Ṛgveda · Maṇḍala 10 · Sūkta 56
Ṛk 10.56.2
Saṃhitā
त॒नूष्टे॑ वाजिंत॒न्वं१॒॑ नयं॑ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्यं॑ ।
अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वांदि॒वी॑व॒ ज्योतिः॒ स्वमा मि॑मीयाः ॥
तनूष् टे वाजिन् तन्वं नयन्ती वामम् अस्मभ्यं धातु शर्म तुभ्यम् |
अह्रुतो महो धरुणाय देवान् दिवीव ज्योतिः स्वम् आ मिमीयाः ||
tanū́ṣṭe vājintanvám náyantī vāmámasmábhyam dhā́tu śárma túbhyam ǀ
áhruto mahó dharúṇāya devā́ndivī́va jyótiḥ svámā́ mimīyāḥ ǁ
tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhātu śarma tubhyam |
ahruto maho dharuṇāya devān divīva jyotiḥ svam ā mimīyāḥ ||
Padapāṭha
त॒नूः । ते॒ । वा॒जि॒न् । त॒न्व॑म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धातु॑ । शर्म॑ । तुभ्य॑म् ।
अह्रु॑तः । म॒हः । ध॒रुणा॑य । दे॒वान् । दि॒विऽइ॑व । ज्योतिः॑ । स्वम् । आ । मि॒मी॒याः॒ ॥
तनूः । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धातु । शर्म । तुभ्यम् ।
अह्रुतः । महः । धरुणाय । देवान् । दिविऽइव । ज्योतिः । स्वम् । आ । मिमीयाः ॥
tanū́ḥ ǀ te ǀ vājin ǀ tanvám ǀ náyantī ǀ vāmám ǀ asmábhyam ǀ dhā́tu ǀ śárma ǀ túbhyam ǀ
áhrutaḥ ǀ maháḥ ǀ dharúṇāya ǀ devā́n ǀ diví-iva ǀ jyótiḥ ǀ svám ǀ ā́ ǀ mimīyāḥ ǁ
tanūḥ ǀ te ǀ vājin ǀ tanvam ǀ nayantī ǀ vāmam ǀ asmabhyam ǀ dhātu ǀ śarma ǀ tubhyam ǀ
ahrutaḥ ǀ mahaḥ ǀ dharuṇāya ǀ devān ǀ divi-iva ǀ jyotiḥ ǀ svam ǀ ā ǀ mimīyāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.056.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.1.18.02
- Maṇḍala · Anuvāka · Ṛk
- 10.04.123
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Bṛhaduktha Vāmadevya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.