Ṛgveda · Maṇḍala 10 · Sūkta 149

Ṛk 10.149.5

Savitṛ · Arcat Hairaṇyastūpa

The whole sūkta Link

Saṃhitā

हिर॑ण्यस्तूपः सवित॒र्यथा॑ त्वांगिर॒सो जु॒ह्वे वाजे॑ अ॒स्मिन् ।
ए॒वा त्वार्च॒न्नव॑से॒ वंद॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हं ॥

हिरण्यस्तूपः सवितर् यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् |
एवा त्वार्चन्न् अवसे वन्दमानः सोमस्येवांशुम् प्रति जागराहम् ||

híraṇyastūpaḥ savitaryáthā tvāṅgirasó juhvé vā́je asmín ǀ
evā́ tvā́rcannávase vándamānaḥ sómasyevāṃśúm práti jāgarāhám ǁ

hiraṇyastūpaḥ savitar yathā tvāṅgiraso juhve vāje asmin |
evā tvārcann avase vandamānaḥ somasyevāṃśum prati jāgarāham ||

Padapāṭha

हिर॑ण्यऽस्तूपः । स॒वि॒तः॒ । यथा॑ । त्वा॒ । आ॒ङ्गि॒र॒सः । जु॒ह्वे । वाजे॑ । अ॒स्मिन् ।
ए॒व । त्वा॒ । अर्च॑न् । अव॑से । वन्द॑मानः । सोम॑स्यऽइव । अं॒शुम् । प्रति॑ । जा॒ग॒र॒ । अ॒हम् ॥

हिरण्यऽस्तूपः । सवितः । यथा । त्वा । आङ्गिरसः । जुह्वे । वाजे । अस्मिन् ।
एव । त्वा । अर्चन् । अवसे । वन्दमानः । सोमस्यऽइव । अंशुम् । प्रति । जागर । अहम् ॥

híraṇya-stūpaḥ ǀ savitaḥ ǀ yáthā ǀ tvā ǀ āṅgirasáḥ ǀ juhvé ǀ vā́je ǀ asmín ǀ
evá ǀ tvā ǀ árcan ǀ ávase ǀ vándamānaḥ ǀ sómasya-iva ǀ aṃśúm ǀ práti ǀ jāgara ǀ ahám ǁ

hiraṇya-stūpaḥ ǀ savitaḥ ǀ yathā ǀ tvā ǀ āṅgirasaḥ ǀ juhve ǀ vāje ǀ asmin ǀ
eva ǀ tvā ǀ arcan ǀ avase ǀ vandamānaḥ ǀ somasya-iva ǀ aṃśum ǀ prati ǀ jāgara ǀ aham ǁ

References

Maṇḍala · Sūkta · Ṛk
10.149.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.07.05
Maṇḍala · Anuvāka · Ṛk
10.11.134
Devatā देवता
Savitṛ
Ṛṣi ऋषि
Arcat Hairaṇyastūpa
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.149.5

Interpretations

Sāyaṇa

हे सवितः प्रेरकत्वा त्वामाङ्गिरसोऽङ्गिरसः पुत्रो हिरण्यस्तूपो मम पितास्मिन्वाजेऽन्ने निमित्तभूते सति यथा जुह्वे अहुतवान् एवैवमर्चन्नेतत्संज्ञोऽहं त्वा त्वामवसेऽवनाय रक्षणार्थं वन्दमानः स्तुवन् आह्वयामिति शेषः। आहूय च सोमस्येवांशुं यथा सोमलतां प्रति यजमाना जाग्रति यागपर्यन्तं तद्रक्षणे प्रबुद्धा वर्तन्ते तथाहं त्वत्परिचर्यां प्रति जागर। जागर्मि। जागर्तेर्णल्युत्तमैकवचने रूपम्। अत्र निरुक्तम्। हिरण्यसूपो हिरण्यमयस्तूपो हिरण्यमहः स्तूपोऽस्येति वा। स्तूपः स्त्त्यायतेः सङ्घातः। सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन्नवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम्। नि. १०-३३। इति॥५॥