Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.5
Saṃhitā
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः ।
यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धां ॥
अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः |
यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ||
ahámevá svayámidám vadāmi júṣṭam devébhirutá mā́nuṣebhiḥ ǀ
yám kāmáye táṃtamugrám kṛṇomi tám brahmā́ṇam támṛ́ṣim tám sumedhā́m ǁ
aham eva svayam idaṃ vadāmi juṣṭaṃ devebhir uta mānuṣebhiḥ |
yaṃ kāmaye taṃ-tam ugraṃ kṛṇomi tam brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām ||
Padapāṭha
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः ।
यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥
अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः ।
यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥
ahám ǀ evá ǀ svayám ǀ idám ǀ vadāmi ǀ júṣṭam ǀ devébhiḥ ǀ utá ǀ mā́nuṣebhiḥ ǀ
yám ǀ kāmáye ǀ tám-tam ǀ ugrám ǀ kṛṇomi ǀ tám ǀ brahmā́ṇam ǀ tám ǀ ṛ́ṣim ǀ tám ǀ su-medhā́m ǁ
aham ǀ eva ǀ svayam ǀ idam ǀ vadāmi ǀ juṣṭam ǀ devebhiḥ ǀ uta ǀ mānuṣebhiḥ ǀ
yam ǀ kāmaye ǀ tam-tam ǀ ugram ǀ kṛṇomi ǀ tam ǀ brahmāṇam ǀ tam ǀ ṛṣim ǀ tam ǀ su-medhām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.11.05
- Maṇḍala · Anuvāka · Ṛk
- 10.10.118
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.