Sūkta 56
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3); virāṭtrisṭup (2); pādanicṛjjgatī (4); virāḍjagatī (5); bhurigārcījagatī (6); svarāḍārcītriṣṭup (7)
2nd set of styles triṣṭubh (1-3, 7); jagatī (4-6)
-
Ṛk 1
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥इदं त एकम् पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व |
संवेशने तन्वश् चारुर् एधि प्रियो देवानाम् परमे जनित्रे ||idám ta ékam pará ū ta ékam tṛtī́yena jyótiṣā sám viśasva ǀ
saṃvéśane tanváścā́ruredhi priyó devā́nām paramé janítre ǁidaṃ ta ekam para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva |
saṃveśane tanvaś cārur edhi priyo devānām parame janitre ||इ॒दम् । ते॒ । एक॑म् । प॒रः । ऊं॒ इति॑ । ते॒ । एक॑म् । तृ॒तीये॑न । ज्योति॑षा । सम् । वि॒श॒स्व॒ ।
स॒म्ऽवेश॑ने । त॒न्वः॑ । चारुः॑ । ए॒धि॒ । प्रि॒यः । दे॒वाना॑म् । प॒र॒मे । ज॒नित्रे॑ ॥इदम् । ते । एकम् । परः । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व ।
सम्ऽवेशने । तन्वः । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥idám ǀ te ǀ ékam ǀ paráḥ ǀ ūṃ íti ǀ te ǀ ékam ǀ tṛtī́yena ǀ jyótiṣā ǀ sám ǀ viśasva ǀ
sam-véśane ǀ tanváḥ ǀ cā́ruḥ ǀ edhi ǀ priyáḥ ǀ devā́nām ǀ paramé ǀ janítre ǁidam ǀ te ǀ ekam ǀ paraḥ ǀ ūṃ iti ǀ te ǀ ekam ǀ tṛtīyena ǀ jyotiṣā ǀ sam ǀ viśasva ǀ
sam-veśane ǀ tanvaḥ ǀ cāruḥ ǀ edhi ǀ priyaḥ ǀ devānām ǀ parame ǀ janitre ǁ10.56.1 Aṣṭaka 8.1.18.1Anuvāka 10.4.122
-
Ṛk 2
त॒नूष्टे॑ वाजिंत॒न्वं१॒॑ नयं॑ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्यं॑ ।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वांदि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् |
अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ||tanū́ṣṭe vājintanvám náyantī vāmámasmábhyam dhā́tu śárma túbhyam ǀ
áhruto mahó dharúṇāya devā́ndivī́va jyótiḥ svámā́ mimīyāḥ ǁtanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam |
ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ ||त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् ।
अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् ।
अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥tanū́ḥ ǀ te ǀ vājin ǀ tanvám ǀ náyantī ǀ vāmám ǀ asmábhyam ǀ dhā́tu ǀ śárma ǀ túbhyam ǀ
áhrutaḥ ǀ maháḥ ǀ dharúṇāya ǀ devā́n ǀ diví-iva ǀ jyótiḥ ǀ svám ǀ ā́ ǀ mimīyāḥ ǁtanūḥ ǀ te ǀ vājin ǀ tanvam ǀ nayantī ǀ vāmam ǀ asmabhyam ǀ dhātu ǀ śarma ǀ tubhyam ǀ
ahrutaḥ ǀ mahaḥ ǀ dharuṇāya ǀ devān ǀ divi-iva ǀ jyotiḥ ǀ svam ǀ ā ǀ mimīyāḥ ǁ10.56.2 Aṣṭaka 8.1.18.2Anuvāka 10.4.123
-
Ṛk 3
वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं॑ सुवि॒तो दिवं॑ गाः ।
सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्त्सु॑वि॒तोऽनु॒ पत्म॑ ॥वाज्य् असि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः |
सुवितो धर्म प्रथमानु सत्या सुवितो देवान् सुवितो ऽनु पत्म ||vājyási vā́jinenā suvenī́ḥ suvitáḥ stómam suvitó dívam gāḥ ǀ
suvitó dhárma prathamā́nu satyā́ suvitó devā́ntsuvitó’nu pátma ǁvājy asi vājinenā suvenīḥ suvita stomaṃ suvito divaṃ gāḥ |
suvito dharma prathamānu satyā suvito devān suvito 'nu patma ||वा॒जी । अ॒सि॒ । वाजि॑नेन । सु॒ऽवे॒नीः । सु॒वि॒तः । स्तोम॑म् । सु॒वि॒तः । दिव॑म् । गाः॒ ।
सु॒वि॒तः । धर्म॑ । प्र॒थ॒मा । अनु॑ । स॒त्या । सु॒वि॒तः । दे॒वान् । सु॒वि॒तः । अनु॑ । पत्म॑ ॥वाजी । असि । वाजिनेन । सुऽवेनीः । सुवितः । स्तोमम् । सुवितः । दिवम् । गाः ।
सुवितः । धर्म । प्रथमा । अनु । सत्या । सुवितः । देवान् । सुवितः । अनु । पत्म ॥vājī́ ǀ asi ǀ vā́jinena ǀ su-venī́ḥ ǀ suvitáḥ ǀ stómam ǀ suvitáḥ ǀ dívam ǀ gāḥ ǀ
suvitáḥ ǀ dhárma ǀ prathamā́ ǀ ánu ǀ satyā́ ǀ suvitáḥ ǀ devā́n ǀ suvitáḥ ǀ ánu ǀ pátma ǁvājī ǀ asi ǀ vājinena ǀ su-venīḥ ǀ suvitaḥ ǀ stomam ǀ suvitaḥ ǀ divam ǀ gāḥ ǀ
suvitaḥ ǀ dharma ǀ prathamā ǀ anu ǀ satyā ǀ suvitaḥ ǀ devān ǀ suvitaḥ ǀ anu ǀ patma ǁ10.56.3 Aṣṭaka 8.1.18.3Anuvāka 10.4.124
-
Ṛk 4
म॒हि॒म्न ए॑षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतुं॑ ।
सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां॑ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ॥महिम्न एषाम् पितरश् चनेशिरे देवा देवेष्व् अदधुर् अपि क्रतुम् |
सम् अविव्यचुर् उत यान्य् अत्विषुर् ऐषां तनूषु नि विविशुः पुनः ||mahimná eṣām pitáraścanéśire devā́ devéṣvadadhurápi krátum ǀ
sámavivyacurutá yā́nyátviṣuráiṣām tanū́ṣu ní viviśuḥ púnaḥ ǁmahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum |
sam avivyacur uta yāny atviṣur aiṣāṃ tanūṣu ni viviśuḥ punaḥ ||म॒हि॒म्नः । ए॒षा॒म् । पि॒तरः॑ । च॒न । ई॒शि॒रे॒ । दे॒वाः । दे॒वेषु॑ । अ॒द॒धुः॒ । अपि॑ । क्रतु॑म् ।
सम् । अ॒वि॒व्य॒चुः॒ । उ॒त । यानि॑ । अत्वि॑षुः । आ । ए॒षा॒म् । त॒नूषु॑ । नि । वि॒वि॒शुः॒ । पुन॒रिति॑ ॥महिम्नः । एषाम् । पितरः । चन । ईशिरे । देवाः । देवेषु । अदधुः । अपि । क्रतुम् ।
सम् । अविव्यचुः । उत । यानि । अत्विषुः । आ । एषाम् । तनूषु । नि । विविशुः । पुनरिति ॥mahimnáḥ ǀ eṣām ǀ pitáraḥ ǀ caná ǀ īśire ǀ devā́ḥ ǀ devéṣu ǀ adadhuḥ ǀ ápi ǀ krátum ǀ
sám ǀ avivyacuḥ ǀ utá ǀ yā́ni ǀ átviṣuḥ ǀ ā́ ǀ eṣām ǀ tanū́ṣu ǀ ní ǀ viviśuḥ ǀ púnaríti ǁmahimnaḥ ǀ eṣām ǀ pitaraḥ ǀ cana ǀ īśire ǀ devāḥ ǀ deveṣu ǀ adadhuḥ ǀ api ǀ kratum ǀ
sam ǀ avivyacuḥ ǀ uta ǀ yāni ǀ atviṣuḥ ǀ ā ǀ eṣām ǀ tanūṣu ǀ ni ǀ viviśuḥ ǀ punariti ǁ10.56.4 Aṣṭaka 8.1.18.4Anuvāka 10.4.125
-
Ṛk 5
सहो॑भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा॑नाः ।
त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये॑मिरे॒ प्रासा॑रयंत पुरु॒ध प्र॒जा अनु॑ ॥सहोभिर् विश्वम् परि चक्रमू रजः पूर्वा धामान्य् अमिता मिमानाः |
तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ||sáhobhirvíśvam pári cakramū rájaḥ pū́rvā dhā́mānyámitā mímānāḥ ǀ
tanū́ṣu víśvā bhúvanā ní yemire prā́sārayanta purudhá prajā́ ánu ǁsahobhir viśvam pari cakramū rajaḥ pūrvā dhāmāny amitā mimānāḥ |
tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu ||सहः॑ऽभिः । विश्व॑म् । परि॑ । च॒क्र॒मुः॒ । रजः॑ । पूर्वा॑ । धामा॑नि । अमि॑ता । मिमा॑नाः ।
त॒नूषु॑ । विश्वा॑ । भुव॑ना । नि । ये॒मि॒रे॒ । प्र । अ॒सा॒र॒य॒न्त॒ । पु॒रु॒ध । प्र॒ऽजाः । अनु॑ ॥सहःऽभिः । विश्वम् । परि । चक्रमुः । रजः । पूर्वा । धामानि । अमिता । मिमानाः ।
तनूषु । विश्वा । भुवना । नि । येमिरे । प्र । असारयन्त । पुरुध । प्रऽजाः । अनु ॥sáhaḥ-bhiḥ ǀ víśvam ǀ pári ǀ cakramuḥ ǀ rájaḥ ǀ pū́rvā ǀ dhā́māni ǀ ámitā ǀ mímānāḥ ǀ
tanū́ṣu ǀ víśvā ǀ bhúvanā ǀ ní ǀ yemire ǀ prá ǀ asārayanta ǀ purudhá ǀ pra-jā́ḥ ǀ ánu ǁsahaḥ-bhiḥ ǀ viśvam ǀ pari ǀ cakramuḥ ǀ rajaḥ ǀ pūrvā ǀ dhāmāni ǀ amitā ǀ mimānāḥ ǀ
tanūṣu ǀ viśvā ǀ bhuvanā ǀ ni ǀ yemire ǀ pra ǀ asārayanta ǀ purudha ǀ pra-jāḥ ǀ anu ǁ10.56.5 Aṣṭaka 8.1.18.5Anuvāka 10.4.126
-
Ṛk 6
द्विधा॑ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था॑पयंत तृ॒तीये॑न॒ कर्म॑णा ।
स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तंतु॒मात॑तं ॥द्विधा सूनवो ऽसुरं स्वर्विदम् आस्थापयन्त तृतीयेन कर्मणा |
स्वाम् प्रजाम् पितरः पित्र्यं सह आवरेष्व् अदधुस् तन्तुम् आततम् ||dvídhā sūnávó’suram svarvídamā́sthāpayanta tṛtī́yena kármaṇā ǀ
svā́m prajā́m pitáraḥ pítryam sáha ā́vareṣvadadhustántumā́tatam ǁdvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā |
svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam ||द्विधा॑ । सू॒नवः॑ । असु॑रम् । स्वः॒ऽविद॑म् । आ । अ॒स्था॒प॒य॒न्त॒ । तृ॒तीये॑न । कर्म॑णा ।
स्वाम् । प्र॒ऽजाम् । पि॒तरः॑ । पित्र्य॑म् । सहः॑ । आ । अव॑रेषु । अ॒द॒धुः॒ । तन्तु॑म् । आऽत॑तम् ॥द्विधा । सूनवः । असुरम् । स्वःऽविदम् । आ । अस्थापयन्त । तृतीयेन । कर्मणा ।
स्वाम् । प्रऽजाम् । पितरः । पित्र्यम् । सहः । आ । अवरेषु । अदधुः । तन्तुम् । आऽततम् ॥dvídhā ǀ sūnávaḥ ǀ ásuram ǀ svaḥ-vídam ǀ ā́ ǀ asthāpayanta ǀ tṛtī́yena ǀ kármaṇā ǀ
svā́m ǀ pra-jā́m ǀ pitáraḥ ǀ pítryam ǀ sáhaḥ ǀ ā́ ǀ ávareṣu ǀ adadhuḥ ǀ tántum ǀ ā́-tatam ǁdvidhā ǀ sūnavaḥ ǀ asuram ǀ svaḥ-vidam ǀ ā ǀ asthāpayanta ǀ tṛtīyena ǀ karmaṇā ǀ
svām ǀ pra-jām ǀ pitaraḥ ǀ pitryam ǀ sahaḥ ǀ ā ǀ avareṣu ǀ adadhuḥ ǀ tantum ǀ ā-tatam ǁ10.56.6 Aṣṭaka 8.1.18.6Anuvāka 10.4.127
-
Ṛk 7
ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा |
स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ||nāvā́ ná kṣódaḥ pradíśaḥ pṛthivyā́ḥ svastíbhiráti durgā́ṇi víśvā ǀ
svā́m prajā́m bṛháduktho mahitvā́vareṣvadadhādā́ páreṣu ǁnāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā |
svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu ||ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥नावा । न । क्षोदः । प्रऽदिशः । पृथिव्याः । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।
स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । आ । अवरेषु । अदधात् । आ । परेषु ॥nāvā́ ǀ ná ǀ kṣódaḥ ǀ pra-díśaḥ ǀ pṛthivyā́ḥ ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ
svā́m ǀ pra-jā́m ǀ bṛhát-ukthaḥ ǀ mahi-tvā́ ǀ ā́ ǀ ávareṣu ǀ adadhāt ǀ ā́ ǀ páreṣu ǁnāvā ǀ na ǀ kṣodaḥ ǀ pra-diśaḥ ǀ pṛthivyāḥ ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ
svām ǀ pra-jām ǀ bṛhat-ukthaḥ ǀ mahi-tvā ǀ ā ǀ avareṣu ǀ adadhāt ǀ ā ǀ pareṣu ǁ10.56.7 Aṣṭaka 8.1.18.7Anuvāka 10.4.128
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.