Ṛgveda · Maṇḍala 10 · Sūkta 120
Ṛk 10.120.1
Saṃhitā
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मदं॒त्यूमाः॑ ॥
तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः |
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ||
tádídāsa bhúvaneṣu jyéṣṭham yáto jajñá ugrástveṣánṛmṇaḥ ǀ
sadyó jajñānó ní riṇāti śátrūnánu yám víśve mádantyū́māḥ ǁ
tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ |
sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ ||
Padapāṭha
तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः ।
स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥
तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषऽनृम्णः ।
सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥
tát ǀ ít ǀ āsa ǀ bhúvaneṣu ǀ jyéṣṭham ǀ yátaḥ ǀ jajñé ǀ ugráḥ ǀ tveṣá-nṛmṇaḥ ǀ
sadyáḥ ǀ jajñānáḥ ǀ ní ǀ riṇāti ǀ śátrūn ǀ ánu ǀ yám ǀ víśve ǀ mádanti ǀ ū́māḥ ǁ
tat ǀ it ǀ āsa ǀ bhuvaneṣu ǀ jyeṣṭham ǀ yataḥ ǀ jajñe ǀ ugraḥ ǀ tveṣa-nṛmṇaḥ ǀ
sadyaḥ ǀ jajñānaḥ ǀ ni ǀ riṇāti ǀ śatrūn ǀ anu ǀ yam ǀ viśve ǀ madanti ǀ ūmāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.120.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.01.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.070
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bṛhaddiva Ātharvaṇa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.