Ṛgveda · Maṇḍala 10 · Sūkta 105
Ṛk 10.105.11
Saṃhitā
श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सं ॥
शतं वा यद् असुर्य प्रति त्वा सुमित्र इत्थास्तौद् दुर्मित्र इत्थास्तौत् |
आवो यद् दस्युहत्ये कुत्सपुत्रम् प्रावो यद् दस्युहत्ये कुत्सवत्सम् ||
śatám vā yádasurya práti tvā sumitrá itthā́stauddurmitrá itthā́staut ǀ
ā́vo yáddasyuhátye kutsaputrám prā́vo yáddasyuhátye kutsavatsám ǁ
śataṃ vā yad asurya prati tvā sumitra itthāstaud durmitra itthāstaut |
āvo yad dasyuhatye kutsaputram prāvo yad dasyuhatye kutsavatsam ||
Padapāṭha
श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।
आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥
शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुऽमित्रः । इत्था । अस्तौत् । दुःऽमित्रः । इत्था । अस्तौत् ।
आवः । यत् । दस्युऽहत्ये । कुत्सऽपुत्रम् । प्र । आवः । यत् । दस्युऽहत्ये । कुत्सऽवत्सम् ॥
śatám ǀ vā ǀ yát ǀ asurya ǀ práti ǀ tvā ǀ su-mitráḥ ǀ itthā́ ǀ astaut ǀ duḥ-mitráḥ ǀ itthā́ ǀ astaut ǀ
ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-putrám ǀ prá ǀ ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-vatsám ǁ
śatam ǀ vā ǀ yat ǀ asurya ǀ prati ǀ tvā ǀ su-mitraḥ ǀ itthā ǀ astaut ǀ duḥ-mitraḥ ǀ itthā ǀ astaut ǀ
āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-putram ǀ pra ǀ āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-vatsam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.105.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.5.27.06
- Maṇḍala · Anuvāka · Ṛk
- 10.09.071
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Durmitra Kautsa Or Sumitra Kautsa
- Chandas छन्दस्
- Uṣṇih, Uṣṇih Or Gāyatrī, Pipīlikamadhyā, Triṣṭubh Or Gāyatrī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.