Ṛgveda · Maṇḍala 10 · Sūkta 125
Ṛk 10.125.7
Saṃhitā
अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वं१॒॑तः स॑मु॒द्रे ।
ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ॥
अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अन्तः समुद्रे |
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ||
ahám suve pitáramasya mūrdhánmáma yónirapsvántáḥ samudré ǀ
táto ví tiṣṭhe bhúvanā́nu víśvotā́mū́m dyā́m varṣmáṇópa spṛśāmi ǁ
ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre |
tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||
Padapāṭha
अ॒हम् । सु॒वे॒ । पि॒तर॑म् । अ॒स्य॒ । मू॒र्धन् । मम॑ । योनिः॑ । अ॒प्ऽसु । अ॒न्तरिति॑ । स॒मु॒द्रे ।
ततः॑ । वि । ति॒ष्ठे॒ । भुव॑ना । अनु॑ । विश्वा॑ । उ॒त । अ॒मूम् । द्याम् । व॒र्ष्मणा॑ । उप॑ । स्पृ॒शा॒मि॒ ॥
अहम् । सुवे । पितरम् । अस्य । मूर्धन् । मम । योनिः । अप्ऽसु । अन्तरिति । समुद्रे ।
ततः । वि । तिष्ठे । भुवना । अनु । विश्वा । उत । अमूम् । द्याम् । वर्ष्मणा । उप । स्पृशामि ॥
ahám ǀ suve ǀ pitáram ǀ asya ǀ mūrdhán ǀ máma ǀ yóniḥ ǀ ap-sú ǀ antáríti ǀ samudré ǀ
tátaḥ ǀ ví ǀ tiṣṭhe ǀ bhúvanā ǀ ánu ǀ víśvā ǀ utá ǀ amū́m ǀ dyā́m ǀ varṣmáṇā ǀ úpa ǀ spṛśāmi ǁ
aham ǀ suve ǀ pitaram ǀ asya ǀ mūrdhan ǀ mama ǀ yoniḥ ǀ ap-su ǀ antariti ǀ samudre ǀ
tataḥ ǀ vi ǀ tiṣṭhe ǀ bhuvanā ǀ anu ǀ viśvā ǀ uta ǀ amūm ǀ dyām ǀ varṣmaṇā ǀ upa ǀ spṛśāmi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.125.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.12.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.120
- Devatā देवता
- Vāc
- Ṛṣi ऋषि
- Vāc Āmbhṛṇī
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.