Ṛgveda · Maṇḍala 10 · Sūkta 122
Ṛk 10.122.1
Saṃhitā
वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यं ।
स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्यं॑ ॥
वसुं न चित्रमहसं गृणीषे वामं शेवम् अतिथिम् अद्विषेण्यम् |
स रासते शुरुधो विश्वधायसो ऽग्निर् होता गृहपतिः सुवीर्यम् ||
vásum ná citrámahasam gṛṇīṣe vāmám śévamátithimadviṣeṇyám ǀ
sá rāsate śurúdho viśvádhāyaso’gnírhótā gṛhápatiḥ suvī́ryam ǁ
vasuṃ na citramahasaṃ gṛṇīṣe vāmaṃ śevam atithim adviṣeṇyam |
sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam ||
Padapāṭha
वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।
सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥
वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् ।
सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥
vásum ǀ ná ǀ citrá-mahasam ǀ gṛṇīṣe ǀ vāmám ǀ śévam ǀ átithim ǀ adviṣeṇyám ǀ
sáḥ ǀ rāsate ǀ śurúdhaḥ ǀ viśvá-dhāyasaḥ ǀ agníḥ ǀ hótā ǀ gṛhá-patiḥ ǀ su-vī́ryam ǁ
vasum ǀ na ǀ citra-mahasam ǀ gṛṇīṣe ǀ vāmam ǀ śevam ǀ atithim ǀ adviṣeṇyam ǀ
saḥ ǀ rāsate ǀ śurudhaḥ ǀ viśva-dhāyasaḥ ǀ agniḥ ǀ hotā ǀ gṛha-patiḥ ǀ su-vīryam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.122.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.05.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.089
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Citramahas Vāsiṣṭha
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.