Ṛgveda · Maṇḍala 10 · Sūkta 125

Ṛk 10.125.8

Vāc · Vāc Āmbhṛṇī

The whole sūkta Link

Saṃhitā

अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा॑ ।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥

अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा |
परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ||

ahámevá vā́ta iva prá vāmyārábhamāṇā bhúvanāni víśvā ǀ
paró divā́ pará enā́ pṛthivyáitā́vatī mahinā́ sám babhūva ǁ

aham eva vāta iva pra vāmy ārabhamāṇā bhuvanāni viśvā |
paro divā para enā pṛthivyaitāvatī mahinā sam babhūva ||

Padapāṭha

अ॒हम् । ए॒व । वातः॑ऽइव । प्र । वा॒मि॒ । आ॒ऽरभ॑माणा । भुव॑नानि । विश्वा॑ ।
प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । ए॒ताव॑ती । म॒हि॒ना । सम् । ब॒भू॒व॒ ॥

अहम् । एव । वातःऽइव । प्र । वामि । आऽरभमाणा । भुवनानि । विश्वा ।
परः । दिवा । परः । एना । पृथिव्या । एतावती । महिना । सम् । बभूव ॥

ahám ǀ evá ǀ vā́taḥ-iva ǀ prá ǀ vāmi ǀ ā-rábhamāṇā ǀ bhúvanāni ǀ víśvā ǀ
paráḥ ǀ divā́ ǀ paráḥ ǀ enā́ ǀ pṛthivyā́ ǀ etā́vatī ǀ mahinā́ ǀ sám ǀ babhūva ǁ

aham ǀ eva ǀ vātaḥ-iva ǀ pra ǀ vāmi ǀ ā-rabhamāṇā ǀ bhuvanāni ǀ viśvā ǀ
paraḥ ǀ divā ǀ paraḥ ǀ enā ǀ pṛthivyā ǀ etāvatī ǀ mahinā ǀ sam ǀ babhūva ǁ

References

Maṇḍala · Sūkta · Ṛk
10.125.08
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.12.03
Maṇḍala · Anuvāka · Ṛk
10.10.121
Devatā देवता
Vāc
Ṛṣi ऋषि
Vāc Āmbhṛṇī
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.125.8

Interpretations

Sāyaṇa

विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि कार्याण्यारभमाणा कारणरूपेणोत्पादयन्त्यहमेव परेणानधिष्ठिता स्वयमेव प्र वामि। प्रवर्ते। वात इव यथा वातः परेणाप्रेरितः सन् स्वेच्छयैव प्रवाति तद्वत्। उक्तं सर्वं निगमयति। परो दिवा। पर इति सकारान्तं परस्तादित्यर्थे वर्तते यथाध इत्यधस्तादर्थे। तद्योगे च तृतीया सर्वत्र दृश्यते। दिव आकाशस्य परस्तात्। एना पृथिव्या। द्वितीया टौस्वेन इतीदम एनादेशः। अस्याः पृथिव्याः परः परस्तात्। द्यावापृथिव्योरुपादानमुपलक्षणं। एतदुपलक्षितात्सर्वाद्विकारजातात्परस्ताद्वर्तमानासङ्गोदासीनकूटस्थ ब्रह्मचैतन्य रूपाहं महिना महिम्नृतावती सं बभूव। एतच्छब्देनोक्तं सर्वं परामृश्यते। एत्परिमाणमस्याः। यत्तदेतेभ्यः परिमाणे। पा. ५-२-३९। इति वतुप्। आ सर्वनाम्न इत्यात्वम्। सर्वजगदात्मनाहं सम्भूतास्मि। महच्छब्दादिमनिचि टेरिति टिलोपः। ततः तृतीयायामुदात्तनिवृत्तिस्वरेण तस्या उदात्तत्वम्। छान्दसोमलोपः॥८॥