Ṛgveda · Maṇḍala 10 · Sūkta 56

Ṛk 10.56.7

Viśvedevās · Bṛhaduktha Vāmadevya

The whole sūkta Link

Saṃhitā

ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।
स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे॑षु ॥

नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिर् अति दुर्गाणि विश्वा |
स्वाम् प्रजाम् बृहदुक्थो महित्वावरेष्व् अदधाद् आ परेषु ||

nāvā́ ná kṣódaḥ pradíśaḥ pṛthivyā́ḥ svastíbhiráti durgā́ṇi víśvā ǀ
svā́m prajā́m bṛháduktho mahitvā́vareṣvadadhādā́ páreṣu ǁ

nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā |
svām prajām bṛhaduktho mahitvāvareṣv adadhād ā pareṣu ||

Padapāṭha

ना॒वा । न । क्षोदः॑ । प्र॒ऽदिशः॑ । पृ॒थि॒व्याः । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।
स्वाम् । प्र॒ऽजाम् । बृ॒हत्ऽउ॑क्थः । म॒हि॒ऽत्वा । आ । अव॑रेषु । अ॒द॒धा॒त् । आ । परे॑षु ॥

नावा । न । क्षोदः । प्रऽदिशः । पृथिव्याः । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।
स्वाम् । प्रऽजाम् । बृहत्ऽउक्थः । महिऽत्वा । आ । अवरेषु । अदधात् । आ । परेषु ॥

nāvā́ ǀ ná ǀ kṣódaḥ ǀ pra-díśaḥ ǀ pṛthivyā́ḥ ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ
svā́m ǀ pra-jā́m ǀ bṛhát-ukthaḥ ǀ mahi-tvā́ ǀ ā́ ǀ ávareṣu ǀ adadhāt ǀ ā́ ǀ páreṣu ǁ

nāvā ǀ na ǀ kṣodaḥ ǀ pra-diśaḥ ǀ pṛthivyāḥ ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ
svām ǀ pra-jām ǀ bṛhat-ukthaḥ ǀ mahi-tvā ǀ ā ǀ avareṣu ǀ adadhāt ǀ ā ǀ pareṣu ǁ

References

Maṇḍala · Sūkta · Ṛk
10.056.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.1.18.07
Maṇḍala · Anuvāka · Ṛk
10.04.128
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Bṛhaduktha Vāmadevya
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.56.7

Interpretations

Sāyaṇa

नावा नोदकोत्तरणसाधनेनेव क्षोद उदकं यथा मनुष्या नवोदकमतितरन्ति यथा वा स्वस्तिभिः क्षेमैर्विश्वा सर्वाणि दुर्गाणि दुःखेन गन्तव्यान्यतितरन्ति तद्वद्बृहदुक्थः स्वां प्रजां वाजिनं मृतं पुत्रं महित्वा स्वमहत्त्वेनावरेष्वग्न्यादिष्वादधात्। कृतवान्। तदा परेषु दिव्येषु सूर्यादिष्वादधात्। एवमृषिर्ब्रूतेस्वयमेव वा स्वात्मानं परोक्षेणाह॥८॥