Sūkta 125
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles virāṭtrisṭup (1, 3, 7, 8); triṣṭup (4, 5); pādanicṛjjgatī (2); nicṛttriṣṭup (6)
2nd set of styles triṣṭubh (1, 3-8); jagatī (2)
-
Ṛk 1
अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा॑दि॒त्यैरु॒त वि॒श्वदे॑वैः ।
अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमिं॑द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः |
अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ||ahám rudrébhirvásubhiścarāmyahámādityáirutá viśvádevaiḥ ǀ
ahám mitrā́váruṇobhā́ bibharmyahámindrāgnī́ ahámaśvínobhā́ ǁahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ |
aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā ||अ॒हम् । रु॒द्रेभिः॑ । वसु॑ऽभिः । च॒रा॒मि॒ । अ॒हम् । आ॒दि॒त्यैः । उ॒त । वि॒श्वऽदे॑वैः ।
अ॒हम् । मि॒त्रावरु॑णा । उ॒भा । बि॒भ॒र्मि॒ । अ॒हम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒हम् । अ॒श्विना॑ । उ॒भा ॥अहम् । रुद्रेभिः । वसुऽभिः । चरामि । अहम् । आदित्यैः । उत । विश्वऽदेवैः ।
अहम् । मित्रावरुणा । उभा । बिभर्मि । अहम् । इन्द्राग्नी इति । अहम् । अश्विना । उभा ॥ahám ǀ rudrébhiḥ ǀ vásu-bhiḥ ǀ carāmi ǀ ahám ǀ ādityáiḥ ǀ utá ǀ viśvá-devaiḥ ǀ
ahám ǀ mitrā́váruṇā ǀ ubhā́ ǀ bibharmi ǀ ahám ǀ indrāgnī́ íti ǀ ahám ǀ aśvínā ǀ ubhā́ ǁaham ǀ rudrebhiḥ ǀ vasu-bhiḥ ǀ carāmi ǀ aham ǀ ādityaiḥ ǀ uta ǀ viśva-devaiḥ ǀ
aham ǀ mitrāvaruṇā ǀ ubhā ǀ bibharmi ǀ aham ǀ indrāgnī iti ǀ aham ǀ aśvinā ǀ ubhā ǁ10.125.1 Aṣṭaka 8.7.11.1Anuvāka 10.10.114
-
Ṛk 2
अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भगं॑ ।
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॒॑ यज॑मानाय सुन्व॒ते ॥अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् |
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ||ahám sómamāhanásam bibharmyahám tváṣṭāramutá pūṣáṇam bhágam ǀ
ahám dadhāmi dráviṇam havíṣmate suprāvyé yájamānāya sunvaté ǁahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam |
ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye yajamānāya sunvate ||अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् ।
अ॒हम् । द॒धा॒मि॒ । द्रवि॑णम् । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्ये॑ । यज॑मानाय । सु॒न्व॒ते ॥अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् ।
अहम् । दधामि । द्रविणम् । हविष्मते । सुप्रऽअव्ये । यजमानाय । सुन्वते ॥ahám ǀ sómam ǀ āhanásam ǀ bibharmi ǀ ahám ǀ tváṣṭāram ǀ utá ǀ pūṣáṇam ǀ bhágam ǀ
ahám ǀ dadhāmi ǀ dráviṇam ǀ havíṣmate ǀ supra-avyé ǀ yájamānāya ǀ sunvaté ǁaham ǀ somam ǀ āhanasam ǀ bibharmi ǀ aham ǀ tvaṣṭāram ǀ uta ǀ pūṣaṇam ǀ bhagam ǀ
aham ǀ dadhāmi ǀ draviṇam ǀ haviṣmate ǀ supra-avye ǀ yajamānāya ǀ sunvate ǁ10.125.2 Aṣṭaka 8.7.11.2Anuvāka 10.10.115
-
Ṛk 3
अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नां ।
तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शयं॑तीं ॥अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् |
ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ||ahám rā́ṣṭrī saṃgámanī vásūnām cikitúṣī prathamā́ yajñíyānām ǀ
tā́m mā devā́ vyádadhuḥ purutrā́ bhū́risthātrām bhū́ryāveśáyantīm ǁahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām |
tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm ||अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् ।
ताम् । मा॒ । दे॒वाः । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्तीम् ॥अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् ।
ताम् । मा । देवाः । वि । अदधुः । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्तीम् ॥ahám ǀ rā́ṣṭrī ǀ sam-gámanī ǀ vásūnām ǀ cikitúṣī ǀ prathamā́ ǀ yajñíyānām ǀ
tā́m ǀ mā ǀ devā́ḥ ǀ ví ǀ adadhuḥ ǀ puru-trā́ ǀ bhū́ri-sthātrām ǀ bhū́ri ǀ ā-veśáyantīm ǁaham ǀ rāṣṭrī ǀ sam-gamanī ǀ vasūnām ǀ cikituṣī ǀ prathamā ǀ yajñiyānām ǀ
tām ǀ mā ǀ devāḥ ǀ vi ǀ adadhuḥ ǀ puru-trā ǀ bhūri-sthātrām ǀ bhūri ǀ ā-veśayantīm ǁ10.125.3 Aṣṭaka 8.7.11.3Anuvāka 10.10.116
-
Ṛk 4
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तं ।
अ॒मं॒तवो॒ मां त उप॑ क्षियंति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् |
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ||máyā só ánnamatti yó vipáśyati yáḥ prā́ṇiti yá īm śṛṇótyuktám ǀ
amantávo mā́m tá úpa kṣiyanti śrudhí śruta śraddhivám te vadāmi ǁmayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam |
amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi ||मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।
अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥मया । सः । अन्नम् । अत्ति । यः । विऽपश्यति । यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् ।
अमन्तवः । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिऽवम् । ते । वदामि ॥máyā ǀ sáḥ ǀ ánnam ǀ atti ǀ yáḥ ǀ vi-páśyati ǀ yáḥ ǀ prā́ṇiti ǀ yáḥ ǀ īm ǀ śṛṇóti ǀ uktám ǀ
amantávaḥ ǀ mā́m ǀ té ǀ úpa ǀ kṣiyanti ǀ śrudhí ǀ śruta ǀ śraddhi-vám ǀ te ǀ vadāmi ǁmayā ǀ saḥ ǀ annam ǀ atti ǀ yaḥ ǀ vi-paśyati ǀ yaḥ ǀ prāṇiti ǀ yaḥ ǀ īm ǀ śṛṇoti ǀ uktam ǀ
amantavaḥ ǀ mām ǀ te ǀ upa ǀ kṣiyanti ǀ śrudhi ǀ śruta ǀ śraddhi-vam ǀ te ǀ vadāmi ǁ10.125.4 Aṣṭaka 8.7.11.4Anuvāka 10.10.117
-
Ṛk 5
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धां ॥अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः |
यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ||ahámevá svayámidám vadāmi júṣṭam devébhirutá mā́nuṣebhiḥ ǀ
yám kāmáye táṃtamugrám kṛṇomi tám brahmā́ṇam támṛ́ṣim tám sumedhā́m ǁaham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ |
yaṃ kāmaye taṃ-tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām ||अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः ।
यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः ।
यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥ahám ǀ evá ǀ svayám ǀ idám ǀ vadāmi ǀ júṣṭam ǀ devébhiḥ ǀ utá ǀ mā́nuṣebhiḥ ǀ
yám ǀ kāmáye ǀ tám-tam ǀ ugrám ǀ kṛṇomi ǀ tám ǀ brahmā́ṇam ǀ tám ǀ ṛ́ṣim ǀ tám ǀ su-medhā́m ǁaham ǀ eva ǀ svayam ǀ idam ǀ vadāmi ǀ juṣṭam ǀ devebhiḥ ǀ uta ǀ mānuṣebhiḥ ǀ
yam ǀ kāmaye ǀ tam-tam ǀ ugram ǀ kṛṇomi ǀ tam ǀ brahmāṇam ǀ tam ǀ ṛṣim ǀ tam ǀ su-medhām ǁ10.125.5 Aṣṭaka 8.7.11.5Anuvāka 10.10.118
-
Ṛk 6
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हंत॒वा उ॑ ।
अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ |
अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ||ahám rudrā́ya dhánurā́ tanomi brahmadvíṣe śárave hántavā́ u ǀ
ahám jánāya samádam kṛṇomyahám dyā́vāpṛthivī́ ā́ viveśa ǁahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u |
ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa ||अ॒हम् । रु॒द्राय॑ । धनुः॑ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥अहम् । रुद्राय । धनुः । आ । तनोमि । ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊं इति ।
अहम् । जनाय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ॥ahám ǀ rudrā́ya ǀ dhánuḥ ǀ ā́ ǀ tanomi ǀ brahma-dvíṣe ǀ śárave ǀ hántavái ǀ ūṃ íti ǀ
ahám ǀ jánāya ǀ sa-mádam ǀ kṛṇomi ǀ ahám ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ viveśa ǁaham ǀ rudrāya ǀ dhanuḥ ǀ ā ǀ tanomi ǀ brahma-dviṣe ǀ śarave ǀ hantavai ǀ ūṃ iti ǀ
aham ǀ janāya ǀ sa-madam ǀ kṛṇomi ǀ aham ǀ dyāvāpṛthivī iti ǀ ā ǀ viveśa ǁ10.125.6 Aṣṭaka 8.7.12.1Anuvāka 10.10.119
-
Ṛk 7
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वं१॒॑तः स॑मु॒द्रे ।
ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे |
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ||ahám suve pitáramasya mūrdhánmáma yónirapsvántáḥ samudré ǀ
táto ví tiṣṭhe bhúvanā́nu víśvotā́mū́m dyā́m varṣmáṇópa spṛśāmi ǁahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre |
tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे ।
ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्ऽसु । अन्तरिति । समुद्रे ।
ततः । वि । तिष्ठे । भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥ahám ǀ suve ǀ pitáram ǀ asya ǀ mūrdhán ǀ máma ǀ yóniḥ ǀ ap-sú ǀ antáríti ǀ samudré ǀ
tátaḥ ǀ ví ǀ tiṣṭhe ǀ bhúvanā ǀ ánu ǀ víśvā ǀ utá ǀ amū́m ǀ dyā́m ǀ varṣmáṇā ǀ úpa ǀ spṛśāmi ǁaham ǀ suve ǀ pitaram ǀ asya ǀ mūrdhan ǀ mama ǀ yoniḥ ǀ ap-su ǀ antariti ǀ samudre ǀ
tataḥ ǀ vi ǀ tiṣṭhe ǀ bhuvanā ǀ anu ǀ viśvā ǀ uta ǀ amūm ǀ dyām ǀ varṣmaṇā ǀ upa ǀ spṛśāmi ǁ10.125.7 Aṣṭaka 8.7.12.2Anuvāka 10.10.120
-
Ṛk 8
अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा |
परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ||ahámevá vā́ta iva prá vāmyārábhamāṇā bhúvanāni víśvā ǀ
paró divā́ pará enā́ pṛthivyáitā́vatī mahinā́ sám babhūva ǁaham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā |
paro divā para enā pṛthivyaitāvatī mahinā sam babhūva ||अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ ।
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा । भुवनानि । विश्वा ।
परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥ahám ǀ evá ǀ vā́taḥ-iva ǀ prá ǀ vāmi ǀ ā-rábhamāṇā ǀ bhúvanāni ǀ víśvā ǀ
paráḥ ǀ divā́ ǀ paráḥ ǀ enā́ ǀ pṛthivyā́ ǀ etā́vatī ǀ mahinā́ ǀ sám ǀ babhūva ǁaham ǀ eva ǀ vātaḥ-iva ǀ pra ǀ vāmi ǀ ā-rabhamāṇā ǀ bhuvanāni ǀ viśvā ǀ
paraḥ ǀ divā ǀ paraḥ ǀ enā ǀ pṛthivyā ǀ etāvatī ǀ mahinā ǀ sam ǀ babhūva ǁ10.125.8 Aṣṭaka 8.7.12.3Anuvāka 10.10.121
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.