Ṛgveda · Maṇḍala 10 · Sūkta 28
Ṛk 10.28.1
Saṃhitā
विश्वो॒ ह्य१॒॑न्यो अ॒रिरा॑ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम ।
ज॒क्षी॒याद्धा॒ना उ॒त सोमं॑ पपीया॒त्स्वा॑शितः॒ पुन॒रस्तं॑ जगायात् ॥
विश्वो ह्य् अन्यो अरिर् आजगाम ममेद् अह श्वशुरो ना जगाम |
जक्षीयाद् धाना उत सोमम् पपीयात् स्वाशितः पुनर् अस्तं जगायात् ||
víśvo hyányó arírājagā́ma mámédáha śváśuro nā́ jagāma ǀ
jakṣīyā́ddhānā́ utá sómam papīyātsvā́śitaḥ púnarástam jagāyāt ǁ
viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma |
jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt ||
Padapāṭha
विश्वः॑ । हि । अ॒न्यः । अ॒रिः । आ॒ऽज॒गाम॑ । मम॑ । इत् । अह॑ । श्वशु॑रः । न । आ । ज॒गा॒म॒ ।
ज॒क्षी॒यात् । धा॒नाः । उ॒त । सोम॑म् । प॒पी॒या॒त् । सुऽआ॑शितः । पुनः॑ । अस्त॑म् । ज॒गा॒या॒त् ॥
विश्वः । हि । अन्यः । अरिः । आऽजगाम । मम । इत् । अह । श्वशुरः । न । आ । जगाम ।
जक्षीयात् । धानाः । उत । सोमम् । पपीयात् । सुऽआशितः । पुनः । अस्तम् । जगायात् ॥
víśvaḥ ǀ hí ǀ anyáḥ ǀ aríḥ ǀ ā-jagā́ma ǀ máma ǀ ít ǀ áha ǀ śváśuraḥ ǀ ná ǀ ā́ ǀ jagāma ǀ
jakṣīyā́t ǀ dhānā́ḥ ǀ utá ǀ sómam ǀ papīyāt ǀ sú-āśitaḥ ǀ púnaḥ ǀ ástam ǀ jagāyāt ǁ
viśvaḥ ǀ hi ǀ anyaḥ ǀ ariḥ ǀ ā-jagāma ǀ mama ǀ it ǀ aha ǀ śvaśuraḥ ǀ na ǀ ā ǀ jagāma ǀ
jakṣīyāt ǀ dhānāḥ ǀ uta ǀ somam ǀ papīyāt ǀ su-āśitaḥ ǀ punaḥ ǀ astam ǀ jagāyāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.028.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.20.01
- Maṇḍala · Anuvāka · Ṛk
- 10.02.127
- Devatā देवता
- 1: Vasukra’s Wife; 2, 4, 6, 8, 10, 12: Vasukra; 3, 5, 7, 9, 11: Indra
- Ṛṣi ऋषि
- 1: Vasukra Aindra’s Wife; 2, 6, 8, 10, 12: Indra; 3-5, 7, 9, 11: Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.