Ṛgveda · Maṇḍala 10 · Sūkta 122

Ṛk 10.122.8

Agni · Citramahas Vāsiṣṭha

The whole sūkta Link

Saṃhitā

नि त्वा॒ वसि॑ष्ठा अह्वंत वा॒जिनं॑ गृ॒णंतो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।
रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः |
रायस् पोषं यजमानेषु धारय यूयम् पात स्वस्तिभिः सदा नः ||

ní tvā vásiṣṭhā ahvanta vājínam gṛṇánto agne vidátheṣu vedhásaḥ ǀ
rāyáspóṣam yájamāneṣu dhāraya yūyám pāta svastíbhiḥ sádā naḥ ǁ

ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ |
rāyas poṣaṃ yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ ||

Padapāṭha

नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।
रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः ।
रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

ní ǀ tvā ǀ vásiṣṭhāḥ ǀ ahvanta ǀ vājínam ǀ gṛṇántaḥ ǀ agne ǀ vidátheṣu ǀ vedhásaḥ ǀ
rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhāraya ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

ni ǀ tvā ǀ vasiṣṭhāḥ ǀ ahvanta ǀ vājinam ǀ gṛṇantaḥ ǀ agne ǀ vidatheṣu ǀ vedhasaḥ ǀ
rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhāraya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.122.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.06.03
Maṇḍala · Anuvāka · Ṛk
10.10.096
Devatā देवता
Agni
Ṛṣi ऋषि
Citramahas Vāsiṣṭha
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.122.8

Interpretations

Sāyaṇa

हे अग्ने विदथेषु। विदन्त्यस्मिन्यष्टव्यान्देवानिति विदथो यज्ञः । तेषु वेधसः कर्मणां विधातारो गृणन्तः स्तुवन्तो वसिष्ठा वसिष्ठपुत्रा ऋषयो वाजनमन्नवन्तं बलवन्तं वा त्वां न्यह्वन्त। नितरामाह्वयन्। अस्ताविषुर्वा। ह्वेञो लुङि निसमुपविभ्यो ह्व इत्यात्मनेपदम्। आत्मनेपदेष्वन्यतरस्याम्। पा. ३-१-५४। इति च्लेरङादेशः। वसिष्ठशब्दाद्विहितस्यापत्यार्थप्रत्ययस्यात्रिभृगुकुत्सेत्यादिना बहुषु लुक्। स त्वं यजमानेष्वस्मासु रायो धनस्य पोषं पुष्टं धारय। अवस्थापय। ऊडिदमित्यादिना रैशब्दात्षष्ठ्या उदात्तत्वम्। षष्थ्याः पतिपुत्रेति विसर्जनीयस्य सत्वं गतमन्यत्। एकस्मिन्नप्यग्नौ पूजार्थं बहुवचनम्॥८॥