ ukṣaṇam ǀ pṛṇantam ǀ devam ǀ pṛṇate ǀ su-vīryam ǁ10.122.4 Aṣṭaka 8.7.5.4Anuvāka 10.10.92
-
Ṛk 5
त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।
त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व |
त्वाम् मर्जयन् मरुतो दाशुषो गृहे त्वां स्तोमेभिर् भृगवो वि रुरुचुः ||tvám dūtáḥ prathamó váreṇyaḥ sá hūyámāno amṛ́tāya matsva ǀ
tvā́m marjayanmarúto dāśúṣo gṛhé tvā́m stómebhirbhṛ́gavo ví rurucuḥ ǁtvaṃ dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva |
tvām marjayan maruto dāśuṣo gṛhe tvāṃ stomebhir bhṛgavo vi rurucuḥ ||त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ ।
त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रु॒रु॒चुः॒ ॥त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व ।
त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रुरुचुः ॥tvám ǀ dūtáḥ ǀ prathamáḥ ǀ váreṇyaḥ ǀ sáḥ ǀ hūyámānaḥ ǀ amṛ́tāya ǀ matsva ǀ
tvā́m ǀ marjayan ǀ marútaḥ ǀ dāśúṣaḥ ǀ gṛhé ǀ tvā́m ǀ stómebhiḥ ǀ bhṛ́gavaḥ ǀ ví ǀ rurucuḥ ǁtvam ǀ dūtaḥ ǀ prathamaḥ ǀ vareṇyaḥ ǀ saḥ ǀ hūyamānaḥ ǀ amṛtāya ǀ matsva ǀ
tvām ǀ marjayan ǀ marutaḥ ǀ dāśuṣaḥ ǀ gṛhe ǀ tvām ǀ stomebhiḥ ǀ bhṛgavaḥ ǀ vi ǀ rurucuḥ ǁ10.122.5 Aṣṭaka 8.7.5.5Anuvāka 10.10.93
-
Ṛk 6
इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।
अग्ने॑ घृ॒तस्नु॒स्त्रिर्ऋ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥इषं दुहन् सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो |
अग्ने घृतस्नुस् त्रिर् ऋतानि दीद्यद् वर्तिर् यज्ञम् परियन् सुक्रतूयसे ||íṣam duhántsudúghām viśvádhāyasam yajñapríye yájamānāya sukrato ǀ
ágne ghṛtásnustrírṛtā́ni dī́dyadvartíryajñám pariyántsukratūyase ǁiṣaṃ duhan sudughāṃ viśvadhāyasaṃ yajñapriye yajamānāya sukrato |
agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase ||इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।
अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥इषम् । दुहन् । सुऽदुघाम् । विश्वऽधायसम् । यज्ञऽप्रिये । यजमानाय । सुक्रतो इति सुऽक्रतो ।
अग्रे । घृतऽस्नुः । त्रिः । ऋतानि । दीद्यत् । वर्तिः । यज्ञम् । परिऽयन् । सुक्रतुऽयसे ॥íṣam ǀ duhán ǀ su-dúghām ǀ viśvá-dhāyasam ǀ yajña-príye ǀ yájamānāya ǀ sukrato íti su-krato ǀ
ágre ǀ ghṛtá-snuḥ ǀ tríḥ ǀ ṛtā́ni ǀ dī́dyat ǀ vartíḥ ǀ yajñám ǀ pari-yán ǀ sukratu-yase ǁiṣam ǀ duhan ǀ su-dughām ǀ viśva-dhāyasam ǀ yajña-priye ǀ yajamānāya ǀ sukrato iti su-krato ǀ
agre ǀ ghṛta-snuḥ ǀ triḥ ǀ ṛtāni ǀ dīdyat ǀ vartiḥ ǀ yajñam ǀ pari-yan ǀ sukratu-yase ǁ10.122.6 Aṣṭaka 8.7.6.1Anuvāka 10.10.94
-
Ṛk 7
त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजंत॒ मानु॑षाः ।
त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जंतो॑ अध्व॒रे ॥त्वाम् इद् अस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः |
त्वां देवा महयाय्याय वावृधुर् आज्यम् अग्ने निमृजन्तो अध्वरे ||tvā́mídasyā́ uṣáso vyúṣṭiṣu dūtám kṛṇvānā́ ayajanta mā́nuṣāḥ ǀ
tvā́m devā́ mahayā́yyāya vāvṛdhurā́jyamagne nimṛjánto adhvaré ǁtvām id asyā uṣaso vyuṣṭiṣu dūtaṃ kṛṇvānā ayajanta mānuṣāḥ |
tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare ||त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः ।
त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥त्वाम् । इत् । अस्याः । उषसः । विऽउष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः ।
त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । निऽमृजन्तः । अध्वरे ॥tvā́m ǀ ít ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ dūtám ǀ kṛṇvānā́ḥ ǀ ayajanta ǀ mā́nuṣāḥ ǀ
tvā́m ǀ devā́ḥ ǀ mahayā́yyāya ǀ vavṛdhuḥ ǀ ā́jyam ǀ agne ǀ ni-mṛjántaḥ ǀ adhvaré ǁtvām ǀ it ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ dūtam ǀ kṛṇvānāḥ ǀ ayajanta ǀ mānuṣāḥ ǀ
tvām ǀ devāḥ ǀ mahayāyyāya ǀ vavṛdhuḥ ǀ ājyam ǀ agne ǀ ni-mṛjantaḥ ǀ adhvare ǁ10.122.7 Aṣṭaka 8.7.6.2Anuvāka 10.10.95
-
Ṛk 8
नि त्वा॒ वसि॑ष्ठा अह्वंत वा॒जिनं॑ गृ॒णंतो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः |
रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ||ní tvā vásiṣṭhā ahvanta vājínam gṛṇánto agne vidátheṣu vedhásaḥ ǀ
rāyáspóṣam yájamāneṣu dhāraya yūyám pāta svastíbhiḥ sádā naḥ ǁni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ |
rāyas poṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ ||नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः ।
रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ní ǀ tvā ǀ vásiṣṭhāḥ ǀ ahvanta ǀ vājínam ǀ gṛṇántaḥ ǀ agne ǀ vidátheṣu ǀ vedhásaḥ ǀ
rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhāraya ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁni ǀ tvā ǀ vasiṣṭhāḥ ǀ ahvanta ǀ vājinam ǀ gṛṇantaḥ ǀ agne ǀ vidatheṣu ǀ vedhasaḥ ǀ
rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhāraya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ10.122.8 Aṣṭaka 8.7.6.3Anuvāka 10.10.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.