Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.11
Saṃhitā
यस्या॑न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म॑न्याते अं॒धां ।
क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात् ॥
यस्यानक्षा दुहिता जात्व् आस कस् तां विद्वां अभि मन्याते अन्धाम् |
कतरो मेनिम् प्रति तम् मुचाते य ईं वहाते य ईं वा वरेयात् ||
yásyānakṣā́ duhitā́ jā́tvā́sa kástā́m vidvā́m̐ abhí manyāte andhā́m ǀ
kataró mením práti tám mucāte yá īm váhāte yá īm vā vareyā́t ǁ
yasyānakṣā duhitā jātv āsa kas tāṃ vidvāṃ abhi manyāte andhām |
kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt ||
Padapāṭha
यस्य॑ । अ॒न॒क्षा । दु॒हि॒ता । जातु॑ । आस॑ । कः । ताम् । वि॒द्वान् । अ॒भि । म॒न्या॒ते॒ । अ॒न्धाम् ।
क॒त॒रः । मे॒निम् । प्रति॑ । तम् । मु॒चा॒ते॒ । यः । ई॒म् । वहा॑ते । यः । ई॒म् । वा॒ । व॒रे॒ऽयात् ॥
यस्य । अनक्षा । दुहिता । जातु । आस । कः । ताम् । विद्वान् । अभि । मन्याते । अन्धाम् ।
कतरः । मेनिम् । प्रति । तम् । मुचाते । यः । ईम् । वहाते । यः । ईम् । वा । वरेऽयात् ॥
yásya ǀ anakṣā́ ǀ duhitā́ ǀ jā́tu ǀ ā́sa ǀ káḥ ǀ tā́m ǀ vidvā́n ǀ abhí ǀ manyāte ǀ andhā́m ǀ
kataráḥ ǀ mením ǀ práti ǀ tám ǀ mucāte ǀ yáḥ ǀ īm ǀ váhāte ǀ yáḥ ǀ īm ǀ vā ǀ vare-yā́t ǁ
yasya ǀ anakṣā ǀ duhitā ǀ jātu ǀ āsa ǀ kaḥ ǀ tām ǀ vidvān ǀ abhi ǀ manyāte ǀ andhām ǀ
kataraḥ ǀ menim ǀ prati ǀ tam ǀ mucāte ǀ yaḥ ǀ īm ǀ vahāte ǀ yaḥ ǀ īm ǀ vā ǀ vare-yāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.17.01
- Maṇḍala · Anuvāka · Ṛk
- 10.02.113
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.