Ṛgveda · Maṇḍala 10 · Sūkta 29
Ṛk 10.29.1
Saṃhitā
वने॒ न वा॒ यो न्य॑धायि चा॒कंछुचि॑र्वां॒ स्तोमो॑ भुरणावजीगः ।
यस्येदिंद्रः॑ पुरु॒दिने॑षु॒ होता॑ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ॥
वने न वा यो न्य् अधायि चाकञ् छुचिर् वां स्तोमो भुरणाव् अजीगः |
यस्येद् इन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ||
váne ná vā yó nyádhāyi cākáñchúcirvām stómo bhuraṇāvajīgaḥ ǀ
yásyédíndraḥ purudíneṣu hótā nṛṇā́m náryo nṛ́tamaḥ kṣapā́vān ǁ
vane na vā yo ny adhāyi cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ |
yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān ||
Padapāṭha
वने॑ । न । वा॒ । यः । नि । अ॒धा॒यि॒ । चा॒कन् । शुचिः॑ । वा॒म् । स्तोमः॑ । भु॒र॒णौ॒ । अ॒जी॒ग॒रिति॑ ।
यस्य॑ । इत् । इन्द्रः॑ । पु॒रु॒ऽदिने॑षु । होता॑ । नृ॒णाम् । नर्यः॑ । नृऽत॑मः । क्ष॒पाऽवा॑न् ॥
वने । न । वा । यः । नि । अधायि । चाकन् । शुचिः । वाम् । स्तोमः । भुरणौ । अजीगरिति ।
यस्य । इत् । इन्द्रः । पुरुऽदिनेषु । होता । नृणाम् । नर्यः । नृऽतमः । क्षपाऽवान् ॥
váne ǀ ná ǀ vā ǀ yáḥ ǀ ní ǀ adhāyi ǀ cākán ǀ śúciḥ ǀ vām ǀ stómaḥ ǀ bhuraṇau ǀ ajīgaríti ǀ
yásya ǀ ít ǀ índraḥ ǀ puru-díneṣu ǀ hótā ǀ nṛṇā́m ǀ náryaḥ ǀ nṛ́-tamaḥ ǀ kṣapā́-vān ǁ
vane ǀ na ǀ vā ǀ yaḥ ǀ ni ǀ adhāyi ǀ cākan ǀ śuciḥ ǀ vām ǀ stomaḥ ǀ bhuraṇau ǀ ajīgariti ǀ
yasya ǀ it ǀ indraḥ ǀ puru-dineṣu ǀ hotā ǀ nṛṇām ǀ naryaḥ ǀ nṛ-tamaḥ ǀ kṣapā-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.029.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.22.01
- Maṇḍala · Anuvāka · Ṛk
- 10.02.139
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.