Ṛgveda · Maṇḍala 10

Sūkta 93

Viśvedevās · Tānva Pārtha · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Tānva Pārtha
Chandas छन्दस्
Prastārapaṅkti, Anuṣṭubh, Paṅkti According To Syllable Count, Nyaṅkusāriṇī, Purastādbṛhatī
Metres by ṛk

1st set of styles nicṛtpaṅkti (6, 7, 10, 14); bhurigārcyanuṣṭup (2, 13); virāḍpaṅkti (1); pādanicṛdanuṣṭup (3); pādanicṛtpaṅkti (4); bhurigārcīpaṅkti (5); āstārapaṅkti (8); akṣarapaṅkti (9); nyaṅkusāriṇībṛhatī (11); ārcīpaṅkti (12); pādnicṛdbṛhatī (15)

2nd set of styles prastārapaṅkti (1, 4-8, 10, 12, 14); anuṣṭubh (2, 3, 13); paṅkti according to syllable count (9); nyaṅkusāriṇī (11); purastādbṛhatī (15)

  1. Ṛk 1

    महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
    तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥

    महि द्यावापृथिवी भूतम् उर्वी नारी यह्वी न रोदसी सदं नः |
    तेभिर् नः पातं सह्यस एभिर् नः पातं शूषणि ||

    máhi dyāvāpṛthivī bhūtamurvī́ nā́rī yahvī́ ná ródasī sádam naḥ ǀ
    tébhirnaḥ pātam sáhyasa ebhírnaḥ pātam śūṣáṇi ǁ

    mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ |
    tebhir naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi ||

    महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ ।
    तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥

    महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः ।
    तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥

    máhi ǀ dyāvāpṛthivī íti ǀ bhūtam ǀ urvī́ íti ǀ nā́rī íti ǀ yahvī́ íti ǀ ná ǀ ródasī íti ǀ sádam ǀ naḥ ǀ
    tébhiḥ ǀ naḥ ǀ pātam ǀ sáhyasaḥ ǀ ebhíḥ ǀ naḥ ǀ pātam ǀ śūṣáṇi ǁ

    mahi ǀ dyāvāpṛthivī iti ǀ bhūtam ǀ urvī iti ǀ nārī iti ǀ yahvī iti ǀ na ǀ rodasī iti ǀ sadam ǀ naḥ ǀ
    tebhiḥ ǀ naḥ ǀ pātam ǀ sahyasaḥ ǀ ebhiḥ ǀ naḥ ǀ pātam ǀ śūṣaṇi ǁ

    10.93.1 Aṣṭaka 8.4.26.1Anuvāka 10.8.31

  2. Ṛk 2

    य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति ।
    यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

    यज्ञे-यज्ञे स मर्त्यो देवान् सपर्यति |
    यः सुम्नैर् दीर्घश्रुत्तम आविवासत्य् एनान् ||

    yajñéyajñe sá mártyo devā́ntsaparyati ǀ
    yáḥ sumnáirdīrghaśrúttama āvívāsatyenān ǁ

    yajñe-yajñe sa martyo devān saparyati |
    yaḥ sumnair dīrghaśruttama āvivāsaty enān ||

    य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ ।
    यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥

    यज्ञेऽयज्ञे । सः । मर्त्यः । देवान् । सपर्यति ।
    यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥

    yajñé-yajñe ǀ sáḥ ǀ mártyaḥ ǀ devā́n ǀ saparyati ǀ
    yáḥ ǀ sumnáiḥ ǀ dīrghaśrút-tamaḥ ǀ ā-vívāsāti ǀ enān ǁ

    yajñe-yajñe ǀ saḥ ǀ martyaḥ ǀ devān ǀ saparyati ǀ
    yaḥ ǀ sumnaiḥ ǀ dīrghaśrut-tamaḥ ǀ ā-vivāsāti ǀ enān ǁ

    10.93.2 Aṣṭaka 8.4.26.2Anuvāka 10.8.32

  3. Ṛk 3

    विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
    विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥

    विश्वेषाम् इरज्यवो देवानां वार् महः |
    विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ||

    víśveṣāmirajyavo devā́nām vā́rmaháḥ ǀ
    víśve hí viśvámahaso víśve yajñéṣu yajñíyāḥ ǁ

    viśveṣām irajyavo devānāṃ vār mahaḥ |
    viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ||

    विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः ।
    विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥

    विश्वेषाम् । इरज्यवः । देवानाम् । वाः । महः ।
    विश्वे । हि । विश्वऽमहसः । विश्वे । यज्ञेषु । यज्ञियाः ॥

    víśveṣām ǀ irajyavaḥ ǀ devā́nām ǀ vā́ḥ ǀ maháḥ ǀ
    víśve ǀ hí ǀ viśvá-mahasaḥ ǀ víśve ǀ yajñéṣu ǀ yajñíyāḥ ǁ

    viśveṣām ǀ irajyavaḥ ǀ devānām ǀ vāḥ ǀ mahaḥ ǀ
    viśve ǀ hi ǀ viśva-mahasaḥ ǀ viśve ǀ yajñeṣu ǀ yajñiyāḥ ǁ

    10.93.3 Aṣṭaka 8.4.26.3Anuvāka 10.8.33

  4. Ṛk 4

    ते घा॒ राजा॑नो अ॒मृत॑स्य मं॒द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।
    कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥

    ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा |
    कद् रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ||

    té ghā rā́jāno amṛ́tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā ǀ
    kádrudró nṛṇā́m stutó marútaḥ pūṣáṇo bhágaḥ ǁ

    te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā |
    kad rudro nṛṇāṃ stuto marutaḥ pūṣaṇo bhagaḥ ||

    ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा ।
    कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥

    ते । घ । राजानः । अमृतस्य । मन्द्राः । अर्यमा । मित्रः । वरुणः । परिऽज्मा ।
    कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः ॥

    té ǀ gha ǀ rā́jānaḥ ǀ amṛ́tasya ǀ mandrā́ḥ ǀ aryamā́ ǀ mitráḥ ǀ váruṇaḥ ǀ pári-jmā ǀ
    kát ǀ rudráḥ ǀ nṛṇā́m ǀ stutáḥ ǀ marútaḥ ǀ pūṣáṇaḥ ǀ bhágaḥ ǁ

    te ǀ gha ǀ rājānaḥ ǀ amṛtasya ǀ mandrāḥ ǀ aryamā ǀ mitraḥ ǀ varuṇaḥ ǀ pari-jmā ǀ
    kat ǀ rudraḥ ǀ nṛṇām ǀ stutaḥ ǀ marutaḥ ǀ pūṣaṇaḥ ǀ bhagaḥ ǁ

    10.93.4 Aṣṭaka 8.4.26.4Anuvāka 10.8.34

  5. Ṛk 5

    उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
    सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥

    उत नो नक्तम् अपां वृषण्वसू सूर्यामासा सदनाय सधन्या |
    सचा यत् साद्य् एषाम् अहिर् बुध्नेषु बुध्न्यः ||

    utá no náktamapā́m vṛṣaṇvasū sū́ryāmā́sā sádanāya sadhanyā́ ǀ
    sácā yátsā́dyeṣāmáhirbudhnéṣu budhnyaḥ ǁ

    uta no naktam apāṃ vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā |
    sacā yat sādy eṣām ahir budhneṣu budhnyaḥ ||

    उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ ।
    सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥

    उत । नः । नक्तम् । अपाम् । वृषण्वसू इति वृषण्ऽवसू । सूर्यामासा । सदनाय । सऽधन्या ।
    सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः ॥

    utá ǀ naḥ ǀ náktam ǀ apā́m ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ sū́ryāmā́sā ǀ sádanāya ǀ sa-dhanyā́ ǀ
    sácā ǀ yát ǀ sā́di ǀ eṣām ǀ áhiḥ ǀ budhnéṣu ǀ budhnyáḥ ǁ

    uta ǀ naḥ ǀ naktam ǀ apām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ sūryāmāsā ǀ sadanāya ǀ sa-dhanyā ǀ
    sacā ǀ yat ǀ sādi ǀ eṣām ǀ ahiḥ ǀ budhneṣu ǀ budhnyaḥ ǁ

    10.93.5 Aṣṭaka 8.4.26.5Anuvāka 10.8.35

  6. Ṛk 6

    उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यतां ।
    म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥

    उत नो देवाव् अश्विना शुभस् पती धामभिर् मित्रावरुणा उरुष्यताम् |
    महः स राय एषते ऽति धन्वेव दुरिता ||

    utá no devā́vaśvínā śubháspátī dhā́mabhirmitrā́váruṇā uruṣyatām ǀ
    maháḥ sá rāyá éṣaté’ti dhánveva duritā́ ǁ

    uta no devāv aśvinā śubhas patī dhāmabhir mitrāvaruṇā uruṣyatām |
    mahaḥ sa rāya eṣate 'ti dhanveva duritā ||

    उ॒त । नः॒ । दे॒वौ । अ॒श्विना॑ । शु॒भः । पती॒ इति॑ । धाम॑ऽभिः । मि॒त्रावरु॑णौ । उ॒रु॒ष्य॒ता॒म् ।
    म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति॑ । धन्व॑ऽइव । दुः॒ऽइ॒ता ॥

    उत । नः । देवौ । अश्विना । शुभः । पती इति । धामऽभिः । मित्रावरुणौ । उरुष्यताम् ।
    महः । सः । रायः । आ । ईषते । अति । धन्वऽइव । दुःऽइता ॥

    utá ǀ naḥ ǀ deváu ǀ aśvínā ǀ śubháḥ ǀ pátī íti ǀ dhā́ma-bhiḥ ǀ mitrā́váruṇau ǀ uruṣyatām ǀ
    maháḥ ǀ sáḥ ǀ rāyáḥ ǀ ā́ ǀ īṣate ǀ áti ǀ dhánva-iva ǀ duḥ-itā́ ǁ

    uta ǀ naḥ ǀ devau ǀ aśvinā ǀ śubhaḥ ǀ patī iti ǀ dhāma-bhiḥ ǀ mitrāvaruṇau ǀ uruṣyatām ǀ
    mahaḥ ǀ saḥ ǀ rāyaḥ ǀ ā ǀ īṣate ǀ ati ǀ dhanva-iva ǀ duḥ-itā ǁ

    10.93.6 Aṣṭaka 8.4.27.1Anuvāka 10.8.36

  7. Ṛk 7

    उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
    ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥

    उत नो रुद्रा चिन् मृऌअताम् अश्विना विश्वे देवासो रथस्पतिर् भगः |
    ऋभुर् वाज ऋभुक्षणः परिज्मा विश्ववेदसः ||

    utá no rudrā́ cinmṛḷatāmaśvínā víśve devā́so ráthaspátirbhágaḥ ǀ
    ṛbhúrvā́ja ṛbhukṣaṇaḥ párijmā viśvavedasaḥ ǁ

    uta no rudrā cin mṛḷatām aśvinā viśve devāso rathaspatir bhagaḥ |
    ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||

    उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ ।
    ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥

    उत । नः । रुद्रा । चित् । मृळताम् । अश्विना । विश्वे । देवासः । रथःपतिः । भगः ।
    ऋभुः । वाजः । ऋभुक्षणः । परिऽज्मा । विश्वऽवेदसः ॥

    utá ǀ naḥ ǀ rudrā́ ǀ cit ǀ mṛḷatām ǀ aśvínā ǀ víśve ǀ devā́saḥ ǀ ráthaḥpátiḥ ǀ bhágaḥ ǀ
    ṛbhúḥ ǀ vā́jaḥ ǀ ṛbhukṣaṇaḥ ǀ pári-jmā ǀ viśva-vedasaḥ ǁ

    uta ǀ naḥ ǀ rudrā ǀ cit ǀ mṛḷatām ǀ aśvinā ǀ viśve ǀ devāsaḥ ǀ rathaḥpatiḥ ǀ bhagaḥ ǀ
    ṛbhuḥ ǀ vājaḥ ǀ ṛbhukṣaṇaḥ ǀ pari-jmā ǀ viśva-vedasaḥ ǁ

    10.93.7 Aṣṭaka 8.4.27.2Anuvāka 10.8.37

  8. Ṛk 8

    ऋ॒भुर्ऋ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
    दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

    ऋभुर् ऋभुक्षा ऋभुर् विधतो मद आ ते हरी जूजुवानस्य वाजिना |
    दुष्टरं यस्य साम चिद् ऋधग् यज्ञो न मानुषः ||

    ṛbhúrṛbhukṣā́ ṛbhúrvidható máda ā́ te hárī jūjuvānásya vājínā ǀ
    duṣṭáram yásya sā́ma cidṛ́dhagyajñó ná mā́nuṣaḥ ǁ

    ṛbhur ṛbhukṣā ṛbhur vidhato mada ā te harī jūjuvānasya vājinā |
    duṣṭaraṃ yasya sāma cid ṛdhag yajño na mānuṣaḥ ||

    ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ ।
    दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥

    ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना ।
    दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥

    ṛbhúḥ ǀ ṛbhukṣā́ḥ ǀ ṛbhúḥ ǀ vidhatáḥ ǀ mádaḥ ǀ ā́ ǀ te ǀ hárī íti ǀ jūjuvānásya ǀ vājínā ǀ
    dustáram ǀ yásya ǀ sā́ma ǀ cit ǀ ṛ́dhak ǀ yajñáḥ ǀ ná ǀ mā́nuṣaḥ ǁ

    ṛbhuḥ ǀ ṛbhukṣāḥ ǀ ṛbhuḥ ǀ vidhataḥ ǀ madaḥ ǀ ā ǀ te ǀ harī iti ǀ jūjuvānasya ǀ vājinā ǀ
    dustaram ǀ yasya ǀ sāma ǀ cit ǀ ṛdhak ǀ yajñaḥ ǀ na ǀ mānuṣaḥ ǁ

    10.93.8 Aṣṭaka 8.4.27.3Anuvāka 10.8.38

  9. Ṛk 9

    कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोनां॑ ।
    स॒हो न॒ इंद्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥

    कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् |
    सहो न इन्द्रो वह्निभिर् न्य् एषां चर्षणीनां चक्रं रश्मिं न योयुवे ||

    kṛdhī́ no áhrayo deva savitaḥ sá ca stuṣe maghónām ǀ
    sahó na índro váhnibhirnyéṣām carṣaṇīnā́m cakrám raśmím ná yoyuve ǁ

    kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām |
    saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve ||

    कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् ।
    स॒हो इति॑ । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥

    कृधि । नः । अह्रयः । देव । सवितरिति । सः । च । स्तुषे । मघोनाम् ।
    सहो इति । नः । इन्द्रः । वह्निऽभिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे ॥

    kṛdhí ǀ naḥ ǀ áhrayaḥ ǀ deva ǀ savitaríti ǀ sáḥ ǀ ca ǀ stuṣe ǀ maghónām ǀ
    sahó íti ǀ naḥ ǀ índraḥ ǀ váhni-bhiḥ ǀ ní ǀ eṣām ǀ carṣaṇīnā́m ǀ cakrám ǀ raśmím ǀ ná ǀ yoyuve ǁ

    kṛdhi ǀ naḥ ǀ ahrayaḥ ǀ deva ǀ savitariti ǀ saḥ ǀ ca ǀ stuṣe ǀ maghonām ǀ
    saho iti ǀ naḥ ǀ indraḥ ǀ vahni-bhiḥ ǀ ni ǀ eṣām ǀ carṣaṇīnām ǀ cakram ǀ raśmim ǀ na ǀ yoyuve ǁ

    10.93.9 Aṣṭaka 8.4.27.4Anuvāka 10.8.39

  10. Ṛk 10

    ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
    पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥

    ऐषु द्यावापृथिवी धातम् महद् अस्मे वीरेषु विश्वचर्षणि श्रवः |
    पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ||

    áiṣu dyāvāpṛthivī dhātam mahádasmé vīréṣu viśvácarṣaṇi śrávaḥ ǀ
    pṛkṣám vā́jasya sātáye pṛkṣám rāyótá turváṇe ǁ

    aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ |
    pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe ||

    आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ ।
    पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥

    आ । एषु । द्यावापृथिवी इति । धातम् । महत् । अस्मे इति । वीरेषु । विश्वऽचर्षणि । श्रवः ।
    पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे ॥

    ā́ ǀ eṣu ǀ dyāvāpṛthivī íti ǀ dhātam ǀ mahát ǀ asmé íti ǀ vīréṣu ǀ viśvá-carṣaṇi ǀ śrávaḥ ǀ
    pṛkṣám ǀ vā́jasya ǀ sātáye ǀ pṛkṣám ǀ rāyā́ ǀ utá ǀ turváṇe ǁ

    ā ǀ eṣu ǀ dyāvāpṛthivī iti ǀ dhātam ǀ mahat ǀ asme iti ǀ vīreṣu ǀ viśva-carṣaṇi ǀ śravaḥ ǀ
    pṛkṣam ǀ vājasya ǀ sātaye ǀ pṛkṣam ǀ rāyā ǀ uta ǀ turvaṇe ǁ

    10.93.10 Aṣṭaka 8.4.27.5Anuvāka 10.8.40

  11. Ṛk 11

    ए॒तं शंस॑मिंद्रास्म॒युष्ट्वं कूचि॒त्संतं॑ सहसावन्न॒भिष्ट॑ये ।
    सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥

    एतं शंसम् इन्द्रास्मयुष् ट्वं कूचित् सन्तं सहसावन्न् अभिष्टये |
    सदा पाह्य् अभिष्टये मेदतां वेदता वसो ||

    etám śáṃsamindrāsmayúṣṭvám kū́citsántam sahasāvannabhíṣṭaye ǀ
    sádā pāhyabhíṣṭaye medátām vedátā vaso ǁ

    etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye |
    sadā pāhy abhiṣṭaye medatāṃ vedatā vaso ||

    ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये ।
    मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥

    एतम् । शंसम् । इन्द्र । अस्मऽयुः । त्वम् । कूऽचित् । सन्तम् । सहसाऽवन् । अभिष्टये । सदा । पाहि । अभिष्टये ।
    मेदताम् । वेदता । वसो इति ॥

    etám ǀ śáṃsam ǀ indra ǀ asma-yúḥ ǀ tvám ǀ kū́-cit ǀ sántam ǀ sahasā-van ǀ abhíṣṭaye ǀ sádā ǀ pāhi ǀ abhíṣṭaye ǀ
    medátām ǀ vedátā ǀ vaso íti ǁ

    etam ǀ śaṃsam ǀ indra ǀ asma-yuḥ ǀ tvam ǀ kū-cit ǀ santam ǀ sahasā-van ǀ abhiṣṭaye ǀ sadā ǀ pāhi ǀ abhiṣṭaye ǀ
    medatām ǀ vedatā ǀ vaso iti ǁ

    10.93.11 Aṣṭaka 8.4.28.1Anuvāka 10.8.41

  12. Ṛk 12

    ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधंत नृ॒णां ।
    सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतं ॥

    एतम् मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् |
    संवननं नाश्व्यं तष्टेवानपच्युतम् ||

    etám me stómam tanā́ ná sū́rye dyutádyāmānam vāvṛdhanta nṛṇā́m ǀ
    saṃvánanam nā́śvyam táṣṭevā́napacyutam ǁ

    etam me stomaṃ tanā na sūrye dyutadyāmānaṃ vāvṛdhanta nṛṇām |
    saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam ||

    ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्ये॑ । द्यु॒तत्ऽया॑मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् ।
    स॒म्ऽवन॑नम् । न । अश्व्य॑म् । तष्टा॑ऽइव । अन॑पऽच्युतम् ॥

    एतम् । मे । स्तोमम् । तना । न । सूर्ये । द्युतत्ऽयामानम् । ववृधन्त । नृणाम् ।
    सम्ऽवननम् । न । अश्व्यम् । तष्टाऽइव । अनपऽच्युतम् ॥

    etám ǀ me ǀ stómam ǀ tanā́ ǀ ná ǀ sū́rye ǀ dyutát-yāmānam ǀ vavṛdhanta ǀ nṛṇā́m ǀ
    sam-vánanam ǀ ná ǀ áśvyam ǀ táṣṭā-iva ǀ ánapa-cyutam ǁ

    etam ǀ me ǀ stomam ǀ tanā ǀ na ǀ sūrye ǀ dyutat-yāmānam ǀ vavṛdhanta ǀ nṛṇām ǀ
    sam-vananam ǀ na ǀ aśvyam ǀ taṣṭā-iva ǀ anapa-cyutam ǁ

    10.93.12 Aṣṭaka 8.4.28.2Anuvāka 10.8.42

  13. Ṛk 13

    वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
    ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टांता॑ ॥

    वावर्त येषां राया युक्तैषां हिरण्ययी |
    नेमधिता न पौंस्या वृथेव विष्टान्ता ||

    vāvárta yéṣām rāyā́ yuktáiṣām hiraṇyáyī ǀ
    nemádhitā ná páuṃsyā vṛ́theva viṣṭā́ntā ǁ

    vāvarta yeṣāṃ rāyā yuktaiṣāṃ hiraṇyayī |
    nemadhitā na pauṃsyā vṛtheva viṣṭāntā ||

    व॒वर्त॑ । येषा॑म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी॑ ।
    ने॒मऽधि॑ता । न । पौंस्या॑ । वृथा॑ऽइव । वि॒ष्टऽअ॑न्ता ॥

    ववर्त । येषाम् । राया । युक्ता । एषाम् । हिरण्ययी ।
    नेमऽधिता । न । पौंस्या । वृथाऽइव । विष्टऽअन्ता ॥

    vavárta ǀ yéṣām ǀ rāyā́ ǀ yuktā́ ǀ eṣām ǀ hiraṇyáyī ǀ
    nemá-dhitā ǀ ná ǀ páuṃsyā ǀ vṛ́thā-iva ǀ viṣṭá-antā ǁ

    vavarta ǀ yeṣām ǀ rāyā ǀ yuktā ǀ eṣām ǀ hiraṇyayī ǀ
    nema-dhitā ǀ na ǀ pauṃsyā ǀ vṛthā-iva ǀ viṣṭa-antā ǁ

    10.93.13 Aṣṭaka 8.4.28.3Anuvāka 10.8.43

  14. Ṛk 14

    प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
    ये यु॒क्त्वाय॒ पंच॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षां ॥

    प्र तद् दुःशीमे पृथवाने वेने प्र रामे वोचम् असुरे मघवत्सु |
    ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्य् एषाम् ||

    prá tádduḥśī́me pṛ́thavāne vené prá rāmé vocamásure maghávatsu ǀ
    yé yuktvā́ya páñca śatā́smayú pathā́ viśrā́vyeṣām ǁ

    pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu |
    ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām ||

    प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु ।
    ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥

    प्र । तत् । दुःऽशीमे । पृथवाने । वेने । प्र । रामे । वोचम् । असुरे । मघवत्ऽसु ।
    ये । युक्त्वाय । पञ्च । शता । अस्मऽयु । पथा । विऽश्रावि । एषाम् ॥

    prá ǀ tát ǀ duḥ-śī́me ǀ pṛ́thavāne ǀ vené ǀ prá ǀ rāmé ǀ vocam ǀ ásure ǀ maghávat-su ǀ
    yé ǀ yuktvā́ya ǀ páñca ǀ śatā́ ǀ asma-yú ǀ pathā́ ǀ vi-śrā́vi ǀ eṣām ǁ

    pra ǀ tat ǀ duḥ-śīme ǀ pṛthavāne ǀ vene ǀ pra ǀ rāme ǀ vocam ǀ asure ǀ maghavat-su ǀ
    ye ǀ yuktvāya ǀ pañca ǀ śatā ǀ asma-yu ǀ pathā ǀ vi-śrāvi ǀ eṣām ǁ

    10.93.14 Aṣṭaka 8.4.28.4Anuvāka 10.8.44

  15. Ṛk 15

    अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
    स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

    अधीन् न्व् अत्र सप्ततिं च सप्त च |
    सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ||

    ádhī́nnvátra saptatím ca saptá ca ǀ
    sadyó didiṣṭa tā́nvaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyaváḥ ǁ

    adhīn nv atra saptatiṃ ca sapta ca |
    sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ||

    अधि॑ । इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।
    स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥

    अधि । इत् । नु । अत्र । सप्ततिम् । च । सप्त । च ।
    सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥

    ádhi ǀ ít ǀ nú ǀ átra ǀ saptatím ǀ ca ǀ saptá ǀ ca ǀ
    sadyáḥ ǀ didiṣṭa ǀ tā́nvaḥ ǀ sadyáḥ ǀ didiṣṭa ǀ pārthyáḥ ǀ sadyáḥ ǀ didiṣṭa ǀ māyaváḥ ǁ

    adhi ǀ it ǀ nu ǀ atra ǀ saptatim ǀ ca ǀ sapta ǀ ca ǀ
    sadyaḥ ǀ didiṣṭa ǀ tānvaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ pārthyaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ māyavaḥ ǁ

    10.93.15 Aṣṭaka 8.4.28.5Anuvāka 10.8.45

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.93 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

MIGHTY are ye, and far-extended, Heaven and Earth: both Worlds are evermore to us like two young Dames. Guard us thereby from stronger foe; guard us hereby to give us strength.

Ṛk 2

In each succeeding sacrifice that mortal honoureth the Gods, He who, most widely known and famed for happiness, inviteth them.

Ṛk 3

Ye who are Rulers over all, great is your sovran power as Gods. Ye all possess all majesty: all must be served in sacrifice.

Ṛk 4

These are the joyous Kings of Immortality, Parijman, Mitra, Aryaman, and Varuṇa. What else is Rudra, praised of men? the Maruts, Bhaga, Pūṣaṇa?

Ṛk 5

Come also to our dwelling, Lords of ample wealth, common partakers of our waters, Sun and Moon, When the great Dragon of the Deep hath settled down upon their floors.

Ṛk 6

And let the Aśvins, Lords of splendour, set us free,—both Gods, and, with their Laws, Mitra and Varuṇa. Through woes, as over desert lands, he speeds to ample opulence.

Ṛk 7

Yea, let the Aśvins Twain he gracious unto us, even Rudras, and all Gods, Bhaga, Rathaspati; Parijman, Ṛbhu, Vāja, O Lords of all wealth Ṛbhukṣaṇas.

Ṛk 8

Prompt is Ṛbhukṣan, prompt the worshipper's strong drink: may thy fleet Bay Steeds, thine who speedest on, approach. Not mans but God's is sacrifice whose psalm is unassailable.

Ṛk 9

O God Savitar, harmed by none, lauded, give us a place among wealthy princes. With his Car-steeds at once 'hath our Indra guided the reins and the car of these men.

Ṛk 10

To these men present here, O Heaven and Earth, to us grant lofty fame extending over all mankind. Give us a steed to win us strength, a steed with wealth for victory.

Ṛk 11

This speaker, Indra—for thou art our Friend—wherever he may be, guard thou, Victor! for help, ever for help Thy wisdom, Vasu! prosper him.

Ṛk 12

So have they strengthened this mine hymn which seems to take its bright path to the Sun, and reconciles the men: Thus forms a carpenter the yoke of horses, not to be displaced.

Ṛk 13

Whose chariot-seat hath come again laden with wealth and bright with gold, Lightly, with piercing ends, as ’twere two ranks of heroes ranged for fight.

Ṛk 14

This to Duḥśīma Pṛthavāna have I sung, to Vena, Rama, to the nobles, and the King. They yoked five hundred, and their love of us was famed upon their way.