Ṛgveda · Maṇḍala 10 · Sūkta 170

Ṛk 10.170.4

Sūrya · Vibhrāj Saurya

The whole sūkta Link

Saṃhitā

वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता ॥

विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः |
येनेमा विश्वा भुवनान्य् आभृता विश्वकर्मणा विश्वदेव्यावता ||

vibhrā́jañjyótiṣā svárágaccho rocanám diváḥ ǀ
yénemā́ víśvā bhúvanānyā́bhṛtā viśvákarmaṇā viśvádevyāvatā ǁ

vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
yenemā viśvā bhuvanāny ābhṛtā viśvakarmaṇā viśvadevyāvatā ||

Padapāṭha

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि । आऽभृ॑ता । वि॒श्वऽक॑र्मणा । वि॒श्वदे॑व्यऽवता ॥

विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।
येन । इमा । विश्वा । भुवनानि । आऽभृता । विश्वऽकर्मणा । विश्वदेव्यऽवता ॥

vi-bhrā́jan ǀ jyótiṣā ǀ sváḥ ǀ ágacchaḥ ǀ rocanám ǀ diváḥ ǀ
yéna ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ ā́-bhṛtā ǀ viśvá-karmaṇā ǀ viśvádevya-vatā ǁ

vi-bhrājan ǀ jyotiṣā ǀ svaḥ ǀ agacchaḥ ǀ rocanam ǀ divaḥ ǀ
yena ǀ imā ǀ viśvā ǀ bhuvanāni ǀ ā-bhṛtā ǀ viśva-karmaṇā ǀ viśvadevya-vatā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.170.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.28.04
Maṇḍala · Anuvāka · Ṛk
10.12.094
Devatā देवता
Sūrya
Ṛṣi ऋषि
Vibhrāj Saurya
Chandas छन्दस्
Jagatī, Āstārapaṅkti
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.170.4

Interpretations

Sāyaṇa

हे सूर्य ज्योतिषा तेजसा स्वः सर्वं जगद्विभ्राजन्विभ्राजयन्दिवः सम्बन्धि रोचनं स्थानमगच्छः। प्राप्नोः। विश्वकर्मणा सर्वव्यापारहेतुना विश्वदेव्यावता। विश्वेशां देवानां हितो यागादिर्विश्वदेव्यः। तद्वता येन सौरेण तेजसेमेमानि परिद्रुश्यमानानि विश्वा सर्वाणि भुवनान्युदकानि भ्ॐआन्याभृता घर्मकाल् आभृतानि भवन्ति। यद्वा। सर्वाणि भूतजातान्याभृता समन्ताद्भृतानि पोषितानि भवन्ति। तेन ज्योतिषान्वयः॥४॥