Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.6
Saṃhitā
अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हंत॒वा उ॑ ।
अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥
अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ |
अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ||
ahám rudrā́ya dhánurā́ tanomi brahmadvíṣe śárave hántavā́ u ǀ
ahám jánāya samádam kṛṇomyahám dyā́vāpṛthivī́ ā́ viveśa ǁ
ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u |
ahaṃ janāya samadaṃ kṛṇomy ahaṃ dyāvāpṛthivī ā viveśa ||
Padapāṭha
अ॒हम् । रु॒द्राय॑ । धनुः॑ । आ । त॒नो॒मि॒ । ब्र॒ह्म॒ऽद्विषे॑ । शर॑वे । हन्त॒वै । ऊं॒ इति॑ ।
अ॒हम् । जना॑य । स॒ऽमद॑म् । कृ॒णो॒मि॒ । अ॒हम् । द्यावा॑पृथि॒वी इति॑ । आ । वि॒वे॒श॒ ॥
अहम् । रुद्राय । धनुः । आ । तनोमि । ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊं इति ।
अहम् । जनाय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इति । आ । विवेश ॥
ahám ǀ rudrā́ya ǀ dhánuḥ ǀ ā́ ǀ tanomi ǀ brahma-dvíṣe ǀ śárave ǀ hántavái ǀ ūṃ íti ǀ
ahám ǀ jánāya ǀ sa-mádam ǀ kṛṇomi ǀ ahám ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ viveśa ǁ
aham ǀ rudrāya ǀ dhanuḥ ǀ ā ǀ tanomi ǀ brahma-dviṣe ǀ śarave ǀ hantavai ǀ ūṃ iti ǀ
aham ǀ janāya ǀ sa-madam ǀ kṛṇomi ǀ aham ǀ dyāvāpṛthivī iti ǀ ā ǀ viveśa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.12.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.119
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.