Ṛgveda · Maṇḍala 10 · Sūkta 120
Ṛk 10.120.8
Saṃhitā
इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तींद्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः ।
म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः |
महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ||
imā́ bráhma bṛháddivo vivaktī́ndrāya śūṣámagriyáḥ svarṣā́ḥ ǀ
mahó gotrásya kṣayati svarā́jo dúraśca víśvā avṛṇodápa svā́ḥ ǁ
imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ |
maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ ||
Padapāṭha
इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः ।
म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥
इमा । ब्रह्म । बृहत्ऽदिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः ।
महः । गोत्रस्य । क्षयति । स्वऽराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥
imā́ ǀ bráhma ǀ bṛhát-divaḥ ǀ vivakti ǀ índrāya ǀ śūṣám ǀ agriyáḥ ǀ svaḥ-sā́ḥ ǀ
maháḥ ǀ gotrásya ǀ kṣayati ǀ sva-rā́jaḥ ǀ dúraḥ ǀ ca ǀ víśvāḥ ǀ avṛṇot ǀ ápa ǀ svā́ḥ ǁ
imā ǀ brahma ǀ bṛhat-divaḥ ǀ vivakti ǀ indrāya ǀ śūṣam ǀ agriyaḥ ǀ svaḥ-sāḥ ǀ
mahaḥ ǀ gotrasya ǀ kṣayati ǀ sva-rājaḥ ǀ duraḥ ǀ ca ǀ viśvāḥ ǀ avṛṇot ǀ apa ǀ svāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.120.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.02.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.077
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaddiva Ātharvaṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.