Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.24
Saṃhitā
सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये ।
आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥
सा ते जीवातुर् उत तस्य विद्धि मा स्मैतादृग् अप गूहः समर्ये |
आविः स्वः कृणुते गूहते बुसं स पादुर् अस्य निर्णिजो न मुच्यते ||
sā́ te jīvā́turutá tásya viddhi mā́ smaitādṛ́gápa gūhaḥ samaryé ǀ
āvíḥ sváḥ kṛṇuté gū́hate busám sá pādúrasya nirṇíjo ná mucyate ǁ
sā te jīvātur uta tasya viddhi mā smaitādṛg apa gūhaḥ samarye |
āviḥ svaḥ kṛṇute gūhate busaṃ sa pādur asya nirṇijo na mucyate ||
Padapāṭha
सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒ऽम॒र्ये ।
आ॒विः । स्व१॒॑रिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥
सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । सऽमर्ये ।
आविः । स्वरिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥
sā́ ǀ te ǀ jīvā́tuḥ ǀ utá ǀ tásya ǀ viddhi ǀ mā́ ǀ sma ǀ etādṛ́k ǀ ápa ǀ gūhaḥ ǀ sa-maryé ǀ
āvíḥ ǀ sváríti sváḥ ǀ kṛṇuté ǀ gū́hate ǀ busám ǀ sáḥ ǀ pādúḥ ǀ asya ǀ niḥ-níjaḥ ǀ ná ǀ mucyate ǁ
sā ǀ te ǀ jīvātuḥ ǀ uta ǀ tasya ǀ viddhi ǀ mā ǀ sma ǀ etādṛk ǀ apa ǀ gūhaḥ ǀ sa-marye ǀ
āviḥ ǀ svariti svaḥ ǀ kṛṇute ǀ gūhate ǀ busam ǀ saḥ ǀ pāduḥ ǀ asya ǀ niḥ-nijaḥ ǀ na ǀ mucyate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.24
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.19.04
- Maṇḍala · Anuvāka · Ṛk
- 10.02.126
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.