Ṛgveda · Maṇḍala 10 · Sūkta 170
Ṛk 10.170.1
Saṃhitā
वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतं ।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑ प्र॒जाः पु॑पोष पुरु॒धा वि रा॑जति ॥
विभ्राड् बृहत् पिबतु सोम्यम् मध्व् आयुर् दधद् यज्ञपताव् अविह्रुतम् |
वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ||
vibhrā́ḍbṛhátpibatu somyám mádhvā́yurdádhadyajñápatāvávihrutam ǀ
vā́tajūto yó abhirákṣati tmánā prajā́ḥ pupoṣa purudhā́ ví rājati ǁ
vibhrāḍ bṛhat pibatu somyam madhv āyur dadhad yajñapatāv avihrutam |
vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati ||
Padapāṭha
वि॒ऽभ्राट् । बृ॒हत् । पि॒ब॒तु॒ । सो॒म्यम् । मधु॑ । आयुः॑ । दध॑त् । य॒ज्ञऽप॑तौ । अवि॑ऽह्रुतम् ।
वात॑ऽजूतः । यः । अ॒भि॒ऽरक्ष॑ति । त्मना॑ । प्र॒ऽजाः । पु॒पो॒ष॒ । पु॒रु॒धा । वि । रा॒ज॒ति॒ ॥
विऽभ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञऽपतौ । अविऽह्रुतम् ।
वातऽजूतः । यः । अभिऽरक्षति । त्मना । प्रऽजाः । पुपोष । पुरुधा । वि । राजति ॥
vi-bhrā́ṭ ǀ bṛhát ǀ pibatu ǀ somyám ǀ mádhu ǀ ā́yuḥ ǀ dádhat ǀ yajñá-patau ǀ ávi-hrutam ǀ
vā́ta-jūtaḥ ǀ yáḥ ǀ abhi-rákṣati ǀ tmánā ǀ pra-jā́ḥ ǀ pupoṣa ǀ purudhā́ ǀ ví ǀ rājati ǁ
vi-bhrāṭ ǀ bṛhat ǀ pibatu ǀ somyam ǀ madhu ǀ āyuḥ ǀ dadhat ǀ yajña-patau ǀ avi-hrutam ǀ
vāta-jūtaḥ ǀ yaḥ ǀ abhi-rakṣati ǀ tmanā ǀ pra-jāḥ ǀ pupoṣa ǀ purudhā ǀ vi ǀ rājati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.170.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.28.01
- Maṇḍala · Anuvāka · Ṛk
- 10.12.091
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Vibhrāj Saurya
- Chandas छन्दस्
- Jagatī, Āstārapaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.