Sūkta 149
- Devatā देवता
- Savitṛ
- Ṛṣi ऋषि
- Arcat Hairaṇyastūpa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhuriktriṣṭup (1, 4); virāṭtrisṭup (2, 5); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
स॒वि॒ता यं॒त्रैः पृ॑थि॒वीम॑रम्णादस्कंभ॒ने स॑वि॒ता द्याम॑दृंहत् ।
अश्व॑मिवाधुक्ष॒द्धुनि॑मं॒तरि॑क्षम॒तूर्ते॑ ब॒द्धं स॑वि॒ता स॑मु॒द्रं ॥सविता यन्त्रैः पृथिवीम् अरम्णाद् अस्कम्भने सविता द्याम् अदृंहत् |
अश्वम् इवाधुक्षद् धुनिम् अन्तरिक्षम् अतूर्ते बद्धं सविता समुद्रम् ||savitā́ yantráiḥ pṛthivī́maramṇādaskambhané savitā́ dyā́madṛṃhat ǀ
áśvamivādhukṣaddhúnimantárikṣamatū́rte baddhám savitā́ samudrám ǁsavitā yantraiḥ pṛthivīm aramṇād askambhane savitā dyām adṛṃhat |
aśvam ivādhukṣad dhunim antarikṣam atūrte baddhaṃ savitā samudram ||स॒वि॒ता । य॒न्त्रैः । पृ॒थि॒वीम् । अ॒र॒म्णा॒त् । अ॒स्क॒म्भ॒ने । स॒वि॒ता । द्याम् । अ॒दृं॒ह॒त् ।
अश्व॑म्ऽइव । अ॒धु॒क्ष॒त् । धुनि॑म् । अ॒न्तरि॑क्षम् । अ॒तूर्ते॑ । ब॒द्धम् । स॒वि॒ता । स॒मु॒द्रम् ॥सविता । यन्त्रैः । पृथिवीम् । अरम्णात् । अस्कम्भने । सविता । द्याम् । अदृंहत् ।
अश्वम्ऽइव । अधुक्षत् । धुनिम् । अन्तरिक्षम् । अतूर्ते । बद्धम् । सविता । समुद्रम् ॥savitā́ ǀ yantráiḥ ǀ pṛthivī́m ǀ aramṇāt ǀ askambhané ǀ savitā́ ǀ dyā́m ǀ adṛṃhat ǀ
áśvam-iva ǀ adhukṣat ǀ dhúnim ǀ antárikṣam ǀ atū́rte ǀ baddhám ǀ savitā́ ǀ samudrám ǁsavitā ǀ yantraiḥ ǀ pṛthivīm ǀ aramṇāt ǀ askambhane ǀ savitā ǀ dyām ǀ adṛṃhat ǀ
aśvam-iva ǀ adhukṣat ǀ dhunim ǀ antarikṣam ǀ atūrte ǀ baddham ǀ savitā ǀ samudram ǁ10.149.1 Aṣṭaka 8.8.7.1Anuvāka 10.11.130
-
Ṛk 2
यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद ।
अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेतां ॥यत्रा समुद्र स्कभितो व्य् औनद् अपां नपात् सविता तस्य वेद |
अतो भूर् अत आ उत्थितं रजो ऽतो द्यावापृथिवी अप्रथेताम् ||yátrā samudráḥ skabhitó vyáunadápām napātsavitā́ tásya veda ǀ
áto bhū́ráta ā útthitam rájó’to dyā́vāpṛthivī́ aprathetām ǁyatrā samudra skabhito vy aunad apāṃ napāt savitā tasya veda |
ato bhūr ata ā utthitaṃ rajo 'to dyāvāpṛthivī aprathetām ||यत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ ।
अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥यत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद ।
अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥yátra ǀ samudráḥ ǀ skabhitáḥ ǀ ví ǀ áunat ǀ ápām ǀ napāt ǀ savitā́ ǀ tásya ǀ veda ǀ
átaḥ ǀ bhū́ḥ ǀ átaḥ ǀ āḥ ǀ útthitam ǀ rájaḥ ǀ átaḥ ǀ dyā́vāpṛthivī́ íti ǀ aprathetām ǁyatra ǀ samudraḥ ǀ skabhitaḥ ǀ vi ǀ aunat ǀ apām ǀ napāt ǀ savitā ǀ tasya ǀ veda ǀ
ataḥ ǀ bhūḥ ǀ ataḥ ǀ āḥ ǀ utthitam ǀ rajaḥ ǀ ataḥ ǀ dyāvāpṛthivī iti ǀ aprathetām ǁ10.149.2 Aṣṭaka 8.8.7.2Anuvāka 10.11.131
-
Ṛk 3
प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना ।
सु॒प॒र्णो अं॒ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥पश्चेदम् अन्यद् अभवद् यजत्रम् अमर्त्यस्य भुवनस्य भूना |
सुपर्णो अङ्ग सवितुर् गरुत्मान् पूर्वो जातः स उ अस्यानु धर्म ||paścédámanyádabhavadyájatramámartyasya bhúvanasya bhūnā́ ǀ
suparṇó aṅgá savitúrgarútmānpū́rvo jātáḥ sá u asyā́nu dhárma ǁpaścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā |
suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma ||प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना ।
सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊं॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना ।
सुऽपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊं इति । अस्य । अनु । धर्म ॥paścā́ ǀ idám ǀ anyát ǀ abhavat ǀ yájatram ǀ ámartyasya ǀ bhúvanasya ǀ bhūnā́ ǀ
su-parṇáḥ ǀ aṅgá ǀ savitúḥ ǀ garútmān ǀ pū́rvaḥ ǀ jātáḥ ǀ sáḥ ǀ ūṃ íti ǀ asya ǀ ánu ǀ dhárma ǁpaścā ǀ idam ǀ anyat ǀ abhavat ǀ yajatram ǀ amartyasya ǀ bhuvanasya ǀ bhūnā ǀ
su-parṇaḥ ǀ aṅga ǀ savituḥ ǀ garutmān ǀ pūrvaḥ ǀ jātaḥ ǀ saḥ ǀ ūṃ iti ǀ asya ǀ anu ǀ dharma ǁ10.149.3 Aṣṭaka 8.8.7.3Anuvāka 10.11.132
-
Ṛk 4
गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा॑न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा॑ना ।
पति॑रिव जा॒याम॒भि नो॒ न्ये॑तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा॑रः ॥गाव इव ग्रामं यूयुधिर् इवाश्वान् वाश्रेव वत्सं सुमना दुहाना |
पतिर् इव जायाम् अभि नो न्य् एतु धर्ता दिवः सविता विश्ववारः ||gā́va iva grā́mam yū́yudhirivā́śvānvāśréva vatsám sumánā dúhānā ǀ
pátiriva jāyā́mabhí no nyétu dhartā́ diváḥ savitā́ viśvávāraḥ ǁgāva iva grāmaṃ yūyudhir ivāśvān vāśreva vatsaṃ sumanā duhānā |
patir iva jāyām abhi no ny etu dhartā divaḥ savitā viśvavāraḥ ||गावः॑ऽइव । ग्राम॑म् । युयु॑धिःऽइव । अश्वा॑न् । वा॒श्राऽइ॑व । व॒त्सम् । सु॒ऽमनाः॑ । दुहा॑ना ।
पतिः॑ऽइव । जा॒याम् । अ॒भि । नः॒ । नि । ए॒तु॒ । ध॒र्ता । दि॒वः । स॒वि॒ता । वि॒श्वऽवा॑रः ॥गावःऽइव । ग्रामम् । युयुधिःऽइव । अश्वान् । वाश्राऽइव । वत्सम् । सुऽमनाः । दुहाना ।
पतिःऽइव । जायाम् । अभि । नः । नि । एतु । धर्ता । दिवः । सविता । विश्वऽवारः ॥gā́vaḥ-iva ǀ grā́mam ǀ yúyudhiḥ-iva ǀ áśvān ǀ vāśrā́-iva ǀ vatsám ǀ su-mánāḥ ǀ dúhānā ǀ
pátiḥ-iva ǀ jāyā́m ǀ abhí ǀ naḥ ǀ ní ǀ etu ǀ dhartā́ ǀ diváḥ ǀ savitā́ ǀ viśvá-vāraḥ ǁgāvaḥ-iva ǀ grāmam ǀ yuyudhiḥ-iva ǀ aśvān ǀ vāśrā-iva ǀ vatsam ǀ su-manāḥ ǀ duhānā ǀ
patiḥ-iva ǀ jāyām ǀ abhi ǀ naḥ ǀ ni ǀ etu ǀ dhartā ǀ divaḥ ǀ savitā ǀ viśva-vāraḥ ǁ10.149.4 Aṣṭaka 8.8.7.4Anuvāka 10.11.133
-
Ṛk 5
हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वांगिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव॑से॒ वंद॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हं ॥हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् |
एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ||híraṇyastūpaḥ savitaryáthā tvāṅgirasó juhvé vā́je asmín ǀ
evā́ tvā́rcannávase vándamānaḥ sómasyevāṃśúm práti jāgarāhám ǁhiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin |
evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham ||हिर॑ण्यऽस्तूपः । स॒वि॒तः॒ । यथा॑ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे॑ । अ॒स्मिन् ।
ए॒व । त्वा॒ । अर्च॑न् । अव॑से । वन्द॑मानः । सोम॑स्यऽइव । अं॒शुम् । प्रति॑ । जा॒ग॒र॒ । अ॒हम् ॥हिरण्यऽस्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् ।
एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यऽइव । अंशुम् । प्रति । जागर । अहम् ॥híraṇya-stūpaḥ ǀ savitaḥ ǀ yáthā ǀ tvā ǀ āṅgirasáḥ ǀ juhvé ǀ vā́je ǀ asmín ǀ
evá ǀ tvā ǀ árcan ǀ ávase ǀ vándamānaḥ ǀ sómasya-iva ǀ aṃśúm ǀ práti ǀ jāgara ǀ ahám ǁhiraṇya-stūpaḥ ǀ savitaḥ ǀ yathā ǀ tvā ǀ āṅgirasaḥ ǀ juhve ǀ vāje ǀ asmin ǀ
eva ǀ tvā ǀ arcan ǀ avase ǀ vandamānaḥ ǀ somasya-iva ǀ aṃśum ǀ prati ǀ jāgara ǀ aham ǁ10.149.5 Aṣṭaka 8.8.7.5Anuvāka 10.11.134
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.