Ṛgveda · Maṇḍala 10 · Sūkta 181
Ṛk 10.181.1
Saṃhitā
प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒विर्यत् ।
धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॑ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ॥
प्रथश् च यस्य सप्रथश् च नामानुष्टुभस्य हविषो हविर् यत् |
धातुर् द्युतानात् सवितुश् च विष्णो रथन्तरम् आ जभारा वसिष्ठः ||
práthaśca yásya sapráthaśca nā́mā́nuṣṭubhasya havíṣo havíryát ǀ
dhātúrdyútānātsavitúśca víṣṇo rathaṃtarámā́ jabhārā vásiṣṭhaḥ ǁ
prathaś ca yasya saprathaś ca nāmānuṣṭubhasya haviṣo havir yat |
dhātur dyutānāt savituś ca viṣṇo rathantaram ā jabhārā vasiṣṭhaḥ ||
Padapāṭha
प्रथः॑ । च॒ । यस्य॑ । स॒ऽप्रथः॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विषः॑ । ह॒विः । यत् ।
धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । र॒थ॒म्ऽत॒रम् । आ । ज॒भा॒र॒ । वसि॑ष्ठः ॥
प्रथः । च । यस्य । सऽप्रथः । च । नाम । आनुऽस्तुभस्य । हविषः । हविः । यत् ।
धातुः । द्युतानात् । सवितुः । च । विष्णोः । रथम्ऽतरम् । आ । जभार । वसिष्ठः ॥
práthaḥ ǀ ca ǀ yásya ǀ sa-práthaḥ ǀ ca ǀ nā́ma ǀ ā́nu-stubhasya ǀ havíṣaḥ ǀ havíḥ ǀ yát ǀ
dhātúḥ ǀ dyútānāt ǀ savitúḥ ǀ ca ǀ víṣṇoḥ ǀ ratham-tarám ǀ ā́ ǀ jabhāra ǀ vásiṣṭhaḥ ǁ
prathaḥ ǀ ca ǀ yasya ǀ sa-prathaḥ ǀ ca ǀ nāma ǀ ānu-stubhasya ǀ haviṣaḥ ǀ haviḥ ǀ yat ǀ
dhātuḥ ǀ dyutānāt ǀ savituḥ ǀ ca ǀ viṣṇoḥ ǀ ratham-taram ǀ ā ǀ jabhāra ǀ vasiṣṭhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.181.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.39.01
- Maṇḍala · Anuvāka · Ṛk
- 10.12.134
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- 1: Pratha Vāsiṣṭha; 2: Sapratha Bhāradvāja; 3: Gharma Saurya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.