Ṛgveda · Maṇḍala 10 · Sūkta 105
Ṛk 10.105.5
Saṃhitā
अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै ।
व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥
अधि यस् तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै |
वनोति शिप्राभ्यां शिप्रिणीवान् ||
ádhi yástastháu kéśavantā vyácasvantā ná puṣṭyái ǀ
vanóti śíprābhyām śipríṇīvān ǁ
adhi yas tasthau keśavantā vyacasvantā na puṣṭyai |
vanoti śiprābhyāṃ śipriṇīvān ||
Padapāṭha
अधि॑ । यः । त॒स्थौ । केश॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै ।
व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥
अधि । यः । तस्थौ । केशऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै ।
वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥
ádhi ǀ yáḥ ǀ tastháu ǀ kéśa-vantā ǀ vyácasvantā ǀ ná ǀ puṣṭyái ǀ
vanóti ǀ śíprābhyām ǀ śipríṇī-vān ǁ
adhi ǀ yaḥ ǀ tasthau ǀ keśa-vantā ǀ vyacasvantā ǀ na ǀ puṣṭyai ǀ
vanoti ǀ śiprābhyām ǀ śipriṇī-vān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.105.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.26.05
- Maṇḍala · Anuvāka · Ṛk
- 10.09.065
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Durmitra Kautsa Or Sumitra Kautsa
- Chandas छन्दस्
- Uṣṇih, Uṣṇih Or Gāyatrī, Pipīlikamadhyā, Triṣṭubh Or Gāyatrī
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.