Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.4
Saṃhitā
मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं॑ शृ॒णोत्यु॒क्तं ।
अ॒मं॒तवो॒ मां त उप॑ क्षियंति श्रु॒धि श्रु॑त श्रद्धि॒वं ते॑ वदामि ॥
मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् |
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ||
máyā só ánnamatti yó vipáśyati yáḥ prā́ṇiti yá īm śṛṇótyuktám ǀ
amantávo mā́m tá úpa kṣiyanti śrudhí śruta śraddhivám te vadāmi ǁ
mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam |
amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddhivaṃ te vadāmi ||
Padapāṭha
मया॑ । सः । अन्न॑म् । अ॒त्ति॒ । यः । वि॒ऽपश्य॑ति । यः । प्राणि॑ति । यः । ई॒म् । शृ॒णोति॑ । उ॒क्तम् ।
अ॒म॒न्तवः॑ । माम् । ते । उप॑ । क्षि॒य॒न्ति॒ । श्रु॒धि । श्रु॒त॒ । श्र॒द्धि॒ऽवम् । ते॒ । व॒दा॒मि॒ ॥
मया । सः । अन्नम् । अत्ति । यः । विऽपश्यति । यः । प्राणिति । यः । ईम् । शृणोति । उक्तम् ।
अमन्तवः । माम् । ते । उप । क्षियन्ति । श्रुधि । श्रुत । श्रद्धिऽवम् । ते । वदामि ॥
máyā ǀ sáḥ ǀ ánnam ǀ atti ǀ yáḥ ǀ vi-páśyati ǀ yáḥ ǀ prā́ṇiti ǀ yáḥ ǀ īm ǀ śṛṇóti ǀ uktám ǀ
amantávaḥ ǀ mā́m ǀ té ǀ úpa ǀ kṣiyanti ǀ śrudhí ǀ śruta ǀ śraddhi-vám ǀ te ǀ vadāmi ǁ
mayā ǀ saḥ ǀ annam ǀ atti ǀ yaḥ ǀ vi-paśyati ǀ yaḥ ǀ prāṇiti ǀ yaḥ ǀ īm ǀ śṛṇoti ǀ uktam ǀ
amantavaḥ ǀ mām ǀ te ǀ upa ǀ kṣiyanti ǀ śrudhi ǀ śruta ǀ śraddhi-vam ǀ te ǀ vadāmi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.11.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.117
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.