Sūkta 170
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Vibhrāj Saurya
- Chandas छन्दस्
- Jagatī, Āstārapaṅkti
Metres by ṛk
1st set of styles virāḍjagatī (1, 3); jagatī (2); āstārapaṅkti (4)
2nd set of styles jagatī (1-3); āstārapaṅkti (4)
-
Ṛk 1
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतं ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् |
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ||vibhrā́ḍbṛhátpibatu somyám mádhvā́yurdádhadyajñápatāvávihrutam ǀ
vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rājati ǁvibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam |
vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ||वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽह्रुतम् ।
वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥विऽभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञऽपतौ । अविऽह्रुतम् ।
वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥vi-bhrā́ṭ ǀ bṛhát ǀ pibatu ǀ somyám ǀ mádhu ǀ ā́yuḥ ǀ dádhat ǀ yajñá-patau ǀ ávi-hrutam ǀ
vā́ta-jūtaḥ ǀ yáḥ ǀ abhi-rákṣati ǀ tmánā ǀ pra-jā́ḥ ǀ pupoṣa ǀ purudhā́ ǀ ví ǀ rājati ǁvi-bhrāṭ ǀ bṛhat ǀ pibatu ǀ somyam ǀ madhu ǀ āyuḥ ǀ dadhat ǀ yajña-patau ǀ avi-hrutam ǀ
vāta-jūtaḥ ǀ yaḥ ǀ abhi-rakṣati ǀ tmanā ǀ pra-jāḥ ǀ pupoṣa ǀ purudhā ǀ vi ǀ rājati ǁ10.170.1 Aṣṭaka 8.8.28.1Anuvāka 10.12.91
-
Ṛk 2
वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्मं॑दि॒वो ध॒रुणे॑ स॒त्यमर्पि॑तं ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हंत॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ॥विभ्राड् बृहत् सुभृतं वाजसातमं धर्मन् दिवो धरुणे सत्यम् अर्पितम् |
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर् जज्ञे असुरहा सपत्नहा ||vibhrā́ḍbṛhátsúbhṛtam vājasā́tamam dhármandivó dharúṇe satyámárpitam ǀ
amitrahā́ vṛtrahā́ dasyuhántamam jyótirjajñe asurahā́ sapatnahā́ ǁvibhrāḍ bṛhat subhṛtaṃ vājasātamaṃ dharman divo dharuṇe satyam arpitam |
amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā ||वि॒ऽभ्राट् । बृ॒हत् । सुऽभृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑न् । दि॒वः । ध॒रुणे॑ । स॒त्यम् । अर्पि॑तम् ।
अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योतिः॑ । ज॒ज्ञे॒ । अ॒सु॒र॒ऽहा । स॒प॒त्न॒ऽहा ॥विऽभ्राट् । बृहत् । सुऽभृतम् । वाजऽसातमम् । धर्मन् । दिवः । धरुणे । सत्यम् । अर्पितम् ।
अमित्रऽहा । वृत्रऽहा । दस्युहन्ऽतमम् । ज्योतिः । जज्ञे । असुरऽहा । सपत्नऽहा ॥vi-bhrā́ṭ ǀ bṛhát ǀ sú-bhṛtam ǀ vāja-sā́tamam ǀ dhárman ǀ diváḥ ǀ dharúṇe ǀ satyám ǀ árpitam ǀ
amitra-hā́ ǀ vṛtra-hā́ ǀ dasyuhán-tamam ǀ jyótiḥ ǀ jajñe ǀ asura-hā́ ǀ sapatna-hā́ ǁvi-bhrāṭ ǀ bṛhat ǀ su-bhṛtam ǀ vāja-sātamam ǀ dharman ǀ divaḥ ǀ dharuṇe ǀ satyam ǀ arpitam ǀ
amitra-hā ǀ vṛtra-hā ǀ dasyuhan-tamam ǀ jyotiḥ ǀ jajñe ǀ asura-hā ǀ sapatna-hā ǁ10.170.2 Aṣṭaka 8.8.28.2Anuvāka 10.12.92
-
Ṛk 3
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् ।
वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तं ॥इदं श्रेष्ठं ज्योतिषां ज्योतिर् उत्तमं विश्वजिद् धनजिद् उच्यते बृहत् |
विश्वभ्राड् भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ||idám śréṣṭham jyótiṣām jyótiruttamám viśvajíddhanajíducyate bṛhát ǀ
viśvabhrā́ḍbhrājó máhi sū́ryo dṛśá urú paprathe sáha ójo ácyutam ǁidaṃ śreṣṭhaṃ jyotiṣāṃ jyotir uttamaṃ viśvajid dhanajid ucyate bṛhat |
viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् ।
वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । उत्ऽतमम् । विश्वऽजित् । धनऽजित् । उच्यते । बृहत् ।
विश्वऽभ्राट् । भ्राजः । महि । सूर्यः । दृशे । उरु । पप्रथे । सहः । ओजः । अच्युतम् ॥idám ǀ śréṣṭham ǀ jyótiṣām ǀ jyótiḥ ǀ ut-tamám ǀ viśva-jít ǀ dhana-jít ǀ ucyate ǀ bṛhát ǀ
viśva-bhrā́ṭ ǀ bhrājáḥ ǀ máhi ǀ sū́ryaḥ ǀ dṛśé ǀ urú ǀ paprathe ǀ sáhaḥ ǀ ójaḥ ǀ ácyutam ǁidam ǀ śreṣṭham ǀ jyotiṣām ǀ jyotiḥ ǀ ut-tamam ǀ viśva-jit ǀ dhana-jit ǀ ucyate ǀ bṛhat ǀ
viśva-bhrāṭ ǀ bhrājaḥ ǀ mahi ǀ sūryaḥ ǀ dṛśe ǀ uru ǀ paprathe ǀ sahaḥ ǀ ojaḥ ǀ acyutam ǁ10.170.3 Aṣṭaka 8.8.28.3Anuvāka 10.12.93
-
Ṛk 4
वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः |
येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ||vibhrā́jañjyótiṣā svárágaccho rocanám diváḥ ǀ
yénemā́ víśvā bhúvanānyā́bhṛtā viśvákarmaṇā viśvádevyāvatā ǁvibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā ||वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।
येन । इमा । विश्वा । भुवनानि । आऽभृता । विश्वऽकर्मणा । विश्वदेव्यऽवता ॥vi-bhrā́jan ǀ jyótiṣā ǀ sváḥ ǀ ágacchaḥ ǀ rocanám ǀ diváḥ ǀ
yéna ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ ā́-bhṛtā ǀ viśvá-karmaṇā ǀ viśvádevya-vatā ǁvi-bhrājan ǀ jyotiṣā ǀ svaḥ ǀ agacchaḥ ǀ rocanam ǀ divaḥ ǀ
yena ǀ imā ǀ viśvā ǀ bhuvanāni ǀ ā-bhṛtā ǀ viśva-karmaṇā ǀ viśvadevya-vatā ǁ10.170.4 Aṣṭaka 8.8.28.4Anuvāka 10.12.94
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.