Ṛgveda · Maṇḍala 10 · Sūkta 28
Ṛk 10.28.12
Saṃhitā
ए॒ते शमी॑भिः सु॒शमी॑ अभूव॒न्ये हि॑न्वि॒रे त॒न्वः१॒॑ सोम॑ उ॒क्थैः ।
नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजां॑दि॒वि श्रवो॑ दधिषे॒ नाम॑ वी॒रः ॥
एते शमीभिः सुशमी अभूवन् ये हिन्विरे तन्वः सोम उक्थैः |
नृवद् वदन्न् उप नो माहि वाजान् दिवि श्रवो दधिषे नाम वीरः ||
eté śámībhiḥ suśámī abhūvanyé hinviré tanváḥ sóma uktháiḥ ǀ
nṛvádvádannúpa no māhi vā́jāndiví śrávo dadhiṣe nā́ma vīráḥ ǁ
ete śamībhiḥ suśamī abhūvan ye hinvire tanvaḥ soma ukthaiḥ |
nṛvad vadann upa no māhi vājān divi śravo dadhiṣe nāma vīraḥ ||
Padapāṭha
ए॒ते । शमी॑भिः । सु॒ऽशमी॑ । अ॒भू॒व॒न् । ये । हि॒न्वि॒रे । त॒न्वः॑ । सोमे॑ । उ॒क्थैः ।
नृ॒ऽवत् । वद॑न् । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । दि॒वि । श्रवः॑ । द॒धि॒षे॒ । नाम॑ । वी॒रः ॥
एते । शमीभिः । सुऽशमी । अभूवन् । ये । हिन्विरे । तन्वः । सोमे । उक्थैः ।
नृऽवत् । वदन् । उप । नः । माहि । वाजान् । दिवि । श्रवः । दधिषे । नाम । वीरः ॥
eté ǀ śámībhiḥ ǀ su-śámī ǀ abhūvan ǀ yé ǀ hinviré ǀ tanváḥ ǀ sóme ǀ uktháiḥ ǀ
nṛ-vát ǀ vádan ǀ úpa ǀ naḥ ǀ māhi ǀ vā́jān ǀ diví ǀ śrávaḥ ǀ dadhiṣe ǀ nā́ma ǀ vīráḥ ǁ
ete ǀ śamībhiḥ ǀ su-śamī ǀ abhūvan ǀ ye ǀ hinvire ǀ tanvaḥ ǀ some ǀ ukthaiḥ ǀ
nṛ-vat ǀ vadan ǀ upa ǀ naḥ ǀ māhi ǀ vājān ǀ divi ǀ śravaḥ ǀ dadhiṣe ǀ nāma ǀ vīraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.028.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.21.06
- Maṇḍala · Anuvāka · Ṛk
- 10.02.138
- Devatā देवता
- 1: Vasukra’s Wife; 2, 4, 6, 8, 10, 12: Vasukra; 3, 5, 7, 9, 11: Indra
- Ṛṣi ऋषि
- 1: Vasukra Aindra’s Wife; 2, 6, 8, 10, 12: Indra; 3-5, 7, 9, 11: Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.