Sūkta 29
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 5, 7); nicṛttriṣṭup (2, 4, 6); pādanicṛttriṣṭup (3, 8)
2nd set of styles triṣṭubh
-
Ṛk 1
वने॒ न वा॒ यो न्य॑धायि चा॒कंछुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।
यस्येदिंद्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः |
यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ||váne ná vā yó nyádhāyi cākáñchúcirvām stómo bhuraṇāvajīgaḥ ǀ
yásyédíndraḥ purudíneṣu hótā nṛṇā́m náryo nṛ́tamaḥ kṣapā́vān ǁvane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ |
yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān ||वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ ।
यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥वने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति ।
यस्य । इत् । इन्द्रः । पुरुऽदिनेषु । होता । नृणाम् । नर्यः । नृऽतमः । क्षपाऽवान् ॥váne ǀ ná ǀ vā ǀ yáḥ ǀ ní ǀ adhāyi ǀ cākán ǀ śúciḥ ǀ vām ǀ stómaḥ ǀ bhuraṇau ǀ ajīgaríti ǀ
yásya ǀ ít ǀ índraḥ ǀ puru-díneṣu ǀ hótā ǀ nṛṇā́m ǀ náryaḥ ǀ nṛ́-tamaḥ ǀ kṣapā́-vān ǁvane ǀ na ǀ vā ǀ yaḥ ǀ ni ǀ adhāyi ǀ cākan ǀ śuciḥ ǀ vām ǀ stomaḥ ǀ bhuraṇau ǀ ajīgariti ǀ
yasya ǀ it ǀ indraḥ ǀ puru-dineṣu ǀ hotā ǀ nṛṇām ǀ naryaḥ ǀ nṛ-tamaḥ ǀ kṣapā-vān ǁ10.29.1 Aṣṭaka 7.7.22.1Anuvāka 10.2.139
-
Ṛk 2
प्र ते॑ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या॑म॒ नृत॑मस्य नृ॒णां ।
अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से॑न॒ रथो॒ यो अस॑त्सस॒वान् ॥प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् |
अनु त्रिशोकः शतम् आवहन् नॄन् कुत्सेन रथो यो असत् ससवान् ||prá te asyā́ uṣásaḥ prā́parasyā nṛtáu syāma nṛ́tamasya nṛṇā́m ǀ
ánu triśókaḥ śatámā́vahannṝ́nkútsena rátho yó ásatsasavā́n ǁpra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām |
anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān ||प्र । ते॒ । अ॒स्याः । उ॒षसः॑ । प्र । अप॑रस्याः । नृ॒तौ । स्या॒म॒ । नृऽत॑मस्य । नृ॒णाम् ।
अनु॑ । त्रि॒ऽशोकः॑ । श॒तम् । आ । अ॒व॒ह॒त् । नॄन् । कुत्से॑न । रथः॑ । यः । अस॑त् । स॒स॒ऽवान् ॥प्र । ते । अस्याः । उषसः । प्र । अपरस्याः । नृतौ । स्याम । नृऽतमस्य । नृणाम् ।
अनु । त्रिऽशोकः । शतम् । आ । अवहत् । नॄन् । कुत्सेन । रथः । यः । असत् । ससऽवान् ॥prá ǀ te ǀ asyā́ḥ ǀ uṣásaḥ ǀ prá ǀ áparasyāḥ ǀ nṛtáu ǀ syāma ǀ nṛ́-tamasya ǀ nṛṇā́m ǀ
ánu ǀ tri-śókaḥ ǀ śatám ǀ ā́ ǀ avahat ǀ nṝ́n ǀ kútsena ǀ ráthaḥ ǀ yáḥ ǀ ásat ǀ sasa-vā́n ǁpra ǀ te ǀ asyāḥ ǀ uṣasaḥ ǀ pra ǀ aparasyāḥ ǀ nṛtau ǀ syāma ǀ nṛ-tamasya ǀ nṛṇām ǀ
anu ǀ tri-śokaḥ ǀ śatam ǀ ā ǀ avahat ǀ nṝn ǀ kutsena ǀ rathaḥ ǀ yaḥ ǀ asat ǀ sasa-vān ǁ10.29.2 Aṣṭaka 7.7.22.2Anuvāka 10.2.140
-
Ṛk 3
कस्ते॒ मद॑ इंद्र॒ रंत्यो॑ भू॒द्दुरो॒ गिरो॑ अ॒भ्यु१॒॑ग्रो वि धा॑व ।
कद्वाहो॑ अ॒र्वागुप॑ मा मनी॒षा आ त्वा॑ शक्यामुप॒मं राधो॒ अन्नैः॑ ॥कस् ते मद इन्द्र रन्त्यो भूद् दुरो गिरो अभ्य् उग्रो वि धाव |
कद् वाहो अर्वाग् उप मा मनीषा आ त्वा शक्याम् उपमं राधो अन्नैः ||káste máda indra rántyo bhūddúro gíro abhyúgró ví dhāva ǀ
kádvā́ho arvā́gúpa mā manīṣā́ ā́ tvā śakyāmupamám rā́dho ánnaiḥ ǁkas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva |
kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ ||कः । ते॒ । मदः॑ । इ॒न्द्र॒ । रन्त्यः॑ । भू॒त् । दुरः॑ । गिरः॑ । अ॒भि । उ॒ग्रः । वि । धा॒व॒ ।
कत् । वाहः॑ । अ॒र्वाक् । उप॑ । मा॒ । म॒नी॒षा । आ । त्वा॒ । श॒क्या॒म् । उ॒प॒ऽमम् । राधः॑ । अन्नैः॑ ॥कः । ते । मदः । इन्द्र । रन्त्यः । भूत् । दुरः । गिरः । अभि । उग्रः । वि । धाव ।
कत् । वाहः । अर्वाक् । उप । मा । मनीषा । आ । त्वा । शक्याम् । उपऽमम् । राधः । अन्नैः ॥káḥ ǀ te ǀ mádaḥ ǀ indra ǀ rántyaḥ ǀ bhūt ǀ dúraḥ ǀ gíraḥ ǀ abhí ǀ ugráḥ ǀ ví ǀ dhāva ǀ
kát ǀ vā́haḥ ǀ arvā́k ǀ úpa ǀ mā ǀ manīṣā́ ǀ ā́ ǀ tvā ǀ śakyām ǀ upa-mám ǀ rā́dhaḥ ǀ ánnaiḥ ǁkaḥ ǀ te ǀ madaḥ ǀ indra ǀ rantyaḥ ǀ bhūt ǀ duraḥ ǀ giraḥ ǀ abhi ǀ ugraḥ ǀ vi ǀ dhāva ǀ
kat ǀ vāhaḥ ǀ arvāk ǀ upa ǀ mā ǀ manīṣā ǀ ā ǀ tvā ǀ śakyām ǀ upa-mam ǀ rādhaḥ ǀ annaiḥ ǁ10.29.3 Aṣṭaka 7.7.22.3Anuvāka 10.2.141
-
Ṛk 4
कदु॑ द्यु॒म्नमिं॑द्र॒ त्वाव॑तो॒ नॄन्कया॑ धि॒या क॑रसे॒ कन्न॒ आग॑न् ।
मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने॑ समस्य॒ यदस॑न्मनी॒षाः ॥कद् उ द्युम्नम् इन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् |
मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यद् असन् मनीषाः ||kádu dyumnámindra tvā́vato nṝ́nkáyā dhiyā́ karase kánna ā́gan ǀ
mitró ná satyá urugāya bhṛtyā́ ánne samasya yádásanmanīṣā́ḥ ǁkad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan |
mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ ||कत् । ऊं॒ इति॑ । द्यु॒म्नम् । इ॒न्द्र॒ । त्वाऽव॑तः । नॄन् । कया॑ । धि॒या । क॒र॒से॒ । कत् । नः॒ । आ । अ॒ग॒न् ।
मि॒त्रः । न । स॒त्यः । उ॒रु॒ऽगा॒य॒ । भृ॒त्यै । अन्ने॑ । स॒म॒स्य॒ । यत् । अस॑न् । म॒नी॒षाः ॥कत् । ऊं इति । द्युम्नम् । इन्द्र । त्वाऽवतः । नॄन् । कया । धिया । करसे । कत् । नः । आ । अगन् ।
मित्रः । न । सत्यः । उरुऽगाय । भृत्यै । अन्ने । समस्य । यत् । असन् । मनीषाः ॥kát ǀ ūṃ íti ǀ dyumnám ǀ indra ǀ tvā́-vataḥ ǀ nṝ́n ǀ káyā ǀ dhiyā́ ǀ karase ǀ kát ǀ naḥ ǀ ā́ ǀ agan ǀ
mitráḥ ǀ ná ǀ satyáḥ ǀ uru-gāya ǀ bhṛtyái ǀ ánne ǀ samasya ǀ yát ǀ ásan ǀ manīṣā́ḥ ǁkat ǀ ūṃ iti ǀ dyumnam ǀ indra ǀ tvā-vataḥ ǀ nṝn ǀ kayā ǀ dhiyā ǀ karase ǀ kat ǀ naḥ ǀ ā ǀ agan ǀ
mitraḥ ǀ na ǀ satyaḥ ǀ uru-gāya ǀ bhṛtyai ǀ anne ǀ samasya ǀ yat ǀ asan ǀ manīṣāḥ ǁ10.29.4 Aṣṭaka 7.7.22.4Anuvāka 10.2.142
-
Ṛk 5
प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं॑ जनि॒धा इ॑व॒ ग्मन् ।
गिर॑श्च॒ ये ते॑ तुविजात पू॒र्वीर्नर॑ इंद्र प्रति॒शिक्षं॒त्यन्नैः॑ ॥प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् |
गिरश् च ये ते तुविजात पूर्वीर् नर इन्द्र प्रतिशिक्षन्त्य् अन्नैः ||préraya sū́ro ártham ná pārám yé asya kā́mam janidhā́ iva gmán ǀ
gíraśca yé te tuvijāta pūrvī́rnára indra pratiśíkṣantyánnaiḥ ǁpreraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman |
giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ ||प्र । ई॒र॒य॒ । सूरः॑ । अर्थ॑म् । न । पा॒रम् । ये । अ॒स्य॒ । काम॑म् । ज॒नि॒धाःऽइ॑व । ग्मन् ।
गिरः॑ । च॒ । ये । ते॒ । तु॒वि॒ऽजा॒त॒ । पू॒र्वीः । नरः॑ । इ॒न्द्र॒ । प्र॒ति॒ऽशिक्ष॑न्ति । अन्नैः॑ ॥प्र । ईरय । सूरः । अर्थम् । न । पारम् । ये । अस्य । कामम् । जनिधाःऽइव । ग्मन् ।
गिरः । च । ये । ते । तुविऽजात । पूर्वीः । नरः । इन्द्र । प्रतिऽशिक्षन्ति । अन्नैः ॥prá ǀ īraya ǀ sū́raḥ ǀ ártham ǀ ná ǀ pārám ǀ yé ǀ asya ǀ kā́mam ǀ janidhā́ḥ-iva ǀ gmán ǀ
gíraḥ ǀ ca ǀ yé ǀ te ǀ tuvi-jāta ǀ pūrvī́ḥ ǀ náraḥ ǀ indra ǀ prati-śíkṣanti ǀ ánnaiḥ ǁpra ǀ īraya ǀ sūraḥ ǀ artham ǀ na ǀ pāram ǀ ye ǀ asya ǀ kāmam ǀ janidhāḥ-iva ǀ gman ǀ
giraḥ ǀ ca ǀ ye ǀ te ǀ tuvi-jāta ǀ pūrvīḥ ǀ naraḥ ǀ indra ǀ prati-śikṣanti ǀ annaiḥ ǁ10.29.5 Aṣṭaka 7.7.22.5Anuvāka 10.2.143
-
Ṛk 6
मात्रे॒ नु ते॒ सुमि॑ते इंद्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न ।
वरा॑य ते घृ॒तवं॑तः सु॒तासः॒ स्वाद्म॑न्भवंतु पी॒तये॒ मधू॑नि ॥मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर् मज्मना पृथिवी काव्येन |
वराय ते घृतवन्तः सुतासः स्वाद्मन् भवन्तु पीतये मधूनि ||mā́tre nú te súmite indra pūrvī́ dyáurmajmánā pṛthivī́ kā́vyena ǀ
várāya te ghṛtávantaḥ sutā́saḥ svā́dmanbhavantu pītáye mádhūni ǁmātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena |
varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni ||मात्रे॒ इति॑ । नु । ते॒ । सुमि॑ते॒ इति॒ सुऽमि॑ते । इ॒न्द्र॒ । पू॒र्वी इति॑ । द्यौः । म॒ज्मना॑ । पृ॒थि॒वी । काव्ये॑न ।
वरा॑य । ते॒ । घृ॒तऽव॑न्तः । सु॒तासः॑ । स्वाद्म॑न् । भ॒व॒न्तु॒ । पी॒तये॑ । मधू॑नि ॥मात्रे इति । नु । ते । सुमिते इति सुऽमिते । इन्द्र । पूर्वी इति । द्यौः । मज्मना । पृथिवी । काव्येन ।
वराय । ते । घृतऽवन्तः । सुतासः । स्वाद्मन् । भवन्तु । पीतये । मधूनि ॥mā́tre íti ǀ nú ǀ te ǀ súmite íti sú-mite ǀ indra ǀ pūrvī́ íti ǀ dyáuḥ ǀ majmánā ǀ pṛthivī́ ǀ kā́vyena ǀ
várāya ǀ te ǀ ghṛtá-vantaḥ ǀ sutā́saḥ ǀ svā́dman ǀ bhavantu ǀ pītáye ǀ mádhūni ǁmātre iti ǀ nu ǀ te ǀ sumite iti su-mite ǀ indra ǀ pūrvī iti ǀ dyauḥ ǀ majmanā ǀ pṛthivī ǀ kāvyena ǀ
varāya ǀ te ǀ ghṛta-vantaḥ ǀ sutāsaḥ ǀ svādman ǀ bhavantu ǀ pītaye ǀ madhūni ǁ10.29.6 Aṣṭaka 7.7.23.1Anuvāka 10.2.144
-
Ṛk 7
आ मध्वो॑ अस्मा असिच॒न्नम॑त्र॒मिंद्रा॑य पू॒र्णं स हि स॒त्यरा॑धाः ।
स वा॑वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै॑श्च ॥आ मध्वो अस्मा असिचन्न् अमत्रम् इन्द्राय पूर्णं स हि सत्यराधाः |
स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश् च ||ā́ mádhvo asmā asicannámatramíndrāya pūrṇám sá hí satyárādhāḥ ǀ
sá vāvṛdhe várimannā́ pṛthivyā́ abhí krátvā náryaḥ páuṃsyaiśca ǁā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ |
sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca ||आ । मध्वः॑ । अ॒स्मै॒ । अ॒सि॒च॒न् । अम॑त्रम् । इन्द्रा॑य । पू॒र्णम् । सः । हि । स॒त्यऽरा॑धाः ।
सः । व॒वृ॒धे॒ । वरि॑मन् । आ । पृ॒थि॒व्याः । अ॒भि । क्रत्वा॑ । नर्यः॑ । पौंस्यैः॑ । च॒ ॥आ । मध्वः । अस्मै । असिचन् । अमत्रम् । इन्द्राय । पूर्णम् । सः । हि । सत्यऽराधाः ।
सः । ववृधे । वरिमन् । आ । पृथिव्याः । अभि । क्रत्वा । नर्यः । पौंस्यैः । च ॥ā́ ǀ mádhvaḥ ǀ asmai ǀ asican ǀ ámatram ǀ índrāya ǀ pūrṇám ǀ sáḥ ǀ hí ǀ satyá-rādhāḥ ǀ
sáḥ ǀ vavṛdhe ǀ váriman ǀ ā́ ǀ pṛthivyā́ḥ ǀ abhí ǀ krátvā ǀ náryaḥ ǀ páuṃsyaiḥ ǀ ca ǁā ǀ madhvaḥ ǀ asmai ǀ asican ǀ amatram ǀ indrāya ǀ pūrṇam ǀ saḥ ǀ hi ǀ satya-rādhāḥ ǀ
saḥ ǀ vavṛdhe ǀ variman ǀ ā ǀ pṛthivyāḥ ǀ abhi ǀ kratvā ǀ naryaḥ ǀ pauṃsyaiḥ ǀ ca ǁ10.29.7 Aṣṭaka 7.7.23.2Anuvāka 10.2.145
-
Ṛk 8
व्या॑न॒ळिंद्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै॑ यतंते स॒ख्याय॑ पू॒र्वीः ।
आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥व्य् आनऌ इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः |
आ स्मा रथं न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ||vyā́naḷíndraḥ pṛ́tanāḥ svójā ā́smai yatante sakhyā́ya pūrvī́ḥ ǀ
ā́ smā rátham ná pṛ́tanāsu tiṣṭha yám bhadráyā sumatyā́ codáyāse ǁvy ānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |
ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ||वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः ।
आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥वि । आनट् । इन्द्रः । पृतनाः । सुऽओजाः । आ । अस्मै । यतन्ते । सख्याय । पूर्वीः ।
आ । स्म । रथम् । न । पृतनासु । तिष्ठ । यम् । भद्रया । सुऽमत्या । चोदयासे ॥ví ǀ ānaṭ ǀ índraḥ ǀ pṛ́tanāḥ ǀ su-ójāḥ ǀ ā́ ǀ asmai ǀ yatante ǀ sakhyā́ya ǀ pūrvī́ḥ ǀ
ā́ ǀ sma ǀ rátham ǀ ná ǀ pṛ́tanāsu ǀ tiṣṭha ǀ yám ǀ bhadráyā ǀ su-matyā́ ǀ codáyāse ǁvi ǀ ānaṭ ǀ indraḥ ǀ pṛtanāḥ ǀ su-ojāḥ ǀ ā ǀ asmai ǀ yatante ǀ sakhyāya ǀ pūrvīḥ ǀ
ā ǀ sma ǀ ratham ǀ na ǀ pṛtanāsu ǀ tiṣṭha ǀ yam ǀ bhadrayā ǀ su-matyā ǀ codayāse ǁ10.29.8 Aṣṭaka 7.7.23.3Anuvāka 10.2.146
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.