Ṛgveda · Maṇḍala 10

Sūkta 105

Indra · Durmitra Kautsa Or Sumitra Kautsa · 11 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Durmitra Kautsa Or Sumitra Kautsa
Chandas छन्दस्
Uṣṇih, Uṣṇih Or Gāyatrī, Pipīlikamadhyā, Triṣṭubh Or Gāyatrī
Metres by ṛk

1st set of styles virāḍuṣnik (5, 6, 8, 9); nicṛduṣṇik (4, 10); pipīlikāmadhyoṣṇik (1); svarāḍārcyanuṣṭup (2); bhuriguṣṇik (3); virāḍanuṣṭup (7); triṣṭup (11)

2nd set of styles uṣṇih (3-10); uṣṇih or gāyatrī (1); pipīlikamadhyā (2); triṣṭubh or gāyatrī (11)

  1. Ṛk 1

    क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।
    दी॒र्घं सु॒तं वा॒ताप्या॑य ॥

    कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद् वाः |
    दीर्घं सुतं वाताप्याय ||

    kadā́ vaso stotrám háryata ā́va śmaśā́ rudhadvā́ḥ ǀ
    dīrghám sutám vātā́pyāya ǁ

    kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ |
    dīrghaṃ sutaṃ vātāpyāya ||

    क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः ।
    दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥

    कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारिति वाः ।
    दीर्घम् । सुतम् । वाताप्याय ॥

    kadā́ ǀ vaso íti ǀ stotrám ǀ háryate ǀ ā́ ǀ áva ǀ śmaśā́ ǀ rudhat ǀ vā́ríti vā́ḥ ǀ
    dīrghám ǀ sutám ǀ vātā́pyāya ǁ

    kadā ǀ vaso iti ǀ stotram ǀ haryate ǀ ā ǀ ava ǀ śmaśā ǀ rudhat ǀ vāriti vāḥ ǀ
    dīrgham ǀ sutam ǀ vātāpyāya ǁ

    10.105.1 Aṣṭaka 8.5.26.1Anuvāka 10.9.61

  2. Ṛk 2

    हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्वं॒तानु॒ शेपा॑ ।
    उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥

    हरी यस्य सुयुजा विव्रता वेर् अर्वन्तानु शेपा |
    उभा रजी न केशिना पतिर् दन् ||

    hárī yásya suyújā vívratā vérárvantā́nu śépā ǀ
    ubhā́ rajī́ ná keśínā pátirdán ǁ

    harī yasya suyujā vivratā ver arvantānu śepā |
    ubhā rajī na keśinā patir dan ||

    हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ ।
    उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । दन् ॥

    हरी इति । यस्य । सुऽयुजा । विऽव्रता । वेः । अर्वन्ता । अनु । शेपा ।
    उभा । रजी इति । न । केशिना । पतिः । दन् ॥

    hárī íti ǀ yásya ǀ su-yújā ǀ ví-vratā ǀ véḥ ǀ árvantā ǀ ánu ǀ śépā ǀ
    ubhā́ ǀ rajī́ íti ǀ ná ǀ keśínā ǀ pátiḥ ǀ dán ǁ

    harī iti ǀ yasya ǀ su-yujā ǀ vi-vratā ǀ veḥ ǀ arvantā ǀ anu ǀ śepā ǀ
    ubhā ǀ rajī iti ǀ na ǀ keśinā ǀ patiḥ ǀ dan ǁ

    10.105.2 Aṣṭaka 8.5.26.2Anuvāka 10.9.62

  3. Ṛk 3

    अप॒ योरिंद्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।
    शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥

    अप योर् इन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् |
    शुभे यद् युयुजे तविषीवान् ||

    ápa yóríndraḥ pā́paja ā́ márto ná śaśramāṇó bibhīvā́n ǀ
    śubhé yádyuyujé táviṣīvān ǁ

    apa yor indraḥ pāpaja ā marto na śaśramāṇo bibhīvān |
    śubhe yad yuyuje taviṣīvān ||

    अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।
    शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥

    अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् ।
    शुभे । यत् । युयुजे । तविषीऽवान् ॥

    ápa ǀ yóḥ ǀ índraḥ ǀ pā́paje ǀ ā́ ǀ mártaḥ ǀ ná ǀ śaśramāṇáḥ ǀ bibhīvā́n ǀ
    śubhé ǀ yát ǀ yuyujé ǀ táviṣī-vān ǁ

    apa ǀ yoḥ ǀ indraḥ ǀ pāpaje ǀ ā ǀ martaḥ ǀ na ǀ śaśramāṇaḥ ǀ bibhīvān ǀ
    śubhe ǀ yat ǀ yuyuje ǀ taviṣī-vān ǁ

    10.105.3 Aṣṭaka 8.5.26.3Anuvāka 10.9.63

  4. Ṛk 4

    सचा॒योरिंद्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।
    न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इंद्रः॑ ॥

    सचायोर् इन्द्रश् चर्कृष आं उपानसः सपर्यन् |
    नदयोर् विव्रतयोः शूर इन्द्रः ||

    sácāyóríndraścárkṛṣa ā́m̐ upānasáḥ saparyán ǀ
    nadáyorvívratayoḥ śū́ra índraḥ ǁ

    sacāyor indraś carkṛṣa āṃ upānasaḥ saparyan |
    nadayor vivratayoḥ śūra indraḥ ||

    सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।
    न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥

    सचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् ।
    नदयोः । विऽव्रतयोः । शूरः । इन्द्रः ॥

    sácā ǀ āyóḥ ǀ índraḥ ǀ cárkṛṣe ǀ ā́ ǀ upānasáḥ ǀ saparyán ǀ
    nadáyoḥ ǀ ví-vratayoḥ ǀ śū́raḥ ǀ índraḥ ǁ

    sacā ǀ āyoḥ ǀ indraḥ ǀ carkṛṣe ǀ ā ǀ upānasaḥ ǀ saparyan ǀ
    nadayoḥ ǀ vi-vratayoḥ ǀ śūraḥ ǀ indraḥ ǁ

    10.105.4 Aṣṭaka 8.5.26.4Anuvāka 10.9.64

  5. Ṛk 5

    अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै ।
    व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥

    अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै |
    वनोति शिप्राभ्यां शिप्रिणीवान् ||

    ádhi yástastháu kéśavantā vyácasvantā ná puṣṭyái ǀ
    vanóti śíprābhyām śipríṇīvān ǁ

    adhi yas tasthau keśavantā vyacasvantā na puṣṭyai |
    vanoti śiprābhyāṃ śipriṇīvān ||

    अधि॑ । यः । त॒स्थौ । केश॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै ।
    व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥

    अधि । यः । तस्थौ । केशऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै ।
    वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥

    ádhi ǀ yáḥ ǀ tastháu ǀ kéśa-vantā ǀ vyácasvantā ǀ ná ǀ puṣṭyái ǀ
    vanóti ǀ śíprābhyām ǀ śipríṇī-vān ǁ

    adhi ǀ yaḥ ǀ tasthau ǀ keśa-vantā ǀ vyacasvantā ǀ na ǀ puṣṭyai ǀ
    vanoti ǀ śiprābhyām ǀ śipriṇī-vān ǁ

    10.105.5 Aṣṭaka 8.5.26.5Anuvāka 10.9.65

  6. Ṛk 6

    प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।
    ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥

    प्रास्तौद् ऋष्वौजा ऋष्वेभिस् ततक्ष शूरः शवसा |
    ऋभुर् न क्रतुभिर् मातरिश्वा ||

    prā́staudṛṣváujā ṛṣvébhistatákṣa śū́raḥ śávasā ǀ
    ṛbhúrná krátubhirmātaríśvā ǁ

    prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā |
    ṛbhur na kratubhir mātariśvā ||

    प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा ।
    ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥

    प्र । अस्तौत् । ऋष्वऽओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा ।
    ऋभुः । न । क्रतुऽभिः । मातरिश्वा ॥

    prá ǀ astaut ǀ ṛṣvá-ojāḥ ǀ ṛṣvébhiḥ ǀ tatákṣa ǀ śū́raḥ ǀ śávasā ǀ
    ṛbhúḥ ǀ ná ǀ krátu-bhiḥ ǀ mātaríśvā ǁ

    pra ǀ astaut ǀ ṛṣva-ojāḥ ǀ ṛṣvebhiḥ ǀ tatakṣa ǀ śūraḥ ǀ śavasā ǀ
    ṛbhuḥ ǀ na ǀ kratu-bhiḥ ǀ mātariśvā ǁ

    10.105.6 Aṣṭaka 8.5.27.1Anuvāka 10.9.66

  7. Ṛk 7

    वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।
    अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥

    वज्रं यश् चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् |
    अरुतहनुर् अद्भुतं न रजः ||

    vájram yáścakré suhánāya dásyave hirīmaśó hírīmān ǀ
    árutahanurádbhutam ná rájaḥ ǁ

    vajraṃ yaś cakre suhanāya dasyave hirīmaśo hirīmān |
    arutahanur adbhutaṃ na rajaḥ ||

    वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हिरी॑मान् ।
    अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥

    वज्रम् । यः । चक्रे । सुऽहनाय । दस्यवे । हिरीमशः । हिरीमान् ।
    अरुतऽहनुः । अद्भुतम् । न । रजः ॥

    vájram ǀ yáḥ ǀ cakré ǀ su-hánāya ǀ dásyave ǀ hirīmaśáḥ ǀ hírīmān ǀ
    áruta-hanuḥ ǀ ádbhutam ǀ ná ǀ rájaḥ ǁ

    vajram ǀ yaḥ ǀ cakre ǀ su-hanāya ǀ dasyave ǀ hirīmaśaḥ ǀ hirīmān ǀ
    aruta-hanuḥ ǀ adbhutam ǀ na ǀ rajaḥ ǁ

    10.105.7 Aṣṭaka 8.5.27.2Anuvāka 10.9.67

  8. Ṛk 8

    अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।
    नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥

    अव नो वृजिना शिशीह्य् ऋचा वनेमानृचः |
    नाब्रह्मा यज्ञ ऋधग् जोषति त्वे ||

    áva no vṛjinā́ śiśīhyṛcā́ vanemānṛ́caḥ ǀ
    nā́brahmā yajñá ṛ́dhagjóṣati tvé ǁ

    ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ |
    nābrahmā yajña ṛdhag joṣati tve ||

    अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ ।
    न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥

    अव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः ।
    न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति ॥

    áva ǀ naḥ ǀ vṛjinā́ ǀ śiśīhi ǀ ṛcā́ ǀ vanema ǀ anṛ́caḥ ǀ
    ná ǀ ábrahmā ǀ yajñáḥ ǀ ṛ́dhak ǀ jóṣati ǀ tvé íti ǁ

    ava ǀ naḥ ǀ vṛjinā ǀ śiśīhi ǀ ṛcā ǀ vanema ǀ anṛcaḥ ǀ
    na ǀ abrahmā ǀ yajñaḥ ǀ ṛdhak ǀ joṣati ǀ tve iti ǁ

    10.105.8 Aṣṭaka 8.5.27.3Anuvāka 10.9.68

  9. Ṛk 9

    ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।
    स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥

    ऊर्ध्वा यत् ते त्रेतिनी भूद् यज्ञस्य धूर्षु सद्मन् |
    सजूर् नावं स्वयशसं सचायोः ||

    ūrdhvā́ yátte tretínī bhū́dyajñásya dhūrṣú sádman ǀ
    sajū́rnā́vam sváyaśasam sácāyóḥ ǁ

    ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman |
    sajūr nāvaṃ svayaśasaṃ sacāyoḥ ||

    ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् ।
    स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥

    ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूःऽसु । सद्मन् ।
    सऽजूः । नावम् । स्वऽयशसम् । सचा । आयोः ॥

    ūrdhvā́ ǀ yát ǀ te ǀ tretínī ǀ bhū́t ǀ yajñásya ǀ dhūḥ-sú ǀ sádman ǀ
    sa-jū́ḥ ǀ nā́vam ǀ svá-yaśasam ǀ sácā ǀ āyóḥ ǁ

    ūrdhvā ǀ yat ǀ te ǀ tretinī ǀ bhūt ǀ yajñasya ǀ dhūḥ-su ǀ sadman ǀ
    sa-jūḥ ǀ nāvam ǀ sva-yaśasam ǀ sacā ǀ āyoḥ ǁ

    10.105.9 Aṣṭaka 8.5.27.4Anuvāka 10.9.69

  10. Ṛk 10

    श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।
    यया॒ स्वे पात्रे॑ सिं॒चस॒ उत् ॥

    श्रिये ते पृश्निर् उपसेचनी भूच् छ्रिये दर्विर् अरेपाः |
    यया स्वे पात्रे सिञ्चस उत् ||

    śriyé te pṛ́śnirupasécanī bhūcchriyé dárvirarepā́ḥ ǀ
    yáyā své pā́tre siñcása út ǁ

    śriye te pṛśnir upasecanī bhūc chriye darvir arepāḥ |
    yayā sve pātre siñcasa ut ||

    श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः ।
    यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥

    श्रिये । ते । पृश्निः । उपऽसेचनी । भूत् । श्रिये । दर्विः । अरेपाः ।
    यया । स्वे । पात्रे । सिञ्चसे । उत् ॥

    śriyé ǀ te ǀ pṛ́śniḥ ǀ upa-sécanī ǀ bhūt ǀ śriyé ǀ dárviḥ ǀ arepā́ḥ ǀ
    yáyā ǀ své ǀ pā́tre ǀ siñcáse ǀ út ǁ

    śriye ǀ te ǀ pṛśniḥ ǀ upa-secanī ǀ bhūt ǀ śriye ǀ darviḥ ǀ arepāḥ ǀ
    yayā ǀ sve ǀ pātre ǀ siñcase ǀ ut ǁ

    10.105.10 Aṣṭaka 8.5.27.5Anuvāka 10.9.70

  11. Ṛk 11

    श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
    आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सं ॥

    शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् |
    आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ||

    śatám vā yádasurya práti tvā sumitrá itthā́stauddurmitrá itthā́staut ǀ
    ā́vo yáddasyuhátye kutsaputrám prā́vo yáddasyuhátye kutsavatsám ǁ

    śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut |
    āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam ||

    श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।
    आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥

    शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुऽमित्रः । इत्था । अस्तौत् । दुःऽमित्रः । इत्था । अस्तौत् ।
    आवः । यत् । दस्युऽहत्ये । कुत्सऽपुत्रम् । प्र । आवः । यत् । दस्युऽहत्ये । कुत्सऽवत्सम् ॥

    śatám ǀ vā ǀ yát ǀ asurya ǀ práti ǀ tvā ǀ su-mitráḥ ǀ itthā́ ǀ astaut ǀ duḥ-mitráḥ ǀ itthā́ ǀ astaut ǀ
    ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-putrám ǀ prá ǀ ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-vatsám ǁ

    śatam ǀ vā ǀ yat ǀ asurya ǀ prati ǀ tvā ǀ su-mitraḥ ǀ itthā ǀ astaut ǀ duḥ-mitraḥ ǀ itthā ǀ astaut ǀ
    āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-putram ǀ pra ǀ āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-vatsam ǁ

    10.105.11 Aṣṭaka 8.5.27.6Anuvāka 10.9.71

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.105 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

WHEN, Vasu, wilt thou love the laud? Now let the channel bring the stream. The juice is ready to ferment.

Ṛk 2

He whose two Bay Steeds harnessed well, swerving, pursue the Bird's tail-plumes, With Rowing manes, like heaven and earth, he is the Lord with power to give.

Ṛk 3

Bereft of skill is Indra, if, like some outwearied man he fears The sinner, when the Mighty hath prepared himself for victory.

Ṛk 4

Indra with these drives round, until he meets with one to worship him: Indra is Master of the pair who snort and swerve upon their way.

Ṛk 5

Borne onward by the long-maned Steeds who stretch themselves as ’twere for food, The God who wears the helm defends them with his jaws.

Ṛk 6

The Mighty sang with Lofty Ones: the Hero fashioned with his strength, Like skilful Mātariśvan with his power and might,

Ṛk 7

The bolt, which pierced at once the vitals of the Dasyu easy to be slain, With jaw uninjured like the wondrous firmament.

Ṛk 8

Grind off our sins: with song will we conquer the men who sing no hymns: Not easily art thou pleased with prayerless sacrifice.

Ṛk 9

When threefold flame burns high for thee, to rest on poles of sacrifice, Thou with the living joyest in the self-bright Ship.

Ṛk 10

Thy glory was the speckled cup, thy glory was the flawless scoop. Wherewith thou pourest into thy receptacle.