Ṛgveda · Maṇḍala 10 · Sūkta 27
Ṛk 10.27.20
Saṃhitā
ए॒तौ मे॒ गावौ॑ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से॑धी॒र्मुहु॒रिन्म॑मंधि ।
आप॑श्चिदस्य॒ वि न॑शं॒त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ॥
एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर् मुहुर् इन् ममन्धि |
आपश् चिद् अस्य वि नशन्त्य् अर्थं सूरश् च मर्क उपरो बभूवान् ||
etáu me gā́vau pramarásya yuktáu mó ṣú prá sedhīrmúhurínmamandhi ǀ
ā́paścidasya ví naśantyártham sū́raśca marká úparo babhūvā́n ǁ
etau me gāvau pramarasya yuktau mo ṣu pra sedhīr muhur in mamandhi |
āpaś cid asya vi naśanty arthaṃ sūraś ca marka uparo babhūvān ||
Padapāṭha
ए॒तौ । मे॒ । गावौ॑ । प्र॒ऽम॒रस्य॑ । यु॒क्तौ । मो इति॑ । सु । प्र । से॒धीः॒ । मुहुः॑ । इत् । म॒म॒न्धि॒ ।
आपः॑ । चि॒त् । अ॒स्य॒ । वि । न॒श॒न्ति॒ । अर्थ॑म् । सूरः॑ । च॒ । म॒र्कः । उप॑रः । ब॒भू॒वान् ॥
एतौ । मे । गावौ । प्रऽमरस्य । युक्तौ । मो इति । सु । प्र । सेधीः । मुहुः । इत् । ममन्धि ।
आपः । चित् । अस्य । वि । नशन्ति । अर्थम् । सूरः । च । मर्कः । उपरः । बभूवान् ॥
etáu ǀ me ǀ gā́vau ǀ pra-marásya ǀ yuktáu ǀ mó íti ǀ sú ǀ prá ǀ sedhīḥ ǀ múhuḥ ǀ ít ǀ mamandhi ǀ
ā́paḥ ǀ cit ǀ asya ǀ ví ǀ naśanti ǀ ártham ǀ sū́raḥ ǀ ca ǀ markáḥ ǀ úparaḥ ǀ babhūvā́n ǁ
etau ǀ me ǀ gāvau ǀ pra-marasya ǀ yuktau ǀ mo iti ǀ su ǀ pra ǀ sedhīḥ ǀ muhuḥ ǀ it ǀ mamandhi ǀ
āpaḥ ǀ cit ǀ asya ǀ vi ǀ naśanti ǀ artham ǀ sūraḥ ǀ ca ǀ markaḥ ǀ uparaḥ ǀ babhūvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.027.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.7.18.05
- Maṇḍala · Anuvāka · Ṛk
- 10.02.122
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasukra Aindra
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.