Sūkta 120
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaddiva Ātharvaṇa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles pādanicṛttriṣṭup (2, 3, 6); nicṛttriṣṭup (4, 5, 9); virāṭtrisṭup (7, 8); svarāḍārcītriṣṭup (1)
2nd set of styles triṣṭubh
-
Ṛk 1
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मदं॒त्यूमाः॑ ॥तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः |
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ||tádídāsa bhúvaneṣu jyéṣṭham yáto jajñá ugrástveṣánṛmṇaḥ ǀ
sadyó jajñānó ní riṇāti śátrūnánu yám víśve mádantyū́māḥ ǁtad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ |
sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ ||तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः ।
स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषऽनृम्णः ।
सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥tát ǀ ít ǀ āsa ǀ bhúvaneṣu ǀ jyéṣṭham ǀ yátaḥ ǀ jajñé ǀ ugráḥ ǀ tveṣá-nṛmṇaḥ ǀ
sadyáḥ ǀ jajñānáḥ ǀ ní ǀ riṇāti ǀ śátrūn ǀ ánu ǀ yám ǀ víśve ǀ mádanti ǀ ū́māḥ ǁtat ǀ it ǀ āsa ǀ bhuvaneṣu ǀ jyeṣṭham ǀ yataḥ ǀ jajñe ǀ ugraḥ ǀ tveṣa-nṛmṇaḥ ǀ
sadyaḥ ǀ jajñānaḥ ǀ ni ǀ riṇāti ǀ śatrūn ǀ anu ǀ yam ǀ viśve ǀ madanti ǀ ūmāḥ ǁ10.120.1 Aṣṭaka 8.7.1.1Anuvāka 10.10.70
-
Ṛk 2
वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति ।
अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवंत॒ प्रभृ॑ता॒ मदे॑षु ॥वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति |
अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ||vāvṛdhānáḥ śávasā bhū́ryojāḥ śátrurdāsā́ya bhiyásam dadhāti ǀ
ávyanacca vyanácca sásni sám te navanta prábhṛtā mádeṣu ǁvāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti |
avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu ||व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ ।
अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥ववृधानः । शवसा । भूरिऽओजाः । शत्रुः । दासाय । भियसम् । दधाति ।
अविऽअनत् । च । विऽअनत् । च । सस्नि । सम् । ते । नवन्त । प्रऽभृता । मदेषु ॥vavṛdhānáḥ ǀ śávasā ǀ bhū́ri-ojāḥ ǀ śátruḥ ǀ dāsā́ya ǀ bhiyásam ǀ dadhāti ǀ
ávi-anat ǀ ca ǀ vi-anát ǀ ca ǀ sásni ǀ sám ǀ te ǀ navanta ǀ prá-bhṛtā ǀ mádeṣu ǁvavṛdhānaḥ ǀ śavasā ǀ bhūri-ojāḥ ǀ śatruḥ ǀ dāsāya ǀ bhiyasam ǀ dadhāti ǀ
avi-anat ǀ ca ǀ vi-anat ǀ ca ǀ sasni ǀ sam ǀ te ǀ navanta ǀ pra-bhṛtā ǀ madeṣu ǁ10.120.2 Aṣṭaka 8.7.1.2Anuvāka 10.10.71
-
Ṛk 3
त्वे क्रतु॒मपि॑ वृंजंति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भवं॒त्यूमाः॑ ।
स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः |
स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ||tvé krátumápi vṛñjanti víśve dvíryádeté trírbhávantyū́māḥ ǀ
svādóḥ svā́dīyaḥ svādúnā sṛjā sámadáḥ sú mádhu mádhunābhí yodhīḥ ǁtve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ |
svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ ||त्वे इति॑ । क्रतु॑म् । अपि॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे॑ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः॑ ।
स्वा॒दोः । स्वादी॑यः । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒दः । सु । मधु॑ । मधु॑ना । अ॒भि । यो॒धीः॒ ॥त्वे इति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः ।
स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥tvé íti ǀ krátum ǀ ápi ǀ vṛñjanti ǀ víśve ǀ dvíḥ ǀ yát ǀ eté ǀ tríḥ ǀ bhávanti ǀ ū́māḥ ǀ
svādóḥ ǀ svā́dīyaḥ ǀ svādúnā ǀ sṛja ǀ sám ǀ adáḥ ǀ sú ǀ mádhu ǀ mádhunā ǀ abhí ǀ yodhīḥ ǁtve iti ǀ kratum ǀ api ǀ vṛñjanti ǀ viśve ǀ dviḥ ǀ yat ǀ ete ǀ triḥ ǀ bhavanti ǀ ūmāḥ ǀ
svādoḥ ǀ svādīyaḥ ǀ svādunā ǀ sṛja ǀ sam ǀ adaḥ ǀ su ǀ madhu ǀ madhunā ǀ abhi ǀ yodhīḥ ǁ10.120.3 Aṣṭaka 8.7.1.3Anuvāka 10.10.72
-
Ṛk 4
इति॑ चि॒द्धि त्वा॒ धना॒ जयं॑तं॒ मदे॑मदे अनु॒मदं॑ति॒ विप्राः॑ ।
ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवाः॑ ॥इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः |
ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ||íti ciddhí tvā dhánā jáyantam mádemade anumádanti víprāḥ ǀ
ójīyo dhṛṣṇo sthirámā́ tanuṣva mā́ tvā dabhanyātudhā́nā durévāḥ ǁiti cid dhi tvā dhanā jayantam made-made anumadanti viprāḥ |
ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ ||इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्राः॑ ।
ओजी॑यः । धृ॒ष्णो॒ इति॑ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । दुः॒ऽएवाः॑ ॥इति । चित् । हि । त्वा । धना । जयन्तम् । मदेऽमदे । अनुऽमदन्ति । विप्राः ।
ओजीयः । धृष्णो इति । स्थिरम् । आ । तनुष्व । मा । त्वा । दभन् । यातुऽधानाः । दुःऽएवाः ॥íti ǀ cit ǀ hí ǀ tvā ǀ dhánā ǀ jáyantam ǀ máde-made ǀ anu-mádanti ǀ víprāḥ ǀ
ójīyaḥ ǀ dhṛṣṇo íti ǀ sthirám ǀ ā́ ǀ tanuṣva ǀ mā́ ǀ tvā ǀ dabhan ǀ yātu-dhā́nāḥ ǀ duḥ-évāḥ ǁiti ǀ cit ǀ hi ǀ tvā ǀ dhanā ǀ jayantam ǀ made-made ǀ anu-madanti ǀ viprāḥ ǀ
ojīyaḥ ǀ dhṛṣṇo iti ǀ sthiram ǀ ā ǀ tanuṣva ǀ mā ǀ tvā ǀ dabhan ǀ yātu-dhānāḥ ǀ duḥ-evāḥ ǁ10.120.4 Aṣṭaka 8.7.1.4Anuvāka 10.10.73
-
Ṛk 5
त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्यं॑तो यु॒धेन्या॑नि॒ भूरि॑ ।
चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि |
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ||tváyā vayám śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri ǀ
codáyāmi ta ā́yudhā vácobhiḥ sám te śiśāmi bráhmaṇā váyāṃsi ǁtvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्तः । यु॒धेन्या॑नि । भूरि॑ ।
चो॒दया॑मि । ते॒ । आयु॑धा । वचः॑ऽभिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म॑णा । वयां॑सि ॥त्वया । वयम् । शाशद्महे । रणेषु । प्रऽपश्यन्तः । युधेन्यानि । भूरि ।
चोदयामि । ते । आयुधा । वचःऽभिः । सम् । ते । शिशामि । ब्रह्मणा । वयांसि ॥tváyā ǀ vayám ǀ śāśadmahe ǀ ráṇeṣu ǀ pra-páśyantaḥ ǀ yudhényāni ǀ bhū́ri ǀ
codáyāmi ǀ te ǀ ā́yudhā ǀ vácaḥ-bhiḥ ǀ sám ǀ te ǀ śiśāmi ǀ bráhmaṇā ǀ váyāṃsi ǁtvayā ǀ vayam ǀ śāśadmahe ǀ raṇeṣu ǀ pra-paśyantaḥ ǀ yudhenyāni ǀ bhūri ǀ
codayāmi ǀ te ǀ āyudhā ǀ vacaḥ-bhiḥ ǀ sam ǀ te ǀ śiśāmi ǀ brahmaṇā ǀ vayāṃsi ǁ10.120.5 Aṣṭaka 8.7.1.5Anuvāka 10.10.74
-
Ṛk 6
स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्यानां॑ ।
आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् |
आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ||stuṣéyyam puruvárpasamṛ́bhvaminátamamāptyámāptyā́nām ǀ
ā́ darṣate śávasā saptá dā́nūnprá sākṣate pratimā́nāni bhū́ri ǁstuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām |
ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri ||स्तु॒षेय्य॑म् । पु॒रु॒ऽवर्प॑सम् । ऋभ्व॑म् । इ॒नऽत॑मम् । आ॒प्त्यम् । आ॒प्त्याना॑म् ।
आ । द॒र्ष॒ते॒ । शव॑सा । स॒प्त । दानू॑न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒ऽमाना॑नि । भूरि॑ ॥स्तुषेय्यम् । पुरुऽवर्पसम् । ऋभ्वम् । इनऽतमम् । आप्त्यम् । आप्त्यानाम् ।
आ । दर्षते । शवसा । सप्त । दानून् । प्र । साक्षते । प्रतिऽमानानि । भूरि ॥stuṣéyyam ǀ puru-várpasam ǀ ṛ́bhvam ǀ iná-tamam ǀ āptyám ǀ āptyā́nām ǀ
ā́ ǀ darṣate ǀ śávasā ǀ saptá ǀ dā́nūn ǀ prá ǀ sākṣate ǀ prati-mā́nāni ǀ bhū́ri ǁstuṣeyyam ǀ puru-varpasam ǀ ṛbhvam ǀ ina-tamam ǀ āptyam ǀ āptyānām ǀ
ā ǀ darṣate ǀ śavasā ǀ sapta ǀ dānūn ǀ pra ǀ sākṣate ǀ prati-mānāni ǀ bhūri ǁ10.120.6 Aṣṭaka 8.7.2.1Anuvāka 10.10.75
-
Ṛk 7
नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे ।
आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे |
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ||ní táddadhiṣé’varam páram ca yásminnā́vithā́vasā duroṇé ǀ
ā́ mātárā sthāpayase jigatnū́ áta inoṣi kárvarā purū́ṇi ǁni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe |
ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ||नि । तत् । द॒धि॒षे॒ । अव॑रम् । पर॑म् । च॒ । यस्मि॑न् । आवि॑थ । अव॑सा । दु॒रो॒णे ।
आ । मा॒तरा॑ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति॑ । अतः॑ । इ॒नो॒षि॒ । कर्व॑रा । पु॒रूणि॑ ॥नि । तत् । दधिषे । अवरम् । परम् । च । यस्मिन् । आविथ । अवसा । दुरोणे ।
आ । मातरा । स्थापयसे । जिगत्नू इति । अतः । इनोषि । कर्वरा । पुरूणि ॥ní ǀ tát ǀ dadhiṣe ǀ ávaram ǀ páram ǀ ca ǀ yásmin ǀ ā́vitha ǀ ávasā ǀ duroṇé ǀ
ā́ ǀ mātárā ǀ sthāpayase ǀ jigatnū́ íti ǀ átaḥ ǀ inoṣi ǀ kárvarā ǀ purū́ṇi ǁni ǀ tat ǀ dadhiṣe ǀ avaram ǀ param ǀ ca ǀ yasmin ǀ āvitha ǀ avasā ǀ duroṇe ǀ
ā ǀ mātarā ǀ sthāpayase ǀ jigatnū iti ǀ ataḥ ǀ inoṣi ǀ karvarā ǀ purūṇi ǁ10.120.7 Aṣṭaka 8.7.2.2Anuvāka 10.10.76
-
Ṛk 8
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तींद्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः ।
म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः |
महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ||imā́ bráhma bṛháddivo vivaktī́ndrāya śūṣámagriyáḥ svarṣā́ḥ ǀ
mahó gotrásya kṣayati svarā́jo dúraśca víśvā avṛṇodápa svā́ḥ ǁimā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ |
maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ ||इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः ।
म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥इमा । ब्रह्म । बृहत्ऽदिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः ।
महः । गोत्रस्य । क्षयति । स्वऽराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥imā́ ǀ bráhma ǀ bṛhát-divaḥ ǀ vivakti ǀ índrāya ǀ śūṣám ǀ agriyáḥ ǀ svaḥ-sā́ḥ ǀ
maháḥ ǀ gotrásya ǀ kṣayati ǀ sva-rā́jaḥ ǀ dúraḥ ǀ ca ǀ víśvāḥ ǀ avṛṇot ǀ ápa ǀ svā́ḥ ǁimā ǀ brahma ǀ bṛhat-divaḥ ǀ vivakti ǀ indrāya ǀ śūṣam ǀ agriyaḥ ǀ svaḥ-sāḥ ǀ
mahaḥ ǀ gotrasya ǀ kṣayati ǀ sva-rājaḥ ǀ duraḥ ǀ ca ǀ viśvāḥ ǀ avṛṇot ǀ apa ǀ svāḥ ǁ10.120.8 Aṣṭaka 8.7.2.3Anuvāka 10.10.77
-
Ṛk 9
ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिंद्र॑मे॒व ।
स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वंति॑ च॒ शव॑सा व॒र्धयं॑ति च ॥एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्वम् इन्द्रम् एव |
स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ||evā́ mahā́nbṛháddivo átharvā́vocatsvā́m tanvámíndramevá ǀ
svásāro mātaríbhvarīrariprā́ hinvánti ca śávasā vardháyanti ca ǁevā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca ||ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ।
स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥एव । महान् । बृहत्ऽदिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव ।
स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति । च ॥evá ǀ mahā́n ǀ bṛhát-divaḥ ǀ átharvā ǀ ávocat ǀ svā́m ǀ tanvám ǀ índram ǀ evá ǀ
svásāraḥ ǀ mātaríbhvarīḥ ǀ ariprā́ḥ ǀ hinvánti ǀ ca ǀ śávasā ǀ vardháyanti ǀ ca ǁeva ǀ mahān ǀ bṛhat-divaḥ ǀ atharvā ǀ avocat ǀ svām ǀ tanvam ǀ indram ǀ eva ǀ
svasāraḥ ǀ mātaribhvarīḥ ǀ ariprāḥ ǀ hinvanti ǀ ca ǀ śavasā ǀ vardhayanti ǀ ca ǁ10.120.9 Aṣṭaka 8.7.2.4Anuvāka 10.10.78
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.