Sūkta 181
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- 1: Pratha Vāsiṣṭha; 2: Sapratha Bhāradvāja; 3: Gharma Saurya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1); triṣṭup (2); pādanicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् |
धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ||práthaśca yásya sapráthaśca nā́mā́nuṣṭubhasya havíṣo havíryát ǀ
dhātúrdyútānātsavitúśca víṣṇo rathaṃtarámā́ jabhārā vásiṣṭhaḥ ǁprathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat |
dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ ||प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥प्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् ।
धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥práthaḥ ǀ ca ǀ yásya ǀ sa-práthaḥ ǀ ca ǀ nā́ma ǀ ā́nu-stubhasya ǀ havíṣaḥ ǀ havíḥ ǀ yát ǀ
dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ratham-tarám ǀ ā́ ǀ jabhāra ǀ vásiṣṭhaḥ ǁprathaḥ ǀ ca ǀ yasya ǀ sa-prathaḥ ǀ ca ǀ nāma ǀ ānu-stubhasya ǀ haviṣaḥ ǀ haviḥ ǀ yat ǀ
dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ratham-taram ǀ ā ǀ jabhāra ǀ vasiṣṭhaḥ ǁ10.181.1 Aṣṭaka 8.8.39.1Anuvāka 10.12.134
-
Ṛk 2
अविं॑दं॒ते अति॑हितं॒ यदासी॑द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑र्भ॒रद्वा॑जो बृ॒हदा च॑क्रे अ॒ग्नेः ॥अविन्दन् ते अतिहितं यद् आसीद् यज्ञस्य धाम परमं गुहा यत् |
धातुर् द्युतानात् सवितुश् च विष्णोर् भरद्वाजो बृहद् आ चक्रे अग्नेः ||ávindanté átihitam yádā́sīdyajñásya dhā́ma paramám gúhā yát ǀ
dhātúrdyútānātsavitúśca víṣṇorbharádvājo bṛhádā́ cakre agnéḥ ǁavindan te atihitaṃ yad āsīd yajñasya dhāma paramaṃ guhā yat |
dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ ||अवि॑न्दन् । ते । अति॑ऽहितम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ । प॒र॒मम् । गुहा॑ । यत् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । भ॒रत्ऽवा॑जः । बृ॒हत् । आ । च॒क्रे॒ । अ॒ग्नेः ॥अविन्दन् । ते । अतिऽहितम् । यत् । आसीत् । यज्ञस्य । धाम । परमम् । गुहा । यत् ।
धातुः । द्युतानात् । सवितुः । च । विष्णोः । भरत्ऽवाजः । बृहत् । आ । चक्रे । अग्नेः ॥ávindan ǀ té ǀ áti-hitam ǀ yát ǀ ā́sīt ǀ yajñásya ǀ dhā́ma ǀ paramám ǀ gúhā ǀ yát ǀ
dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ bharát-vājaḥ ǀ bṛhát ǀ ā́ ǀ cakre ǀ agnéḥ ǁavindan ǀ te ǀ ati-hitam ǀ yat ǀ āsīt ǀ yajñasya ǀ dhāma ǀ paramam ǀ guhā ǀ yat ǀ
dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ bharat-vājaḥ ǀ bṛhat ǀ ā ǀ cakre ǀ agneḥ ǁ10.181.2 Aṣṭaka 8.8.39.2Anuvāka 10.12.135
-
Ṛk 3
ते॑ऽविंद॒न्मन॑सा॒ दीध्या॑ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे॑व॒यानं॑ ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥ते ऽविन्दन् मनसा दीध्याना यजु ष्कन्नम् प्रथमं देवयानम् |
धातुर् द्युतानात् सवितुश् च विष्णोर् आ सूर्याद् अभरन् घर्मम् एते ||té’vindanmánasā dī́dhyānā yájuḥ ṣkannám prathamám devayā́nam ǀ
dhātúrdyútānātsavitúśca víṣṇorā́ sū́ryādabharangharmámeté ǁte 'vindan manasā dīdhyānā yaju ṣkannam prathamaṃ devayānam |
dhātur dyutānāt savituś ca viṣṇor ā sūryād abharan gharmam ete ||ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् ।
धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥té ǀ avindan ǀ mánasā ǀ dī́dhyānāḥ ǀ yájuḥ ǀ skannám ǀ prathamám ǀ deva-yā́nam ǀ
dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ā́ ǀ sū́ryāt ǀ abharan ǀ gharmám ǀ eté ǁte ǀ avindan ǀ manasā ǀ dīdhyānāḥ ǀ yajuḥ ǀ skannam ǀ prathamam ǀ deva-yānam ǀ
dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ā ǀ sūryāt ǀ abharan ǀ gharmam ǀ ete ǁ10.181.3 Aṣṭaka 8.8.39.3Anuvāka 10.12.136
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.