Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.18
Saṃhitā
वि क्रो॑श॒नासो॒ विष्वं॑च आय॒न्पचा॑ति॒ नेमो॑ न॒हि पक्ष॑द॒र्धः ।
अ॒यं मे॑ दे॒वः स॑वि॒ता तदा॑ह॒ द्र्व॑न्न॒ इद्व॑नवत्स॒र्पिर॑न्नः ॥
वि क्रोशनासो विष्वञ्च आयन् पचाति नेमो नहि पक्षद् अर्धः |
अयम् मे देवः सविता तद् आह द्र्वन्न इद् वनवत् सर्पिरन्नः ||
ví krośanā́so víṣvañca āyanpácāti némo nahí pákṣadardháḥ ǀ
ayám me deváḥ savitā́ tádāha drvánna ídvanavatsarpírannaḥ ǁ
vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ |
ayam me devaḥ savitā tad āha drvanna id vanavat sarpirannaḥ ||
Padapāṭha
वि । क्रो॒श॒नासः॑ । विष्व॑ञ्चः । आ॒य॒न् । पचा॑ति । नेमः॑ । न॒हि । पक्ष॑त् । अ॒र्धः ।
अ॒यम् । मे॒ । दे॒वः । स॒वि॒ता । तत् । आ॒ह॒ । द्रुऽअ॑न्नः । इत् । व॒न॒व॒त् । स॒र्पिःऽअ॑न्नः ॥
वि । क्रोशनासः । विष्वञ्चः । आयन् । पचाति । नेमः । नहि । पक्षत् । अर्धः ।
अयम् । मे । देवः । सविता । तत् । आह । द्रुऽअन्नः । इत् । वनवत् । सर्पिःऽअन्नः ॥
ví ǀ krośanā́saḥ ǀ víṣvañcaḥ ǀ āyan ǀ pácāti ǀ némaḥ ǀ nahí ǀ pákṣat ǀ ardháḥ ǀ
ayám ǀ me ǀ deváḥ ǀ savitā́ ǀ tát ǀ āha ǀ drú-annaḥ ǀ ít ǀ vanavat ǀ sarpíḥ-annaḥ ǁ
vi ǀ krośanāsaḥ ǀ viṣvañcaḥ ǀ āyan ǀ pacāti ǀ nemaḥ ǀ nahi ǀ pakṣat ǀ ardhaḥ ǀ
ayam ǀ me ǀ devaḥ ǀ savitā ǀ tat ǀ āha ǀ dru-annaḥ ǀ it ǀ vanavat ǀ sarpiḥ-annaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.18.03
- Maṇḍala · Anuvāka · Ṛk
- 10.02.120
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.